संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ४० स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ४० योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४० Translation - भाषांतर श्रीराम उवाच ।उत्पत्तिः कथमेतेषां जीवानां ब्रह्मणः पदात् ।कियती कीदृशी चेति विस्तरेण वद प्रभो ॥१॥श्रीवसिष्ठ उवाच ।उत्पद्यन्ते यथा चित्रा ब्रह्मणो भूतजातयः ।यथा नाशं प्रयान्त्येता यथा मुक्ता भवन्ति हि ॥२॥यथा च परिवर्धन्ते तिष्ठन्त्यन्तर्हिता यथा ।संक्षेपेण महाबाहो श्रृणु वक्ष्यामि तेऽनघ ॥३॥ब्राह्मी चिच्छक्तिरमला कल्पयन्ती यदृच्छया ।सर्वशक्तिः स्वयं चेत्यं भवत्याकलनात्मकम् ॥४॥कलनाद्धनतामेत्य यत्किंचिदपि सा स्वयम् ।संकल्पयति पश्चात्तत्तत्तामेति मनःपदम् ॥५॥मनःसंकल्पमात्रेण गन्धर्वपुरवत्क्षणात् ।तनोतीदमसद्दृश्यं ब्राह्मीं स्थितिमिव त्यजत् ॥६॥चित्स्वरूपं परिकचच्छून्यमेवावतिष्ठते ।यत्तद्दृश्यं स्थितं तत्स्याद्दृश्यमाकाशमेव तत् ॥७॥कृत्वा पद्मजसंकल्पं रूपं पश्यति पद्मजम् ।ततो जगत्कल्पयति सप्रजापतिपूर्वकम् ॥८॥चतुर्दशविधानन्तभूतजातसघुंघुमा ।सृष्टिरेवमियं राम चित्तनिर्मितिमागता ॥९॥चित्तमात्रमयी शून्या व्योममात्रशरीरिका ।संकल्पमात्रनगरी भ्रान्तिमात्रात्मिका सती ॥१०॥इह काश्चिन्महामोहा भूतानां जातयः स्थिताः ।काश्चिदभ्युदितज्ञानाःकाश्चिन्मध्ये स्खलन्ति हि ॥११॥भुवि संबध्यमानानां यान्त्येनामुपदेश्यताम् ।सर्वासां भूतजातीनां या एता नरजातयः ॥१२॥बह्वाधयो दुःरवमया मोहद्वेषभयातुराः ।तासां सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः ॥१३॥यत्तदप्यमृतं ब्रह्म सर्वव्यापि निरामयम् ।चिदाभासमनन्ताख्यमनादि विगतभ्रमम् ॥१४॥निस्पन्दवपुषस्तस्य स्पन्दः सत्तैकदेशतः ।घनतामेति सौम्येऽब्धौ चलता चलतामिव ॥१५॥श्रीराम उवाच ।अनन्तस्यात्मतत्त्वस्य एकदेशः क उच्यते ।कथं विकारिता वा स्यात्कथं वा द्वयविक्रमः ॥१६॥श्रीवसिष्ठ उवाच ।तेन जातं ततोजातमितीयं रचना गिराम् ।शास्त्रसंव्यवहारार्थं न राम परमार्थतः ॥१७॥विकारितावयवितादिक्सत्तादेशतादयः ।क्रमा न संभवन्तीशे दृश्यमानोदया अपि ॥१८॥तं विना कल्पनैवान्या नास्ति नापि भविष्यति ।कुतस्त्यौ क्रमशब्दार्थावुक्तयो व्यवहारजाः ॥१९॥या येह कलना योऽर्थो यः शब्दो यो गिरां गणः ।तज्जत्वात्तन्मयत्वाच्च तत्तत्पदमिवेष्यते ॥२०॥तज्जः स एव भवति वह्नेर्वह्निरिवोत्थितः ।जन्योऽयं जनकश्चायमित्युक्ता भेदकल्पना ॥२१॥अयमस्मात्समुत्पन्न इतीयं या जगत्स्थितिः ।आधिक्यं तत्क्रियाशक्तौ जन्यं जनकमेव वा ॥२२॥इदमन्यदिदं चान्यदिति शब्दार्थविक्लवः ।उक्तावेव न देवेऽस्ति प्रमितौ भिन्नता यतः ॥२३॥तज्जयैव मनःशक्त्या स्वतः संज्ञा प्रवर्तते ।दृढभावनया तस्मादिष्टोऽर्थः प्रतिपद्यते ॥२४॥अग्नेः शिखाया एकस्या द्वितीया जनकेति या ।उक्तिवैचित्र्यमेवैतन्नोक्त्यर्थेऽत्रास्ति सत्यता ॥२५॥न जन्यजनकाद्यास्ताः संभवन्त्युक्तयः परे ।एकमेव ह्यनन्तत्वात्किं कथं जनयिष्यति। ॥२६॥उक्तेरेव स्वभावोऽयमुक्तेरुक्तिरनन्तरम् ।प्रतियोगिव्यवच्छेदसंख्याद्यर्थे न युज्यते ॥२७॥ऊर्मिजालमिवाम्भोधौ परे यः परिदृश्यते ।शब्दोऽर्थकलनाकारस्तद्ब्रह्मैव विदुर्बुधाः ॥२८॥ब्रह्म चिद्ब्रह्म च मनो ब्रह्म विज्ञानवस्तु च ।ब्रह्मार्थो ब्रह्म शब्दश्च ब्रह्म चिद्ब्रह्म धातवः ॥२९॥ब्रह्म सर्वमिदं विश्वं विश्वातीतं च तत्पदम् ।वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम् ॥३०॥अयमन्योऽयमन्योऽयं भाग इत्यम्बरात्मनि ।मिथ्याज्ञानविकल्पोक्तिर्वाचि सत्यार्थतात्र का ॥३१॥वह्नेः शिखेव जातेयं शिखेति मनसोऽभिधा ।चापलोत्थविकल्पश्रीर्वस्तुतः स्यान्न सिद्ध्यति ॥३२॥असत्यैव विकल्पोक्तिः सत्यभावो विकल्पते ।तमोपहतदृष्टित्वाद्द्विचन्द्रज्ञानदोषवत् ॥३३॥सर्वस्मात्सर्वगात्तस्मादनन्ताद्ब्रह्मणः पदात् ।नान्यत्किंचित्संभवति तदुत्थं यत्तदेव तत् ॥३४॥ब्रह्मतत्त्वं विना नेह किंचिदेवोपपद्यते ।खर्वं च खल्विदं ब्रह्मेत्येषैव परमार्थता ॥३५॥एवंप्रायश्च हे प्राज्ञ सिद्धान्तस्ते भविष्यति ।तत्रैवोदाहरिष्यामः सिद्धान्तार्थोक्तिपञ्जरम् ॥३६॥इहाविद्यादिकाः केचिद्विद्यन्ते नेतरक्रमाः ।ज्ञास्यस्यलमशेषार्थांस्तत्तदज्ञानसंक्षये ॥३७॥अवस्तुसंक्षये वस्तु यथावस्तु प्रसीदति ।यथा च दृश्यते दृश्यं जगन्नैशतमःक्षये ॥३८॥यदिदमखिलमाततं कुदृष्ट्यातदुपशमे तव राम निर्मलामे ।अवितथपदनिर्मले भविष्य-त्यवितथमेव न संशयोऽत्र कश्चित् ॥३९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे ब्रह्मैवेदं सर्वं जगदिति प्रतिपादनं नाम चत्वारिंशः सर्गः ॥४०॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP