संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ३८ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ३८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं स्थिते तु तज्ज्ञानां यदेतत्कर्तृत्वं दृश्यते सुख-दुःखादिषु योगादिषु वा तदसन्नतु मूर्खाणाम् ॥१॥यतः कर्तृत्वं नाम किमुच्यते । यो ह्यन्तस्थायामनोवृत्तेर्निश्चय उपादेयताप्रत्ययो वासनाभिधान-स्तत्कर्तृत्वशब्देनोच्यते ॥२॥चेष्टावशात्तादृक्फलभोक्तृत्वं वासनानुरूपं स्प-न्दते पुरुषः स्पन्दानुरूपं फलमनुभवति । फलभो-क्तृत्वं नाम. कर्तृत्वादिति सिद्धान्तः ॥३॥तथाच ।कुर्वतोऽकुर्वतो वापि स्वर्गेऽपि नरकेऽपि वा ।यादृग्वासनमेतत्स्यान्मनस्तदनुभूयते ॥४॥तस्मादज्ञाततत्त्वानां पुंसां कुर्वतामकुर्वतां चकर्तृता नतु ज्ञाततत्त्वानामवासनत्वात् ॥५॥ज्ञाततत्त्वो हि शिथिलीभूतवासनः कुर्वन्नपिफलं नानुसंदधाति । अथच स्पन्दनमात्रं केवलंकरोत्यसक्तबुद्धिः संप्राप्तमपि फलमात्मैवेदं सर्वमेवकर्मफलमनुभवत्यकुर्वन्नपि करोति मग्नमनाः ॥६॥मनो यत्करोति तत्कृतं भवति यन्न करोति तन्नकृतं भवति अतो मन एव कर्तृ न देहः ॥७॥चित्तादेवायं संसार आगतश्चित्तमय एव चित्त-मात्रं चित्त एव स्थित इति विज्ञातम् । विषयश्चमृगतृ- सर्वमुपशान्तमभूद्वासनैवेति ज्ञ एवास्तीति ॥८॥आत्मविदां हि तन्मनः परमुपशममागतंमृगतृष्णाजलमिव वर्षति जलदे हिमकण इव चण्डातपेविलीनं तुर्यदशामुपागतं स्थितम् ॥९॥नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥१०॥न वासनामये स्पन्दरसे गज इव पल्वले मज्जतितज्ज्ञो मूर्खमनोभोगभूमिमेव पश्यति न सत्तत्त्वं ॥११॥तथाचायमत्रापरो दृष्टान्तः । अकुर्वन्नपि श्वभ्र-पतनं श्तयासनगतोऽपि श्वभ्रपातवासनावासितेचेतसि श्वभ्रपतनदुःखमनुभवति । अपरस्तु कुर्व-न्नपि श्वभ्रपतनं परममुपशममुपगतवति मनसिशय्यासनसुखमनुभवति । एवमनयोः शय्यासन-श्वभ्रपातयोरेकः श्वभ्रपतनस्याकर्तापि कर्ता संपन्नोद्वितीयश्च श्वभ्रपतनस्य कर्ताप्यकर्ता संपन्नश्चित्त-वशात्तस्माद्यच्चित्तं तन्मयो भवति पुरुष इतिसिद्धान्तः ॥१२॥तेन तत्र कर्तुरकर्तुर्वा नित्यमसंसक्तं भवतु चेतोनहि किंचिदस्त्यात्मतत्त्वव्यतिरिक्तं यत्र संसक्ति-र्भाव्यते । यत्किंचिदिदं जगद्गतं तत्सर्वं शुद्धचित्त-त्वादाभासमवेहि ॥१३॥एवं चास्य ज्ञातज्ञेयस्य पुंसो नामात्मा सुखदुः-खानां न गम्य इति निश्चये जाते नात्मव्यतिरिक्ताआधाराधेयदृष्टयो विद्यन्त इति निश्चये जाते कर्ताभोक्तासर्वपदार्थव्यतिरिक्तोबालाग्रसहस्रभागोऽह-मिति निश्चये जाते यत्किंचिदिदं तत्सर्वमहमेवेतिवा निश्चये जाते सर्वसत्त्वावभासकः सर्वगस्तिष्ठा-म्येवाहमिति निश्चये जाते नाहं सुखदुःखानां गम्यइति विगतज्वरतया चित्तवृत्तिर्लीलयैव तिष्ठतेव्यवहारेषु ॥१४॥तज्ज्ञस्य संकटे च मुदितैव केवलं ज्योत्स्नेवभुवनभावमलंकरोति येन चित्तादृते तु ज्ञः कुर्वन्नप्यकर्ता संपन्नो मनसोऽलेपकत्वान्नासौ पादपाण्यादिविक्षेपस्य यत्नकृतस्यापि कर्मणः फलमनु-भवति ॥१५॥एवं मनः सर्वकर्मणां सर्वेहितानां सर्वभावानांसर्वलोकानां सर्वगतीनां बीजं तस्मिन्परिहृते सर्व-कर्माणि परिहृतानि भवन्ति सर्वदुःखानि क्षीयन्तेसर्वकर्माणि लयमुपयान्ति । मानसेनापि कर्मणायत्कृतेनापि ज्ञो नाक्रम्यते न विवशीक्रियते नरञ्जनामुपैत्यव्यतिरिक्तात् ॥१६॥यथा बालो मनसा नगरस्य निर्माणं निर्मृष्टं चकुर्वंन्नगरनिर्माणं मनःकृतमकृतमिव लीलयानुभ-वति नोपादेयतयासुखदुःखमकृत्रिममिति पश्यतिनगरनिर्मथनं च मनःकृतं कृतमिति पश्यतीतिदुःखमपि लीलयानुभवन्नपि न दुःखमिति पश्यति ।एवमसौपरमार्थतःकुर्वन्नपि न लिप्यत एवेति ॥१७॥सर्वभावेषु हेयोपादेयताभ्यां जगति किं कारणंदुःखस्य न चोपादेये किंचिदपि संभवति यदविनाशंव्यतिरिक्तं चात्मनस्तस्मादयमात्माऽकर्ताऽभोक्ताऽ-तत्त्वतो यदेतत्कर्तृत्वं च स्वध्यारोप्यते ॥१८॥आवश्यकं तत्सम्यग्दर्शनमोहान्न वस्तुत इतियथाभूतवस्तुविचारणात्कर्तृत्वभोक्तृत्वे न स्तः ।इन्द्रियेन्द्रियार्थद्वेषाभिलाषादिका दृष्टयस्तद्दृष्टीनांदृश्यन्ते नातद्दृष्टीनाम् ॥१९॥मोक्षोऽस्ति न संसारे स्वसंसक्तमनसामिहासं-सक्तमनसां त्वेतत्सर्वमेवास्ति ॥२०॥यथास्थितं ज्ञस्य केवलमात्मतत्वमेवोल्लसतितद्वित्वैकत्ववादिसिद्धे द्वित्वैकत्वे करोति सत्त्वा-सत्त्वे करोति शक्तिजालादभिन्नां सर्वशक्तितां चदर्शयति तस्य ॥२१॥न बन्धोऽस्ति न मोक्षोऽस्ति नाबन्धोस्ति न बन्धनम्।अप्रबोधादिदं दुःखं प्रबोधात्प्रविलीयते ॥२२॥संकल्पिता जगति मोक्षमतिर्मुधैवसंकल्पिता जगति बन्धमतिर्मुधैव ।संत्यज्य सर्वमनहंकृतिरात्मनिष्ठोधीरो धिया व्यवहरन्भुवि राम तिष्ठ ॥२३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्रकरणे उपशमवर्णनं नाम अष्टत्रिंशः सर्गः ॥३८॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP