संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४८ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।क्रियाविशेषबहुला भोगैश्वर्यहताशयाः ।नापेक्षन्ते यदा सत्यं न पश्यन्ति शठास्तदा ॥१॥ये तु पारं गता बुद्धेरिन्द्रियैर्न वशीकृताः ।त एनां जागतीं मायां पश्यन्ति करबिल्ववत् ॥२॥तुच्छां तां जागतीं मायां दृष्ट्वा जीवो विचारवान् ।अहंकारमयीं मायां त्यजत्यहिरिव त्वचम् ॥३॥असक्ततां ततोऽभ्येत्य पुना राम न जायते ।क्षेत्रेष्वपि चिरं तिष्ठन्बीजं दग्धमिवाग्निना ॥४॥आधिव्याधिपरीताय प्रातर्वाद्य विनाशिने ।प्रयतन्ते शरीराय हितमज्ञास्तु नात्मने ॥५॥त्वमप्यज्ञवदज्ञस्य शरीरस्य समीहितम् ।मा संपादय दुःखाय भवात्मैकपरायणः ॥६॥श्रीराम उवाच ।दाशूराख्यायिकेवेयं सुखसंसारचक्रिका ।कल्पनारचिताकारा वस्तुशून्येति किं प्रभो ॥७॥श्रीवसिष्ठ उवाच ।जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः ।दाशूराख्यायिका राम वर्ण्यमानां मया शृणु ॥८॥अस्त्यस्मिन्वसुधापीठे विचित्रकुसुमद्रुमः ।मागधो नाम विख्यातः श्रीमाञ्जनपदो महान् ॥९॥कदम्बवनविस्तारलीलावलितजङ्गलः ।विचित्रविहगव्यूहसर्वाश्चर्यमनोहरः ॥१०॥सस्यसंकटसीमान्तः पुरोपवनमण्डितः ।कमलोत्पलकह्लारपूर्णसर्वसरित्तटः ॥११॥उद्यानदोलाविलसल्ललनागेयघुंघुमः ।निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः ॥१२॥तत्रैकस्मिन्गिरितटे कर्णिकारसमाकुले ।कदलीखण्डनीरन्ध्रनीपगुल्मविराजिते ॥१३॥पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि ।कारण्डवकृतारावे रसत्सरससारसे ॥१४॥तस्मिन्नगवरे पुण्ये विचित्रविहगद्रुमे ।कश्चित्परमधर्मात्मा मुनिरासीन्महातपाः ॥१५॥दाशूरनामा महता तपोयोगेन संयुतः ।कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः ॥१६॥श्रीराम उवाच ।असौ तपस्वी भगवन्विपिने केन हेतुना ।कथं चाप्यवसत्पृष्ठे कदम्बस्य महातरोः ॥१७॥श्रीवसिष्ठ उवाच ।शरलोमेति विख्यातः पिता तस्य बभूव ह ।रामाऽपर इव ब्रह्मा तस्मिन्नेवावसद्गिरौ ॥१८॥तस्यासावेकपुत्रोऽभूत्कचो देवगुरोरिव ।तेन सार्धं स पुत्रेण नीतवाञ्जीवितं वने ॥१९॥अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ ।त्यक्तदेहः सुरागारं मुक्तनीडः खगो यथा ॥२०॥एक एव वने तस्मिन्दाशूरः प्ररुरोद ह ।दशापनीतपितृकः करुणं कुररो यथा ॥२१॥मातापितृवियोगेन शोकसंतापिताशयः ।म्लानिमभ्याययौ नूनं हेमन्त इव पङ्कजम् ॥२२॥बालोऽसावतिदीनात्मा वनदेवतया वने ।इत्थमाश्वासितो राम तदाऽदृश्यशरीरया ॥२३॥ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि ।संसारस्य न कस्मात्त्वं स्वरूपं वेत्सि चञ्चलम् ॥२४॥सर्वदैवेदृशी साधो संसारे संसृतिश्चला ।जायते जीव्यते पश्चादवश्यं च विनश्यति ॥२५॥यद्यत्किंचिद्दृश्यदृशि ब्रह्मादिकमिदं मुने ।गन्तव्यस्तेन सर्वेण विनाशो नात्र संशयः ॥२६॥तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः ।अवश्यभाव्यस्तमयो जातस्याहर्षतेरिव ॥२७॥अशरीरामिति श्रुत्वा गिरमारक्तलोचनः ।धैर्यमासादयामास शिखण्डी स्तनितादिव ॥२८॥उत्थायावश्यकं कृत्वा पाश्चात्यं पितुरादरात् ।चकार तपसे बुद्धिं दृढामुत्तमसिद्धये ॥२९॥ब्राह्मेण कर्मणा तस्य विपिने चरतस्तपः ।अनन्तसंकल्पमयं श्रोत्रियत्वं बभूव ह ॥३०॥अज्ञातज्ञेयबुद्धेस्तु श्रोत्रियस्य तया तया ।न विशश्राम चेतोऽस्य पवित्रेऽपि धरातले ॥३१॥केवलं सर्वमेवेदमपि शुद्धं धरातलम् ।अशुद्धमिव पश्यन्स न रेमे क्वचिदेव हि ॥३२॥अथ संकल्पयामास स्वसंकल्पनयैव सः ।वृक्षाग्रमेव संशुद्धं स्थितिस्तत्रोचिता मम ॥३३॥तदिदानीं तपस्तप्स्ये तपसा येन शाखिषु ।खगवत्स्थितिमाप्नोमि शाखासु च दलेषु च ॥३४॥इति संचिन्त्य संज्वाल्य हुताशमतिभास्वरम् ।जुहाव तस्मिन्प्रोत्कृत्त्य मांसं स्वस्कन्धभित्तितः ॥३५॥अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः ।मन्मुखत्वेन मा यान्तु विप्रमांसेन भस्मताम् ॥३६॥इति संचिन्त्य भगवान्सप्तार्चिस्तस्य देवता ।पुरो बभूव दीप्तांशुर्दीप्तांशुर्वाक्पतेरिव ॥३७॥उवाच वचनं धीरं कुमाराभिमतं वरम् ।गृहाण स्थापितं साधो कोशाकाशान्मणिं यथा ॥३८॥इत्युक्तवन्तमनलमर्घपुष्पेण शोभिना ।संपूज्य स्तुतिवादेन प्राह विप्रकुमारकः ॥३९॥भगवन् भूतपूर्णाया भुवः पावनमण्डलम् ।नाप्नोमि तेन वृक्षाणामुपरि स्थितिरस्तु मे ॥४०॥ इत्युक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी ॥एवमस्तु तवेत्युक्त्वा जगामान्तर्द्धिमीश्वरः ॥४१॥तस्मिन्नन्तर्हिते देवे क्षणात्सान्ध्य इवाम्बुजे ।पूर्णकामः कुमारोऽसौ पूर्णेन्दुरिव चाबभौ ॥४२॥अधिगताभिमताननमण्डल-द्युतिभरेण जहास स तुष्टिमान् ।शशिनमाप्तकलाकुलमम्बुजंविकसितं च सितस्मितशोभिना ॥४३॥इत्यार्षे श्रीवसिष्ठमहारामायणे वा० दे० मो० स्थितिप्रकरणे दाशूरो० दाशूरवरप्रदानवर्णनं नामाष्टचत्वारिंशः सर्गः ॥४८॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP