संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|स्थितिप्रकरणम्| सर्गः ५९ स्थितिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ स्थितिप्रकरणम् - सर्गः ५९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अन्नपानाङ्गनासङ्गादृते नास्तीह किंचन ।शुभमस्त्विति संवादि महान्किमिव वाञ्छतु ॥१॥तिर्यञ्चः पशवो मूढा ये न तुष्यन्त्यसाधवः ।भोगैः कृपणसर्वस्वैरादिमध्यान्तपेलवैः ॥२॥विश्वासं यान्ति ये लोके तैरलं नरगर्दभैः ।इतः केशा इतो रक्तमितीयं प्रमदातनुः ॥३॥एतया तोषमायान्ति सारमेया न मानवाः ।मृन्महीदारुतरवो देहा मांसमया अपि ॥४॥अधो भूरम्बरं पृष्ठे किमपूर्वं सुखाय तु ।मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः ॥५॥मोहायैवापरामृष्टाः सकला लोकसंविदः ।सर्वस्या एव पर्यन्ते सुखाशायाश्च संस्थितम् ॥६॥मालिन्यं दुःखमप्येवं ज्वालाया इव कज्जलम् ।आगमापायिनोऽनित्या मनःषष्ठेन्द्रियक्रियाः ॥७॥लता नागेन्द्रमृदिता धारयन्ति न संपदः ।पुत्रिका रक्तमांसस्य कान्तेयमिति सादरम् ॥८॥स्वदेहनाम्नाऽस्थिचये श्लिष्यते मोहकक्रमः ।सर्वं सत्यमिदं राम स्थिरमज्ञस्य तुष्टये ॥९॥ज्ञस्यास्थैर्यमसत्यं च जगद्राम न तुष्टये ।अभुक्तेऽपि विषा यैषा विषमूर्च्छां प्रयच्छति ॥१०॥तां परित्यज्य भोगास्थां स्वात्मैकत्वगतिं भज ।अनात्ममयभावेन चित्तं स्थितिमुपागतम् ।यदा तदैतदाजातं जगज्जालमसन्मयम् ॥११॥वासनावशतो ब्रह्ममनसा कल्पितं वपुः ।तेजसा श्रितकुड्येन हेमाभत्वमिवात्मनः ॥१२॥श्रीराम उवाच ।वैरिञ्चपदमासाद्य मनो ब्रह्मन्महामते ।इदं जगत्सुघनतां कथमानयति क्रमात् ॥१३॥श्रीवसिष्ठ उवाच ।गर्भतल्पात्समुत्थाय पद्मजः प्रथमः शिशुः ।ब्रह्मेति शब्दमकरोद्ब्रह्मा तेन स उच्यते ॥१४॥संकल्पजालरूपस्य मनसा कल्पिताकृतेः ।अकरोत्तस्य संकल्पलक्ष्मीः पदमथोत्तरे ॥१५॥ततः संकल्पयामास पूर्वं तेजो महाप्रभम् ।शरदन्ते लताचक्रचक्रीकृतदिगन्तरम् ॥१६॥पक्षप्रतिमनिस्यूतकर्मणातिगुणाक्षरम् ।पुञ्जपिञ्जरपर्यन्तं हेमज्ञाननिभाम्बरम् ॥१७॥जालहेमलताजालजटालनिजमन्दिरम् ।कचत्प्रसरदुद्यानाकारकुण्डलमण्डितम् ॥१८॥तं शरीरं मनस्तस्मिंस्ततस्तेजसि भास्वरे ।आत्माकारसमाकारं भास्वरं समकल्पयत् ॥१९॥स ततस्तेजसस्तस्मादभ्युदेति दिवाकरः ।जालमण्डलमध्यस्थो ज्वलत्कनककुण्डलः ॥२०॥ज्वलज्जटाभारधरोपान्तविस्फारपावकः ।ज्वालाविशालावयवः पूरिताकाशमण्डलः ॥२१॥अथ ब्रह्मा महाबुद्धिरन्यास्तास्तेजसः कलाः ।अपाल्य यदसद्ब्रह्मा तरङ्गानिव सागरः ॥२२॥तेऽपि संकल्पसंप्राप्तसिद्धयः समशक्तयः ।यथासंकल्पितं वस्तु क्षणाद्दृष्ट्वापुरग्रतः ॥२३॥संकल्पयन्तो यान्यांस्ते नानाभूतगणान्बहून् ।भूतेष्वन्यांस्तु तेष्वन्यांस्तेष्वन्यान्विविधानपि ॥२४॥संस्मृत्य वेदांस्तदनु यज्ञक्रमगुणान्बहून् ।जगद्ग्रहादयं ब्रह्मा मर्यादां समकल्पयत् ॥२५॥ब्राह्मं रूपमुपादाय मनोनाम महद्वपुः ।तनोतीत्थमिमां दृष्टिं भूतसंततिसंकुलाम् ॥२६॥समुद्राचलवृक्षाढ्यां कृतलोकोत्तरक्रमाम् ।मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम् ॥२७॥सुखदुःखजराजन्ममरणस्वाधिबोधिताम् ।रागद्वेषमयोद्विग्नां गुणत्रयमयात्मिकाम् ॥२८॥मनोहस्तैर्विरिंचोत्थैर्यद्यथा कल्पितं पुरा ।तत्तथैवाखिलं द्रष्टुं दृश्यतेऽद्यापि मायया ॥२९॥इत्थं सर्वेषु भूतेषु केषुचित्त्वथवा पुनः ।संकल्पयति संसारं परं पश्यति चित्स्थितम् ॥३०॥मोह एवंमयो मिथ्या जागतः स्थिरतां गतः ।संकल्पनेन मनसा कल्पितोऽचिरतः स्वयम् ॥३१॥संकल्पवशतः सर्वाः प्रसवन्ति जगत्क्रियाः ।संकल्पवशतो देवा निर्यान्ति नियतिस्थिताः ॥३२॥कोपितायाः प्रजानाथैर्जगत्सृष्टेः कुलोद्भवः ।ब्रह्मा संचिन्तयत्येष पद्मासनगतः प्रभुः ॥३३॥मनःस्पन्दनमात्रेण चित्रं चित्तं यदुत्थितम् ।सृष्टिर्वा भोगिनी स्फारा व्यवहारविकारिणी ॥३४॥रुद्रोपेन्द्रमहेन्द्राद्या शैलसागरसंकुला ।पातालरोदोदिक्स्वर्गमार्गसंकटकोटरा ॥३५॥संकल्पजालमत्यन्तं मयेदमभितस्ततम् ।अधुनाविरतोऽस्म्यस्माद्विकल्पोल्लासनक्रमात् ॥३६॥इति निश्चित्य विरतः कल्पनानर्थसंकटात् ।अनादिमत्परं ब्रह्म स्मरत्यात्मानमात्मना ॥३७॥तमासाद्य तदाभासे पदे गलितमानसे ।सुखं तिष्ठति शान्तात्मा तल्पेऽधः श्रमवानिव ॥३८॥निर्ममो निरहंकारः परां शान्तिमुपागतः ।अविक्षुब्ध इवाम्भोधिरात्मनात्मनि तिष्ठति ॥३९॥ध्यानात्कदाचिद्भगवान्स्वयं विरमति प्रभुः ।बन्धनात्सलिलस्यन्दात्सौम्यत्वादिव वारिधिः ॥४०॥विचारयति संसारं सुखदुःखसमन्वितम् ।आशापाशशतैर्बद्धं रागद्वेषभयातुरम् ॥४१॥ततः स करुणाक्रान्तमना भूतविभूतये ।करोतीह महार्थानि शास्त्राणि विविधानि च ॥४२॥अध्यात्मज्ञानगर्भाणि वेदवेदाङ्गसंग्रहम् ।पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम् ॥४३॥पुनस्तत्पदमालम्ब्य परमापद्विनिर्गतः ।स्वस्थस्तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः ॥४४॥अवलोक्य जगच्चेष्टां मर्यादां विनियोज्य च ।ब्रह्मा कमलपीठस्थः पुनः स्वात्मनि तिष्ठति ॥४५॥कदाचित्केवलं सर्वसंकल्पपरिहीनया ।यदृच्छयानुग्रहार्थं लोकक्रमवदास्थितः ॥४६॥नार्जवं नास्य संत्यागो वपुषो नच संग्रहः ।नाना न चेतनं नेह न स्थितिर्नास्थितिः स्थिता ॥४७॥सर्वभावसमारम्भः समः सर्वासु वृत्तिषु ।परिपूर्णार्णवाकारो मुक्तशेषोऽवतिष्ठते ॥४८॥कदाचित्केवलं सर्वसंकल्पपरिहीनया ।यदृच्छयानुग्रहार्थ लोकानां प्रतिबुध्यते ॥४९॥एषाब्राह्मी स्थितिः पुण्या या मयोक्ता महामते ।यातां विधिसुरानीकौ तामेतां सात्त्विकीमपि ॥५०॥चित्सर्गोपरमाकाशे ब्रह्मणो यन्मनःफलम् ।उदेति प्रथमः सैव ब्रह्मत्वं समवाश्नुते ॥५१॥सर्गे स्थितिं गते त्वन्या योदेति कल्पनापरा ।सा व्योमानिलमाश्रित्य प्रविश्यौषधिपल्लवान् ॥५२॥काचित्सुरत्वमायाति काचिदायाति यक्षताम् ।उदेति प्रथमं सैषा ब्रह्मत्वं समवाश्नुते ॥५३॥या यत्सत्त्वं समन्वेति सा तदेवाशु जायते ।जाता संसर्गवशतस्तस्मिन्नेव च जन्मनि ।बध्यते मुच्यते वासौ स्वयमन्वारभेदतः ॥५४॥इत्थं गतास्थितिरियं किल रामभद्रसृष्टिः स्फुटप्रकटसंकटकर्मलब्धा ।आविर्भवेद्विविधवेगविहारभार-संरम्भगर्भविधृता कलनापदे सा ॥५५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे कमलजव्यवहारवर्णनं नामैकोनषष्टितमः सर्गः ॥५९॥ N/A References : N/A Last Updated : September 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP