संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः १५ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः १५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः ।समङ्गायास्तटात्तस्मात्प्रचेलुश्चञ्चलासवः ॥१॥क्रमादाकाशमाक्रम्य निर्गत्याम्बुदकोटरैः ।संप्रापुः सिद्धमार्गेण क्षणान्मन्दरकन्दरम् ॥२॥अधित्यकायां तस्याद्रेरार्द्रपर्णावगुण्ठिताम् ।ददर्श भार्गवः शुष्कां पूर्वजन्मोद्भवां तनुम् ॥३॥उवाचेदं च हे तात तन्वी तनुरियं हि सा ।या त्वया सुखसंभोगैः पुरा समभिलालिता ॥४॥इयं सा मत्तनुर्यस्याः कर्पूरागुरुचन्दनैः ।अङ्गमङ्गीकृतस्नेहा धात्री चिरमलेपयत् ॥५॥इयं सा मत्तनुर्यस्या मन्दारकुसुमोत्करैः ।रचिता शीतला शय्या मेरूपवनभूमिषु ॥६॥इयं सा मत्तनुर्मत्तदेवस्त्रीगणलालिता ।सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥७॥चन्दनोद्यानखण्डेषु मम तन्वा ययानया ।चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥८॥सुराङ्गनाङ्गसंसर्गादुत्तुङ्गानङ्गभङ्गया ।चेतोवृत्त्या रहितया तन्वाद्य मम शुष्यते ॥९॥तेषु तेषु विलासेषु तासु तासु दशासु च॥तथा तद्भावनाबन्धः कथं स्वस्थोऽसि देहक ॥१०॥हा तनो शवनामासि तापसंशोषमागता ।कङ्कालतां प्रयातासि मां भीषयसि दुर्भगे ॥११॥देहेनाहंविलासेषु येनैव मुदितोऽभवम् ।कङ्कालतामुपगतात्तस्मादेव बिभेम्यहम् ॥१२॥ताराजालसमाकारो यत्र हारोऽभवत्पुरा ।ममोरसि निलीयन्ते तत्र पश्य पिपीलिकाः ॥१३॥द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः ।येन मद्वपुषा तेन पश्य कङ्कालतोह्यते ॥१४॥पश्य मे विततास्येन तापसंशुष्ककृत्तिना ।मत्कङ्कालकुवक्रेण वित्रास्यन्ते वने मृगाः ॥१५॥पश्यामि संशुष्कतया शवोदरदरी मम ।प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥१६॥मत्तनुः परिशुष्केयं स्थितोत्तानाचलोपले ।वैराग्यं नयतीवात्मतुच्छत्वेनान्तरं सताम् ॥१७॥शब्दरूपरसस्पर्शगन्धलोभाद्विमुक्तया ।निर्विकल्पसमाध्येव तदेतच्छुष्यते गिरौ ॥१८॥मुक्ताचित्तपिशाचेन नूनं सुखमिवास्थिता ।तनुर्दैवतभङ्गेभ्यो न बिभेति मनागपि ॥१९॥संशान्ते चित्तवेताले यामानन्दकलां तनुः ।याति तामपि राज्येन जागतेन न गच्छति ॥२०॥पश्य विश्रान्तसंदेहं विगताशेषकौतुकम् ।निरस्तकलनाजालं सुखं शेते कथं वने ॥२१॥चित्तमर्कटसंरम्भसंक्षुब्धः कायपादपः ।तथा वेगेन चलति यथाऽऽमूलान्निकृन्तति ॥२२॥चित्तानर्थविमुक्तोऽद्रौ गजाभ्रहरिविग्रहम् ।नाद्य पश्यति मे देहः परानन्द इव स्थितः ॥२३॥सर्वाशाज्वरसंमोहमिहिकाशरदागमम् ।अचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु ॥२४॥त एव सुखसंभोगसीमान्तं समुपागताः ।महाधिया शान्तधियो ये याता विमनस्कताम् ॥२५॥सर्वदुःखदशामुक्तां संस्थितां विगतज्वराम् ।दिष्ट्या पश्याम्यमननां वने तनुमिमामहम् ॥२६॥श्रीराम उवाच ।भगवन्सर्वधर्मज्ञ भार्गवेण तदा किल ।सुबहून्युपभुक्तानि शरीराणि पुनःपुनः ॥२७॥भृगुणोत्पादिते काये तत्तस्मिंस्तस्य किं पुनः ।महानतिशयो जातः परिदेवनमेव वा ॥२८॥श्रीवसिष्ठ उवाच ।शुक्रस्य कलना राम यासौ जीवदशां गता ।कर्मात्मिका समुत्पन्ना भृगोर्भार्गवरूपिणी ॥२९॥सा हीदंप्रथमत्वेन समुपेत्य परात्पदात् ।भूताकाशपदं प्राप्य वातव्यावलिता सती ॥३०॥प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः ।क्रमेण वीर्यतामेत्य संपन्नौशनसी तनुः ॥३१॥विहितब्राह्मसंस्कारा तत्र सा पितुरग्रगा ।कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥३२॥इदंप्रथममायाता यदासौ ब्रह्मणस्तनुः ।अतस्तां प्रति शुक्रेण तदा तत्परिदेवितम् ॥३३॥वीतरागोऽप्यनिच्छोऽपि समङ्गाविप्ररूपवान् ।स शुशोच तनुं शुक्रः स्वभावो ह्येष देहजः ॥३४॥ज्ञस्याज्ञस्य च देहस्य यावद्देहमयं क्रमः ।लोकवद्व्यवहारोऽयं सक्त्यासक्त्याथवा सदा ॥३५॥ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।लोकसंव्यवहारेषु ते स्थिता लोकजालवत् ॥३६॥व्यवहारे यथैवाज्ञस्तथैवाखिलपण्डितः ।वासनामात्रभेदोऽत्र कारणं बन्धमोक्षदम् ॥३७॥यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् ।असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् ॥३८॥सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु ।महात्मानो हि दृश्यन्ते दृश्य एवाप्रबुद्धवत् ॥३९॥सूर्यस्य प्रतिबिम्बानि क्षुभ्यन्ति न पुनः स्थिरम् ।चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति ॥४०॥अवस्थित इव स्वस्थः प्रतिबिम्बेषु भास्करः ।संत्यक्तलोककर्मापि बुद्ध एवाप्रबुद्धधीः ॥४१॥मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि ।बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि ॥४२॥सुखदुःखदृशो लोके बन्धमोक्षदृशस्तथा ।हेतुर्बुद्धीन्द्रियाण्येव तेजांसीव प्रकाशने ॥४३॥बहिर्लोकोचिताचारस्त्वन्तराचारवर्जितः ।समो ह्यतीव तिष्ठ त्वं संशान्तसकलैषणः ॥४४॥सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।कुरु कर्माणि कार्याणि नूनं देहस्य संस्थितिः ॥४५॥आधिव्याधिमहावर्तगर्तसंसारवर्त्मनि ।ममतोग्रान्धकूपेऽस्मिन्मा पतातापदायिनि ॥४६॥न त्वं भावेषु नो भावास्त्वयि तामरसेक्षण ।शुद्धबुद्धस्वभावस्त्वमात्मान्तः सुस्थिरो भव ॥४७॥त्वं ब्रह्म ह्यमलं शुद्धं त्वं सर्वात्मा च सर्वकृत् ।सर्वं शान्तमजं विश्वं भावयन्वै सुखी भव ॥४८॥व्यपगतममतामहान्धकारःपदममलं विगतैषणं समेत्य ।प्रभवसि यदि चेतसो महात्मं-स्तदतिधिये महते सते नमस्ते ॥४९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० स्थितिप्र० भार्गवोपा० भार्गवपरिदेवनप्रसङ्गेनोपदेशकरणं नाम पञ्चदशः सर्गः ॥१५॥ N/A References : N/A Last Updated : September 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP