संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ६ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षणः ।आरब्धवान्मनोराज्यमिदमेकः किलोशना ॥१॥एषा हि ललना व्योम्नि सहस्रनयनालये ।संप्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम् ॥२॥इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः ।द्रवत्कनकनिष्यन्दविलासिवपुषः सुराः ॥३॥इमास्ता लोचनोल्लासदृष्टनीलाब्जदृष्टयः ।मुग्धहासविलासिन्यः कान्ता हरिणदृष्टयः ॥४॥इमे ते कौसुमोद्योता अन्योन्यप्रतिबिम्बिताः ।विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥५॥ऐरावणकटामोदविरक्तमधुपश्रुताः ।इमास्ताः काकलीगीता गीर्वाणगणगीतयः ॥६॥इयं सा कनकाम्भोजचलद्वैरिञ्चसारसा ।मन्दाकिनीतटोद्यानविश्रान्तसुरनायका ॥७॥एते ते यमचन्द्रेन्द्रसूर्यानलजलानिलाः ।लोकपालास्तनुद्योतकीर्णदीप्तानलार्चिषः ॥८॥अयं स रणवृत्तान्तहेतिकण्डूयिताननः ।ऐरावणो रणे दन्तप्रोतदैत्येन्द्रमण्डलः ॥९॥इमे ते भूतलस्थानाद्व्योम्नि तारकतां गताः ।वैमानिकाश्चरच्चारुचामीकरमयातपाः ॥१०॥मेरूषलतलास्फालसीकराकीर्णदेवताः ।एतास्ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥११॥एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥१२॥इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥१३॥पुष्पकेसरनीहारपटवासरणोत्सुकैः ।लताङ्गनागणैर्व्याप्तमिदं तन्नन्दनं वनम् ॥१४॥कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ ।इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥१५॥इमे ते पुण्यकर्तारो भूरिभूषणभूषिताः ।व्योमन्युड्डीयमानेषु विमानेषु च संस्थिताः ॥१६॥मदमन्मथमत्ताङ्ग्य इमास्ताः सुरयोषितः ।देवेश्वरं निषेवन्ते वनं वनलता इव ॥१७॥इन्द्राश्मजालकुसुमाश्चिन्तामणिगुलुच्छकाः ।कल्पवृक्षा इमे पक्वफलस्तबकदन्तुराः ॥१८॥इह तावदिमं शक्रमहमासनसंस्थितम् ।द्वितीयमिव त्रैलोक्यस्रष्टारमभिवादये ॥१९॥इति संचिन्त्य शुक्रेण मनसैव शचीपतिः ।तेनाभिवादितस्तत्र द्वितीय इव खे भृगुः ॥२०॥अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः ।गृहीतहस्त आनीय समीपमुपवेशितः ॥२१॥धन्यस्त्वदागमे नाथ स्वर्गोऽयं शुक्र शोभते ।उष्यतां चिरमेवेह शक्र इत्थमुवाच तम् ॥२२॥अथ तत्रोपविश्यासौ भार्गवः शोभिताननः ।श्रियं जहार शशिनः सकलस्यामलस्य च ॥२३॥सकलसुरगणाभिवन्दितोऽसौभृगुतनयः शतमन्युपार्श्वसंस्थः ।चिरतरमतुलामवाप तुष्टिंनरपतिसत्तमलालनं बभूव ॥२४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे भार्गवोपाख्याने भार्गवमनोराज्यं नाम षष्ठः सर्गः ॥६॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP