संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः २४ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः २४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ।आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥१॥स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये ।ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ॥२॥कलेवरालयं प्राप्य विषयामिषगृध्नुकाः ।अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥३॥विवेकतन्तुजालेन गृहीता येन ते शठाः ।तस्याङ्गानि न लुम्पन्ति पाशा नागबलं यथा ॥४॥आपातरमणीयेषु रमते विषयेषु यः ।विवेकधनवानस्मिन्कुकलेवरपत्तने ॥५॥इन्द्रियारिभिरन्तस्थैरवशो नाभिभूयते ।न तथा सुखिता भूपा मृन्मयोग्रपुरीजुषः ॥६॥यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ।आक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः ॥७॥वसन्त इव मञ्जर्यो वर्धन्ते शुद्धबुद्धयः ।प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ॥८॥पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।तावन्निशीथवेताला वल्गन्ति हृदि वासनाः ॥९॥एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ।भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात् ॥१०॥सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ।लालनात्स्निग्धललना पालनात्पावनः पिता ॥११॥सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् ।स्वालोकितः शास्त्रदृशा बुद्ध्यान्तः स्वानुभावितः ॥१२॥प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ।सुदृष्टः सुपरामृष्टः सुदृढः सुप्रबोधितः ॥१३॥सुगुणे योजितो भाति हृदि हृद्यो मनोमणिः ।जन्मवृक्षकुठाराणि तथोदर्कोदयानि च ॥१४॥दिशत्येवं मनोमन्त्री कर्माणि शुभकर्मणि ।एवं मनोमणिं राम बहुपङ्ककलङ्कितम् ॥१५॥विवेकवारिणा सिद्ध्ये प्रक्षाल्यालोकवान्भव ।भवभूमिषु भीमासु विवेकविकलो वसन् ॥१६॥मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ।संसारमायामुदितामनर्थशतसंकुलाम् ॥१७॥मा महामोहमिहिकामिमां त्वमवधीरय ।विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ॥१८॥इन्द्रियारीनलं जित्वा तीर्णो भव भवार्णवात् ।असत्येव शरीरेऽस्मिन्सुखदुःखेष्वसत्सु च ॥१९॥दामव्यालकटन्यायो मा ते भवतु राघव ।भीमभासदृढस्थित्या त्वं यास्यसि विशोकताम् ॥२०॥अयमहमिति निश्चयो वृथा य-स्तमलमपास्य महामते स्वबुद्ध्या ।यदितरदवलम्ब्य तत्पदं त्वंव्रज पिब भुङ्क्ष्व न बध्यसे मनस्कः ॥२१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो. स्थितिप्रकरणे मनस्यसत्ताप्रतिपादनं नाम चतुर्विंशः सर्गः ॥२४॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP