संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः १७ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः १७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १७ Translation - भाषांतर श्रीराम उवाच ।भगवन्भृगुपुत्रस्य प्रतिभासानुभूतितः ।यथैषा सफला जाता तथान्यस्य न किं भवेत् ॥१॥श्रीवसिष्ठ उवाच ।इयं प्रथममुत्पन्ना सा तनुर्ब्रह्मणः पदात् ।शुद्धा जातिर्भार्गवस्य नान्यजन्मकलङ्किता ॥२॥सर्वैषणानां संशान्तौ शुद्धचित्तस्य या स्थितिः ।तत्सत्यमुच्यते सैषा विमला चिदुदाहृता ॥३॥मनोनिर्मलसत्त्वात्म यद्भावयति यादृशम् ।तत्तथाशु भवत्येव यथावर्तो भवेत्पयः ॥४॥यथा भृगुसुतस्यैव विभ्रमः प्रोत्थितः स्वयम् ।प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः ॥५॥बीजस्याङ्कुरपत्रादि स्वं चमत्कुरुते यथा ।सर्वेषां भूतसङ्घानां भ्रमखण्डास्तथैव हि ॥६॥यदिदं दृश्यते विश्वमेवमेवाखिलं जगत् ।प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च ॥७॥नास्तमेति नचोदेति जगत्किंचन कस्यचित् ।भ्रान्तिमात्रमिदं मायामुग्धेव परिजृम्भते ॥८॥यथा संप्रतिभासस्थः स्वयं संसारखण्डकः ।तथा तेषां सहस्राणि मिथ्या दृष्टानि सन्ति हि ॥९॥स्वप्नसंकल्पनगरव्यवहाराः परस्परम्।पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥१०॥एवं नगरवृन्दानि नभस्संकल्परूपिणि ।सन्ति तानि न दृश्यन्ते मिथ्याज्ञानदृशं विना ॥११॥पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि ह ।संकल्पमात्रदेहानि सुखदुःखमयानि च ॥१२॥एवमेव वयं चेमे संपन्ना रघुनन्दन ।स्वसंकल्पात्मकाकारा मिथ्यासत्यत्वभाविनः ॥१३॥एवंरूपैव हि परे विद्यते सर्गसंततिः ।न वास्तवी वस्तुता तु संस्थितैवमवस्तुनि ॥१४॥प्रत्येकमुदितं विश्वमेवमेव मुधैव हि ।वनगुल्मकरूपेण वसन्तैकरसो यथा ॥१५॥प्रथमोऽयं स्वसंकल्पः प्रथामभ्यागतो यथा ।तथातिपरमार्थेन दृष्टेनेत्थं विभाव्यते ॥१६॥प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् ।इदमित्थं समारम्भं जगत्पश्यन्विनश्यति ॥१७॥प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात्।दीर्घस्वप्नो जगज्जालमालानं चित्तदन्तिनः ॥१८॥चित्सत्तैव जगत्सत्ता जगत्सत्तैव चित्तकम् ।एकाभावाद्वयोर्नाशः स च सत्यविचारणात् ॥१९॥शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः ।प्रमार्जनादिव मणेर्मलिनस्येह युक्तितः ॥२०॥चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः ।अनाक्रान्तस्य संकल्पैः प्रतिभोदेति चेतसः ॥२१॥सुवर्णं न स्थितिं याति मलवत्यंशुके यथा ।एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥२२॥श्रीराम उवाच ।प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः ।सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥२३॥श्रीवसिष्ठ उवाच ।यादृग्जगदिदं दृष्टं शुक्रेण पितृशास्त्रतः ।तादृक्कस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥२४॥स्वभावकोशस्थमिदं तदेतेन क्रमोदितम् ।बीजेनाङ्कुरपत्रादिलतापुष्पफलं यथा ॥२५॥जीवो यद्बासनाबद्धस्तदेवान्तः प्रपश्यति ।स्वरूपं चात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् ॥२६॥प्रत्येकमुदितो राम नूनं संसृतिखण्डकः ।रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः ॥२७॥श्रीराम उवाच ।एष संसृतिखण्डोत्थो मिथः स मिलति स्वयम् ।नो वा मिलति तन्मे त्वं यथावद्वक्तुमर्हसि ॥२८॥श्रीवसिष्ठ उवाच ।मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति ।अयोऽयसि च संतप्ते शुद्धे तप्तं तु लीयते ॥२९॥चित्ततत्त्वानि शुद्धानि संमिलन्ति परस्परम् ।एकरूपाणितोयानि यान्त्यैक्यंनाविलानि हि ॥३०॥शुद्धिर्हि चित्तस्य विवासनत्व-मभूतसंवेदनमेकरूपम् ।तस्याशु शुद्ध्या भवति प्रबुद्ध-स्तन्मात्रयुक्त्या परसंगमेति ॥३१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थि० भार्गवोपाख्याने मनोराज्यसंमेलनं नाम सप्तदशः सर्गः ॥१७॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP