संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| षट्षष्टितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - षट्षष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षट्षष्टितमोऽध्यायः Translation - भाषांतर अदितेः कश्यपेन च सार्धं देवानां ब्रह्मलोकगमनम्जनमेजय उवाचपराजिताः सुरा दैत्यैः किमकुर्वत वै मुने ।कथं च त्रिदिवं लब्धं भूयो देवैर्द्विजोत्तम ॥१॥वैशम्पायन उवाचश्रुत्वा वाणीं तु तां दिव्यां सह देवैः सुराधिपः ।प्राग्दिशं प्रस्थितः श्रीमानदित्यालयमुत्तमम् ॥२॥अदितिरुवाचयद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ॥४॥सहस्रशिरसा हन्तुं केवलं शक्यतेऽसुरः ।तेनैकेन सहस्राक्ष न ह्यन्येन शतक्रतो ॥५॥तद् वः पृच्छस्व पितरं कश्यपं सत्यवादिनम् ।पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ॥६॥ततोऽदित्या सह सुराः सम्प्राप्ताः कश्यपान्तिकम् ।अपश्यन् कश्यपं तत्र मुनिं दिव्यतपोनिधिम् ॥७॥आद्यं देवं गुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ।तेजसा भास्कराकारं गौरमग्निशिखाप्रभम् ॥८॥न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनोत्तरम् ।वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसा ॥९॥हुताशमिव दीप्यन्तमाज्यमन्त्रपुरस्कृतम् ।स्वाध्यायनिरतं शान्तं वपुष्मन्तमिवानलम् ॥१०॥तं ब्रह्मवादिनां श्रेष्ठं सुरासुरगुरुं प्रभुम् ।प्रतपन्तमिवादित्यं मारीचं दीप्ततेजसम् ॥११॥यः स्रष्टा सर्वभूतानां प्रजानां पतिरुत्तमः ।आत्मभावविशेषेण तृतीयो यः प्रजापतिः ॥१२॥ततः प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः ॥१३॥यच्छ्रुतं युधि शक्रेण सरस्वत्या समीरितम् ।अजेयस्त्रिदशैः सर्वैर्बलिर्दानवसत्तमः ॥१४॥श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपस्तदा ।चकार गमने बुद्धिं ब्रह्मलोकाय लोककृत् ॥१५॥कश्यप उवाचगच्छाम ब्रह्मसदनं ब्रह्मघोषनिनादितम् ।यथाश्रुतं च तत्रैव ब्रह्मणे वदतानघाः ॥१६॥वैशम्पायन उवाचततोऽदित्या सह सुरा यान्तं कश्यपमन्वयुः ।प्रस्थितं ब्रह्मसदनं देवर्षिगणसेवितम् ॥१७॥ते मुहूर्तेन सम्प्राप्ता ब्रह्मलोकं दिवौकसः ।दिव्यैः कामगमैर्यानैर्महार्हैः सुमनोहरैः ॥१८॥दिदृक्षवस्ते ब्रह्माणं तपसो राशिमव्ययम् ।अभ्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् ॥१९॥षट्पदोद्गीतनिनदां सामगीतविमिश्रिताम् ।श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहृषुर्मुदा ॥२०॥ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।ऋचो बह्वृचमुख्यैश्च शिक्षाविद्भिस्तथा द्विजैः॥२१॥शब्दनिर्वचनार्थं च प्रेर्यमाणपदाक्षराः ।शुश्रुवुस्तेऽमरव्याघ्रा विततेषु च कर्मसु ॥२२॥यज्ञवेदाङ्गविदुषां पदक्रमविदां तथा ।घोषेण परमर्षीणां सा बभूव निनादिता ॥२३॥यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः ।शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः ॥२४॥मीमांसाहितवाक्यज्ञैः सर्ववादविशारदैः ।हृष्टपुष्टस्वरैस्तत्र द्विजेन्द्रैर्वल्गुवादिभिः ।नादितं ब्रह्मसदनं प्रवरं देवसद्मवत् ॥२५॥ते तत्र समनुप्राप्य शृण्वन्तो वै ध्वनिं सुराः ।पूतान्यात्मशरीराणि मेनिरे तु न संशयः ॥२६॥तूष्णींभूता एकचित्ता ब्रह्मण्यागतमानसाः ।विस्मयोत्फुल्लनयना निरीक्षन्तः परस्परम् ॥२७॥नमस्कुर्वन्ति च पुनर्गुरुं लोकगुरुं प्रभुम् ।मनसैव सुरश्रेष्ठाः पुरस्कृत्य तु कश्यपम् ॥२८॥पुनः सम्पूज्य परमं वेदोच्चारणनिःस्वनम् ।गम्भीरोदारमधुरं सुस्वरं हंसगद्गदम् ॥२९॥ऐक्यनानात्वसंयोगसमवायविशारदैः ।लोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ॥३०॥तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान् ।जपहोमपरान् मुख्यान् ददृशुः कश्यपात्मजाः ॥३१॥तस्यां सभायामास्ते स्म ब्रह्मा लोकपितामहः ।सुरासुरगुरुः श्रीमान् विधिवद् देवमायया ॥३२॥उपासते च तत्रैनं प्रजानां पतयः प्रभुम् ।दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः ॥३३॥भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ।मनुर्द्यौरन्तरिक्षं च वायुस्तेजो जलं मही ॥३४॥शब्दस्पर्शौ च रूपं च रसौ गन्धस्तथैव च ।प्रकृतिश्च विकाराश्च यच्चान्यत् कारणं महत् ॥३५॥साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्यपदक्रमाः ।क्रियाश्च क्रतवश्चैव संकल्पः प्राण एव च ॥३६॥एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ।अर्थो धर्मश्च कामश्च द्वेषो दर्पश्च नित्यदा ॥३७॥शक्रो बृहस्पतिश्चैव संवर्तो बुध एव च ।शनैश्चरोऽथ राहुश्च ग्रहाः सर्वे ह्यशेषतः ॥३८॥मरुतो विश्वकर्मा च नक्षत्राणि च भारत ।दिवाकरश्च सोमश्च ब्रह्माणं समुपासते ॥३९॥सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।सर्वाणि श्रुतिशास्त्राणि गाथाश्च नियमास्तथा ॥४०॥भाष्याणि सर्वशास्त्राणि देहवन्ति विशाम्पते ।क्षणा लवा मुहूर्ताश्च दिवा रात्रिश्च भारत ॥४१॥अर्धमासाश्च मासाश्च ऋतवः षट् तथैव च ।संवत्सराश्चतुर्युगं मासा रात्रिश्चतुर्विधा ॥४२॥कालचक्रं च यद् दिव्यमनित्यं ध्रुवमव्ययम् ।एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ॥४३॥ते प्रविष्टाः सभां दिव्यां ब्रह्मणः सर्वकामदाम् ।कश्यपस्त्रिदशैः सार्धं पुत्रैर्धर्मविशारदैः ॥४४॥सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।ब्राह्म्या श्रिया दीप्यमानमचिन्त्यं विगतक्लमम् ॥४५॥ब्रह्माणं वीक्ष्य ते सर्वे आसीनं परमासने ।जग्मुर्मूर्ध्ना शुभौ पादौ ब्रह्मणस्ते दिवौकसः ॥४६॥शिरोभिः स्पृश्य चरणौ तस्य ते परमेष्ठिनः ।विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ॥४७॥दृष्ट्वा तु तान्सुरान्सर्वान्कश्यपेन सहागतान् ।आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ॥४८॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे ब्रह्मलोकगमने षट्षष्टितमोऽध्यायः ॥६६॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP