संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| अष्टाशीतितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - अष्टाशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाशीतितमोऽध्यायः Translation - भाषांतर भगवता श्रीशिवेन श्रीविष्णोः स्तुतिःवैशम्पायन उवाचततो वृषध्वजो देवः शूली साक्षादुमापतिः ।करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह ॥१॥प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् ।शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम् ॥२॥किमिदं देवदेवेश चक्रपाणे जनार्दन ।तपश्चर्या किमर्थं ते प्रार्थना तव का विभो ॥३॥स्वयं विष्णुर्भवान्नित्यस्तपस्त्वं तपसां हरे ।पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन ॥४॥पुत्रो दत्तो मया देव पूर्वमेव जगत्पते ।शृणु तत्रापि भगवन् कारणं कारणात्मक ॥५॥तपश्चर्तुं प्रवृत्तोऽहं कुतश्चित् कारणाद्धरे ।वर्षायुतं महाघोरं पुरा कृतयुगे तदा ॥६॥भवानी तत्र मे देव परिचर्तुं तदाभवत् ।पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी ॥७॥भीत इन्द्रस्तदा देव मारं मां प्रैषयत्तदा ।मधुना सह संयुक्तो मारो मामागतस्तदा ॥८॥लक्ष्यं मामकरोत् तत्र बाणस्य प्रेषितस्य ह ।एष मां सेवते तत्र दानात् पुष्पादिनां हरे ॥९॥ततः क्रुद्धोऽहमभवं दृष्ट्वा मारं तथाविधम् ।क्रुद्ध्यतो मम देवेश नेत्रादग्निः पपात ह ॥१०॥सोऽयमग्निस्तदा मारं भस्मसात्कृतवान् हरे ।अचिन्तयं तदा विष्णो शक्रस्यैतच्चिकीर्षितम् ॥११॥ततः प्रभृति देवेश दया तं प्रति वर्तते ।ब्रह्मणा च नियुक्तोऽस्मि प्रीतस्तत्र जनार्दन ॥१२॥नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।ज्येष्ठस्तव सुतो देव प्रद्युम्नेत्यभिविश्रुतः ॥१३॥स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव ॥१४॥मुनीनां श्रोतुकामानां याथात्म्यं तत्र सत्तमः ।अञ्जलिं सम्पुटं कृत्वा विष्णुमुद्दिश्य शंकरः ॥१५॥उमया सार्धमीशानो याथात्म्यं वक्तुमैहत ।हरे कुर्वति तत्रैवमञ्जलिं कुरुसत्तम ॥१६॥मुनयो देवगन्धर्वाः सिद्धाश्च सह किन्नराः ।अञ्जलिं चक्रिरे विष्णौ देवदेवेश्वरे हरौ ॥१७॥महेश्वर उवाचयत्तत्कारणमाहुस्तत्सांख्याः प्रकृतिसंज्ञकम् ।ततो महान् समुत्पन्नः प्रकृतिर्यस्य कारणम् ॥१८॥त्रिधा भूतं जगद्योनिं प्रधानं कारणात्मकम् ।सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दन ॥१९॥तस्य कारणमाहुस्त्वां सांख्यप्रकृतिसंज्ञकम् ।तद्रूपेण भवान् विष्णो परिणम्याधितिष्ठति ॥२०॥तस्मात्तु महतो घोरादहंकारो महानभूत् ।स त्वमादौ जगन्नाथ परिणामस्तथा हि सः ॥२१॥अहंकारात् प्रभो देव करणानि महान्ति च ।तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत ॥२२॥तानि त्वामाहुरीशानं भूतानीह जगत्पते ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥२३॥चक्षुर्घ्राणं तथा स्पर्शो रसनं श्रोत्रमेव च ।मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ॥२४॥कर्मेन्द्रियाणि चान्यानि वागादीनि जनार्दन ।त्वमेव तानि सर्वाणि करोषि नियतात्मवान् ॥२५॥स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।निवेशयसि देवेश योग्यामिन्द्रियपद्धतिम् ॥२६॥यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् ।यदाच सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम् ॥२७॥यदा त्वं तमसाऽऽकृष्टस्तदा संहरसे जगत् ।त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने ॥२८॥वर्तसे त्रिविधां भूतिमादाय नियतात्मवान् ।इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ॥२९॥प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो ।तस्मात् सर्वत्र भूतेषु वर्तते सर्वभोगवान् ॥३०॥ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो ।संहारे रुद्रनामासि त्रिधामा त्वमसि प्रभो ॥३१॥भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ॥३२॥सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।सहस्रधारः साहस्री सहस्रात्मा दिवस्पतिः ॥३३॥भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् ।अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद् दशाङ्गुलम् ॥३४॥त्वमेवेदं जगत् सर्वं यद् भूतं यद् भविष्यति ।त्वत्तो विराट् प्रादुरभूत् सम्राट् चैव जनार्दन ॥३५॥तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः ।प्रादुरासीत्पुराणात्मन् षट्कर्मनिरतः सदा ॥३६॥राजन्यस्तु तथा बाह्वोरासीत् संरक्षणे रतः ।ऊर्वोर्वैश्यस्तथा विष्णो पादाच्छूद्र उदाहृतः ॥३७॥एवं वर्णा जगन्नाथ तव देहाज्जनार्दन ।मनसस्तव देवेश चन्द्रमाः समपद्यत ॥३८॥सुखकृत् सर्वभूतानां शीतांशुरमितप्रभः ।अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः ॥३९॥यस्य भासा जगत् सर्वं भासते भानुमानसौ ।मुखादिन्द्रश्च अग्निश्च प्राणाद् वायुरजायत ॥४०॥नाभेरभूदन्तरिक्षं तव देव जनार्दन ।द्यौरासीत् तु महाघोरा शिरसस्तव गोपते ॥४१॥पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते ।एव सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितः ॥४२॥व्याप्य सर्वानिमाँल्लोकान् स्थितः सर्वत्र केशव ।ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात् ॥४३॥नारा आपः समाख्यातास्तासामयनमादितः ।यतस्त्वं भूतभव्येश तन्नारायणशब्दितः ॥४४॥हरसि प्राणिनो देव ततो हरिरिति स्मृतः ।शंकरोऽसि सदा देव ततः शंकरतां गतः ॥४५॥बृहत्त्वाद् बृंहणत्वाच्च तस्माद् ब्रह्मेति शब्दितः ।मधुरिन्द्रियनामेति ततो मधुनिषूदनः ॥४६॥हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ।हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव ॥४७॥क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।आवां तवाङ्गसम्भूतौ तस्मात्केशवनामवान् ॥४८॥मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।तस्मान्माधवनामासि धवः स्वामीतिब्दितः ॥४९॥गौरेषा तु यतो वाणी तां च वेद यतो भवान् ।गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् ॥५०॥त्रिरित्येव त्रयो वेदाः कीर्तिता मुनिसत्तमैः ।क्रमते तांस्तथा सर्वांस्त्रिविक्रम इति श्रुतः ॥५१॥अणुर्वामननामासि यतस्त्वं वामनाख्यया ।मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥५२॥तपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ।वसन्ति त्वयि भूतानि भूतावासस्ततो हरे ॥५३॥ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ।प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो ॥५४॥अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।रुद्राणामहमेवासि वसूनां पावको भवान् ॥५५॥अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् ।मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ॥५६॥दानवानां भवान् दैत्यः प्रह्रादो भक्तवत्सलः ।सर्पाणामेव सर्वेषां भवान् वासुकिसंज्ञितः ॥५७॥गुह्यकानां च सर्वेषां भवान् धनद एव च ।वरुणो यादसां राजा गङ्गा त्रिपथभाग् भवान् ॥५८॥आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।त्वत्तः समभवद् विश्वं त्वयि सर्वं प्रलीयते ॥५९॥अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥६०॥नामानि तव गोविन्द यानि लोके महान्ति च ।तान्येव मम नामानि नात्र कार्या विचारणा ॥६१॥त्वदुपासा जगन्नाथ सैवास्ति मम गोपते ।यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥६२॥त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः ।न तदस्ति विना देव यत् ते विरहितं हरे ॥६३॥यदासीद् वर्तते यच्च यच्च भावि जगत्पते ।सर्वे त्वमेव देवेश विना किंचित्त्वया न हि ॥६४॥स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो ।ऋक्च त्वं यजुरेवासि सामासि सततं प्रभो ॥६५॥किमुच्यते मया देव सर्वं त्वं भूतभावन ।नमः सर्वात्मना देव विष्णो माधव केशव ॥६६॥नमस्करोमि सर्वात्मन् नमस्तेऽस्तु सदा हरे ।नमः पुष्करनाभाय वन्दे त्वामहमीश्बर ॥६७॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवकृतविष्णुस्तुतौ अष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP