संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ३५ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ३५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जयन्ति ते महाशूराः साधवो यैर्विनिर्जितम् ।अविद्यामेदुरोल्लासैः स्वमनो विषयोन्मुखम् ॥१॥संसारस्यास्य दुःखस्य सर्वोपद्रवदायिनः ।उपाय एक एवास्ति मनसः स्वस्य निग्रहः ॥२॥श्रूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् ।भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते ॥३॥किमन्यैः शास्त्रसंदर्भैः क्रियतामिदमेव तु ।यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत् ॥४॥विषमा विषयाभोगाः प्रविचार्य पुनःपुनः ।उपरिष्टात्परित्यज्य सेव्यमानाः सुखावहाः ॥५॥दोषान्प्रसवति स्फारान्वासनावलिता मतिः ।कीर्णकण्टकबीजा भूः कण्टकप्रसरं यथा ॥६॥अलग्नवासनाजाला मतिः प्रसरवर्जिता ।अदृष्टरागद्वेषा या शममेति शनैः परम् ॥७॥शुभाशुभानसद्ग्लानीन्प्रसूते सुगुणान्सदा ।फलदानङ्कुरान्काले श्रेष्ठबीजवतीव भूः ॥८॥शुभभावानुसंधानातप्रसन्ने मनसि स्थिते ।शनैः शनैः प्रशान्ते च मिथ्याज्ञानघनाम्बुदे ॥९॥वृद्धिं याते च सौजन्ये यक्षे शुक्ल इवोडुपे ।विवेके प्रसृते पुण्ये नभसीवार्कतेजसि ॥१०॥धृतावन्तर्विवृद्धायां मुक्तायामिव कीचके ।स्थितावन्तः कृतार्थायां मधाविव निशाकरे ॥११॥फलिते शीतलच्छाये सत्सङ्गसफलद्रुमे ।स्रवत्यानन्दसुरस समाधिसरलद्रुमे ॥१२॥मनो भवति निर्द्वन्द्वं निष्कामं निरुपद्रवम् ।प्रशान्तचापलानर्थशोकमोहभयामयम् ॥१३॥क्षीणशास्त्रार्थसंदेहं विगताशेषकौतुकम् ।निरस्तकल्पनाजालं मोहमुक्तमलेपकम् ॥१४॥निरीहं निरुपाक्रोशं निरपेक्षं निराधिकम् ।संशान्तशोकनीहारमसक्तं ग्रन्थिवर्जितम् ॥१५॥संदेहोग्रसुतं साग्रं सतृष्णादारपञ्जरम् ।नाशयित्वा स्वमात्मानं साधयत्यर्थमैश्वरम् ॥१६॥आत्मपीवरताहेतून्विकल्पांश्चायमुज्झति ।संस्मृत्य प्रभुतामेषु जहाति तृणवत्तनुम् ॥१७॥मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।ज्ञमनो नाशमभ्येति मनोऽज्ञस्य विवर्धते ॥१८॥मनोमात्रं जगच्चक्रं मनः पर्वतमण्डलम् ।मनो व्योम मनो देवो मनो मित्रं मनो रिपुः ॥१९॥विकल्पकलुषा या स्याच्चित्तत्त्वस्यात्मविस्मृतिः ।मन इत्युच्यते सेयं वासना भवभागिनी ॥२०॥चेत्यानुपातकलितचिन्मात्रे तिष्ठताभिधम् ।मनाग्विवकल्पकलुषं चित्तत्त्वं जीव उच्यते ॥२१॥चेत्यप्रपतितं रूढसंज्ञमज्ञत्वमागतम् ।तदेवाधिकनिःसारं कल्प्यतेऽन्तर्मनस्तया ॥२२॥नात्मा संसारिपुरुषो न शरीरं न शोणितम् ।जडं सर्वं शरीरादि देही स्ववदलेपकः ॥२३॥शरीरे कणशः कृत्ते नास्त्यन्यद्रुधिरादिकात् ।निर्भिन्ने कदलीस्तम्भे नास्त्यन्यत्पल्लवादृते ॥२४॥मनो जीवो नरं विद्धि तदेवाकारमागतम् ।आत्मनात्मानमादत्ते स्वविकल्पात्मकल्पितम् ॥२५॥स्वविकल्पान्नरस्तत्र प्रसार्य रचयत्यलम् ।जालमात्मनिबन्धाय कोशकारकृमिर्यथा ॥२६॥इमं देहभ्रमं त्यक्त्वा देशकालान्तरे पुनः ।शरीरत्वमथादत्ते पल्लवत्वमिवाङ्कुरः ॥२७॥यादृग्वासनमेतत्स्यात्तमनस्तादृक्प्रजायते ।जातं स्वपिति यच्चित्तं तत्स्वप्ने निशि तिष्ठति ॥२८॥अम्लं मधुरसासिक्तं मधुरं मधुरञ्जितम् ।बीजं प्रतिविषाकल्कसिक्तं च कटु जायते ॥२९॥शुभवासनया चेतो महत्या जायते महत् ।भवतीन्द्रमनोराज्य इन्द्रता स्वप्नभाङ्गरः ॥३०॥क्षुद्रवासनया चेतःक्षुद्रतामपि पेलवाम् ।पिशाचविभ्रमात्स्वप्ने पिशाचान्निशि पश्यति ॥३१॥सरसि स्फारनैर्मल्ये कालुष्यं याति न स्थितिम् ।तथैव स्फारकालुष्ये प्रसादो याति न स्थितिम् ॥३२॥मनसि स्फारकालुष्ये तद्रूपं जायते फलम् ।तथैव स्फारनैर्मल्ये तद्रूपं जायते फलम् ॥३३॥त्यजत्युदारां न गतिं क्षीणोऽप्यनिशमुत्तमः ।उद्योगवानविरतं पूरणाशामिवोडुपः ॥३४॥नेह बन्धो न मोक्षोऽस्ति नाबन्धोऽस्ति न बन्धता।मिथ्योत्थितैव मायेयमिन्द्रजाललता यथा ॥३५॥गन्धर्वनगराकारा मृगतृष्णा इवोत्थिता ।द्विचन्द्रविभ्रमाभासा द्वैतैकत्वविवर्जिता ॥३६॥सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ।परिस्फुरति निःसारः संसारोऽयमसन्मयः ॥३७॥नानन्तोऽहं वराकोऽहमिति दुर्निश्चयोदितः ।अनन्तोऽस्मीश्वरोऽस्मीति निश्चयेन विलीयते ॥३८॥सर्वगे स्वात्मनि स्वच्छे एषोऽहमिति भावना ।एतत्तद्बन्धनं लोके स्वविकल्पोपकल्पितम् ॥३९॥बन्धमोक्षदशाहीना द्वित्वैकत्वविवर्जिता ।सर्वैव ब्रह्मसत्तेयमित्येषा परमार्थता ॥४०॥नैर्मल्यप्राप्तमरणमसक्तं सर्वदृष्टिषु ।अमनस्त्वमिहापन्नं ब्रह्म पश्यति नान्यथा ॥४१॥मनो निर्मलतां यातं शुभसंतानवारिभिः ।ब्राह्मीं दृष्टिमुपादत्ते रागं शुक्लपटो यथा ॥४२॥सर्वमेव ममात्मेति सर्वभावनयानघ ।हेयादेयबले क्षीणे बन्धमोक्षो विमुच्यताम् ॥४३॥शुद्धस्य मनसः कायशास्त्रवैराग्यबुद्धिभिः ।अभिजातोपलस्येव जगत्तस्येति विद्युतिः ॥४४॥पदार्थेनैकतामेत्य मनसो नैकतानता ।असत्यज्ञानदृष्टिं तां विद्धि क्षणविनाशिनीम् ॥४५॥सबाह्याभ्यन्तरं त्यक्त्वा सर्वां दृश्यदृशं यदा ।मनस्तिष्ठति तल्लीनं संप्राप्तं तत्पदं तदा ॥४६॥दृश्यदृष्टिः स्फुटा येयं सा ह्यवश्यमसन्मयी ।तन्मयत्वं च मनसः स्वरूपं विद्धि नेतरत् ॥४७॥आद्यन्तयोर्विनाशित्वान्मध्येऽपि तदसन्मयम् ।अज्ञातमनसस्तेन दुःखिता हस्तसंस्थिता ॥४८॥आत्मैवेदं जगदिति विना भावेन दुःखदा ।दृश्यश्रीरन्यथा त्वेषा भोगमोक्षप्रदायिनी ॥४९॥जलमन्यत्तरङ्गोऽन्य इति नानातयाऽज्ञता ।जलमेव तरङ्गोऽयमित्येकत्वात्किल ज्ञता ॥५०॥दुःखमायात्यसदिति हेयोपादेयरूपि यत् ।तदभावेन तु ज्ञानादानन्त्यमवशिष्यते ॥५१॥संकल्पकल्पितत्वाच्च मनोरूपमसन्मयम् ।असन्मयविनाशे तु कः शोको वद राघव ॥५२॥अवत्सलो यथा बन्धुररागद्वेषया धिया ।दृश्यते पश्य तद्वत्त्वं तत्त्वं पञ्जरमात्मनः ॥५३॥अवत्सलाद्यथा बन्धोः सुखदुःखैर्न लिप्यते ।तत्त्वेन संपरिज्ञानात्तथा तत्त्वचयात्मनः ॥५४॥तदनादि शिवं ज्ञानं यन्मध्यं द्रष्टृदृश्ययोः ।तस्मिन्सत्ये मनः शान्तं पांसुर्वायुक्षये यथा ॥५५॥उपशान्ते मनोवायौ देहपांसुः प्रशाम्यति ।पुनः संसारनगरे न नीहारः प्रवर्तते ॥५६॥वासनाप्रावृषि क्षीणे संस्थितौ राममागते ।जाड्ये जनितहृत्कम्पे पङ्के शोषमुपागते ॥५७॥शुष्के तृष्णावटे शान्ते मन्दे हृदयकानने ।क्षीणेष्वक्षकदम्बेषु मिथ्याज्ञानघने क्षते ॥५८॥क्षीयते मोहमिहिका प्रभात इव शर्वरी ।क्वापि गच्छति तज्जाड्यं विषं मन्त्रहतं यथा ॥५९॥देहाद्रौ न भयक्षुद्राः सरितः प्रसरन्त्यलम् ।नोल्लसन्ति लसत्पक्षाः संकल्पोग्रकलापिनः ॥६०॥परां निर्मलतामेति संविदाकाशगोचरः ।राजतेऽतितरामच्छो जीवादित्यो महोदयः ॥६१॥घनमोहभरोन्मुक्ता विविक्तत्वं परं गताः ।समये ह्यतिशोभन्ते धौता आशा महादिशः ॥६२॥भृशमाभाति विमला मुदिताकाशमञ्जरी ।शीतलीकृतदिक्वक्रा शरद्व्योम्नीव चन्द्रिका ॥६३॥सर्वसंपत्प्रकाशेन परमानन्ददायिना ।भृशं सफलतामेति सुविविक्ता विवेकभूः ॥६४॥सपर्वतवनाभोगं परमालोकसुन्दरम् ।अच्छाच्छं शीतलच्छायं जायते भुवनान्तरम् ॥६५॥विस्तारितं सुसुमतां स्फारितं स्फटिकाकृतिम् ।उपैति हृत्सरः स्वच्छं नीरजोम्बुजकोशकम् ॥६६॥हृत्पद्मकोशान्मलिनः स्वाहंकारमधुव्रतः ।अपुनर्दर्शनायैव चञ्चलः क्वापि गच्छति ॥६७॥भवत्यपगताक्षेपः सर्वगः सर्वनायकः ।निर्वासनः शान्तमनाः स्वदेहनगरेश्वरः ॥६८॥विचारणासमधिगतात्मदीपकोमनस्यलं परिगलितेव धीरधीः ।विलोकयन्क्षयभवनीरसा गती-र्गतज्वरो विलसति देहपत्तने ॥६९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये स्थितिप्रकरणे उपशमवर्णनं नाम पञ्चत्रिंशः सर्गः ॥३५॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP