भविष्यपर्व - एकोनत्रिंशदधिकशततमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
डिम्भकस्य आत्महत्या
वैशम्पायन उवाच
श्रुत्वा निहतमत्युग्रं भ्रातरं वीर्यशालिनम् ।
बलदेवं परित्यज्य युध्यमानं महारणे ॥१॥
डिम्भको वीर्यसम्पन्नो यमुनामनुजग्मिवान् ।
तमन्वधावद् वेगेन बलभद्रो हलायुधः ॥२॥
हंसो हि यत्र पतितस्तत्रासौ निपपात ह ।
यमुनायां महाराज विलोड्य जलसंचयम् ॥३॥
अथं क्रुद्धः स डिम्भको भ्रामयित्वा जलं बहु ।
उन्मज्ज्योन्मज्ज्य सहसा निमज्ज्य च पुनः पुनः ४॥
न ददर्श तदा राजन् भ्रातरं वीर्यशालिनम् ।
उन्मज्ज्याथ महाबाहुर्वासुदेवं विलोक्य च ॥५॥
उवाच वचनं राजन् डिम्भको वीर्यवत्तमः ।
अरे गोपकदायाद क्वासौ हंस इति स्थितः ॥६॥
वासुदेवोऽपि धर्मात्मा यमुनां पृच्छ राजक ।
इत्यब्रवीत् प्रसन्नात्मा वासुदेवः प्रतापवान् ॥७॥
तच्छ्रुत्वा यमुनां भूयः प्रविश्य डिम्भकः किल ।
बहुप्रकारमुद्वीक्ष्य भ्रातरं भ्रातृवत्सलः ॥८॥
विललाप ततो राजा डिम्भको भ्रान्तमानसः ।
क्व नु गच्छसि राजेन्द्र विहायैनमबान्धवम् ॥९॥
कुतो भ्रातरितो गच्छेः परित्यज्यैव मामिह ।
विलप्यैवं नृपश्रेष्ठ डिम्भको भ्रातृवत्सलः ॥१०॥
आत्मत्यागे मनः कुर्वन् यमुनाया महाह्रदे॥
निमज्योन्मज्य सहसा मरणे कृतनिश्चयः ॥११॥
हस्तेन जिह्वामाकृष्य भूयो भूयो विलप्य च ।
ततः समूलामाकृष्य जिह्वां साहसकृत् स्वयम् ॥१२॥
ममारान्तर्जले राजन् डिम्भको नरकाय वै ।
एवं तु निहते हंसे डिम्भके वीर्यशालिनि ॥१३॥
आगमत्पुण्डरीकाक्षो भूतान्विस्मापयन्निव ।
ततः प्रीतः प्रसन्नात्मा वासुदेवः प्रतापवान् ॥१४॥
गोवर्धनेऽथ विश्रम्य बलभद्रसहायवान् ।
कंचित् कालं महाराज पूर्वभुक्तमुवास ह ॥१५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि डिम्भकमरणे एकोनत्रिंशदधिकशततमोऽध्यायः ॥१२९॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP