स्थितिप्रकरणम् - सर्गः २५
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अस्मिन्विहरतो लोके लोकारामस्य धीमतः ।
श्रेयसे तिष्ठतो यत्नमुत्तमार्थाभिधायिनः ॥१॥
दामव्यालकटन्यायो मा ते भवतु राघव ।
भीमभासदृढस्थित्या त्वं विशोको भवेति च ॥२॥
श्रीराम उवाच ।
दामव्यालकटन्यायो मा ते भूदित्युदाहृतम् ।
ब्रह्मन् किमेतद्भवता भवतापापहारिणा ॥३॥
भीमभासदृढस्थित्या त्वं विशोको भवेति च ।
प्रभो किमुक्तं भवता भवतापापहारिणा ॥४॥
उदारयैतया शुद्धं संप्रबोधय मां गिरा ।
घनस्तापापहारिण्या प्रावृषीव कलापिनम् ॥५॥
श्रीवसिष्ठ उवाच ।
दामव्यालकटन्यायं भीमभासदृढस्थितिम् ।
श्रृणु राघव तच्छ्रुत्वा यदिष्टं तत्समाचर ॥६॥
आसीत्पातालकुहरे सर्वाश्चर्यमनोरमे ।
शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः ॥७॥
आकाशनगरोद्यानरचितासुरमन्दिरः ।
कुत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः ॥८॥
शिलाशकलसंभूतपद्माद्यैरमराचलः ।
अनन्तविभवारम्भपरिपूरितदानवः ॥९॥
गृहरत्नाङ्गनागेयजितामरवधूध्वनिः ।
चन्द्रबिम्बकलापूर्णक्रीडोपवनपादपः ॥१०॥
फुल्लनीलोत्पलव्यूहकरालरमणालयः ।
रत्नहंसध्वनाहूतहेमाम्बुरुहसारसः ॥११॥
हेमपादपशाखाग्रकृताम्भोरुहकुड्मलः ।
करञ्जजालप्रपतन्मन्दारकुसुमाकरः ॥१२॥
तर्कुयन्त्रमयानन्तदैत्यनिर्जितवासवः ।
हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥१३॥
सर्वत्र कुसुमोद्यानजितानन्दननन्दनः ।
मायासर्वहृतव्यालमलयाचलचन्दनः ॥१४॥
हेमश्रीलोकलावण्यनिर्जितान्तःपुराङ्गनः ।
नानाकुसुमसंभारजानुदघ्नगृहाङ्गणः ॥१५॥
क्रीडार्थमृन्मयेशानजितचक्रगदाधरः ।
अजस्रोड्डीनरत्नौघताराढ्यखपुरान्तरः ॥१६॥
निशीथाखिलपातालशतचन्द्रनभस्तलः ।
स्वशालभञ्जिकालोकगीतगीतिरणोत्कटः ॥१७॥
मायैरावणनागेन्द्रविद्रुतामरवारणः ।
त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥१८॥
सर्वसंपत्तिसुभगः सर्वैश्वर्यनमस्कृतः ।
समस्तदैत्यसामन्तवन्दितोग्रानुशासनः ॥१९॥
महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।
सर्वबुद्धिगणाधाररत्नमण्डलमण्डितः ॥२०॥
तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।
बभूव विपुलं सैन्यमासुरं सुरनाशनम् ॥२१॥
तस्मिन्मायाबले सुप्ते देशान्तरगते तथा ।
तत्सैन्यं तरसा जघ्नुश्छिद्रं प्राप्य किलामराः ॥२२॥
अथ शम्बरदैत्येन मुण्डिक्रोधद्रुमादयः ।
रक्षार्थमथ सामन्ताः स्वसेनासु नियोजिताः ॥२३॥
तानप्यन्तरमासाद्य जघ्नुर्देवा भयानकाः ।
व्योमान्तरगताः श्येनाः कलविङ्कानिवाकुलान् ॥२४॥
सेनापतीन्पुनश्चान्यांश्चकारासुरसत्तमः ।
चपलानुद्भटारावांस्तरङ्गानिव सागरः ॥२५॥
देवास्तानपु तस्याशु जघ्नुस्तेन स कोपवान् ।
जगामामरनाशाय परिपूर्णे त्रिविष्टपम् ॥२६॥
तस्मात्तन्माययाभीताः सुरास्तेऽन्तर्धिमाययुः ।
मेरुकाननकुञ्जेषु मृगा गौरीहरेरिव ॥२७॥
क्रन्दत्क्षुद्रामरगणं वाष्पक्लिन्नाप्सरोमुखम् ।
शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥२८॥
विहरन्कुपितस्तत्र लब्धमाहृत्य सुन्दरम् ।
लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम् ॥२९॥
एवं दृढतरीभूते द्वेषे दानवदेवयोः ।
देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम् ॥३०॥
अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।
क्रियन्ते यत्नतस्तांस्तु जघ्नुर्यत्नपराः सुराः ॥३१॥
यावदुद्बेगमायातः शम्बरः कोपवान्भृशम् ।
तार्णोऽतिमात्रमनल इव जज्वाल सोच्छ्वसन् ॥३२॥
त्रैलोक्यमपि चान्विष्यन्न देवाँल्लब्धवानथ ।
परेणापि प्रयत्नेन निधानमिव दुष्कृती ॥३३॥
ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् ।
बलरक्षार्थमुदितान्कालान्मूर्तिमिव स्थितान् ॥३४॥
निर्वृत्ता मायया भीमा बलपादपवाहिनः ।
उदगुस्ते महामायाः पक्षक्षुब्धा इवाद्रयः ॥३५॥
दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः ।
यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः ॥३६॥
अभावात्कर्मणां ते च प्राक्तना नच वासनाः ।
निर्विकल्पकचिन्मात्रपरिस्पन्दैकधर्मकाः ॥३७॥
कर्मजीवकलां तन्वीमसारां च मनोभिदाम् ।
अपुष्टां कृत्रिमामन्तश्चोदयोदयमागताः ॥३८॥
ते ह्यन्धपारम्पर्येण काकतालीयवद्भटाः ।
प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः ॥३९॥
अर्धसुप्ता यथा बालाः स्वाङ्गै रिङ्गन्ति केवलम् ।
वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि ॥४०॥
नाभिपातं न चापातं न विदुस्ते पलायनम् ।
न जीवितं न मरणं न रणं न जयाजयौ ॥४१॥
केवलं सैनिकानग्रे दृष्टानाहननोद्यतान् ।
अभिजग्मुः परानाजौ प्रहारदलिताद्रयः ॥४२॥
शम्बरश्चिन्तयामास परितुष्टमनाः परम् ।
विजेष्यते हि मे सेना मायासुरसुरक्षिता ॥४३॥
अतिबलासुरदोर्द्रुमपालिता
मम चमूः स्थिरतामलमेष्यति ।
अमरवारणदन्तविघट्टने-
ष्वमरपर्वतहेमशिला यथा ॥४४॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे दामव्यालकटोत्पत्तिवर्णनं नाम पञ्चविंशः सर्गः ॥२५॥
N/A
References : N/A
Last Updated : September 18, 2021
TOP