संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ३० स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ३० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३० Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति तुष्टेषु देवेषु दानवेषु हतेषु च ।दामव्यालकटा दीना बभूवुर्भयविह्वलाः ॥१॥जज्वाल कुपितः क्वेति कल्पान्ताग्निरिव ज्वलन् ।शम्बरः शमितानीको दामव्यालकटान्प्रति ॥२॥शम्बरस्य भयाद्गत्वा पातालमथ सप्तमम् ।दामव्यालकटास्तस्थुस्त्यक्त्वाथ निजमण्डलम् ॥३॥यमस्य किङ्करा यत्र ये कालत्रासनक्षमाः ।कुतूहलेन तिष्ठन्ति नरकार्णवपालकाः ॥४॥ते तेषामथ यातानां दत्त्वा भयमभीरवः ।चिन्ता इव घनाकाराः कुमारीश्च ददुः क्रमात् ॥५॥तैः सार्धं नीतवन्तस्ते तत्र दामादयोऽवधिम् ।दशवर्षसहस्रान्तमात्तानन्तकुवासनाः ॥६॥इयं मे कामिनी कन्या ममेयं प्रभुतेति च ।दुरूढस्नेहबन्धानां कालस्तेषां व्यवर्तत ॥७॥धर्मराजोऽथ तं देशं कदाचित्समुपाययौ ।महानरककार्याणां विचारार्थं यदृच्छया ॥८॥अपरिज्ञातमेनं ते धर्मराजं त्रयोऽसुराः ।न प्रणेमुर्विनाशाय सामान्यमिव किङ्करम् ॥९॥अथ वैवस्वतेनैते ज्वलितासूग्रभूमिषु ।विहितभ्रूपरिस्पन्दमात्रेणैव निवेशिताः ॥१०॥तत्र ते करुणाक्रन्दाः ससुहृद्दारबन्धवः ।प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः ॥११॥स्वया वासनया जातास्तयैव क्रूरया पुनः ।बन्धकर्मकराकाराः किराता राजकिङ्कराः ॥१२॥तज्जन्माथ परित्यज्य जाताः श्वभ्रेषु वायसाः ।तदन्ते गृध्रतां यातास्ततोऽपि शुक्लतां गताः ॥१३॥सूकरत्वं त्रिगर्तेषु मेषत्वं पर्वतेषु च ।मगधेष्वथ कीटत्वं बभ्रुस्ते च कुबुद्धयः ॥१४॥अनुभूयेतरामन्यां चित्रां योनिपरम्पराम् ।अद्य मत्स्याः स्थिता राम काश्मीरारण्यपल्वले ॥१५॥दावाग्निक्वथिताल्पाल्पपङ्ककल्पाम्बुपायिनः ।न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः ॥१६॥विचित्रयोनिसंरम्भमनुभूय पुनःपुनः ।भूत्वा भूत्वा पुनर्नष्टास्तरङ्गा जलधाविव ॥१७॥भवजलधिगतास्ते वासनातन्तुनुन्ना-स्तृणमिव चिरमूढा देहरूपैस्तरङ्गैः ।उपशममुपयाता राम नाद्याप्यनन्तंपरिकलय महत्त्वं दारुणं वासनायाः ॥१८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपाये स्थितिप्रकरणे दामव्यालकटजन्मान्तरचित्रवर्णनं नाम त्रिंशः सर्गः ॥३०॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP