संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
सप्तदशाधिकशततमोऽध्यायः

भविष्यपर्व - सप्तदशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सात्यकिसहितस्य जनार्दनस्य शाल्वनगरे गमनं, हंसेन सह मिलनं, हंसेन जनार्दनात् कार्यसिद्धिविषये पृच्छा

वैशम्पायन उवाच
इत्युक्त्वा ब्राह्मणं कृष्णः सात्यकिं पुनराह सः ।
गत्वा शैनेय विप्रेण ब्रूहि मद्वचनात् तयोः ॥१॥
यन्मयोक्तमशेषेण वद गत्वा तयोः पुरः ।
यथा नः संगतिर्युद्धे तथा वद बलात् तदा ॥२॥
धनुरादाय गच्छ त्वं बद्धगोधाङ्गुलित्रवान् ।
एकेनाश्वेन गच्छ त्वमसहायो यदूत्तम ॥३॥
सात्यकिस्तं तथेत्युक्त्वा हयमारुह्य शीघ्रगम् ।
गन्तुमैच्छत् ततो राजन्नसहायः स सात्यकिः ॥४॥
जनार्दनं विसृज्याशु दूतं तं यादवेश्वरः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यमित्युवाच जनार्दनः ॥५॥
नमस्कृत्य तदा दूतो माधवं माधवेश्वरम् ।
स ययौ शाल्वनगरं शैनेयेन समन्वितः ॥६॥
ततः प्रविश्य धर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
आसनं महदास्थाय विसृज्य यादवे पुनः ॥७॥
आस्ते सुखं यदा विप्रः शैनेयेन समन्वितः ।
अथ तं हंसडिम्भयोर्दर्शयामास सात्यकिम् ॥८॥
दूतोऽयं सात्यकिः प्राप्तः सव्यो बाहुरयं हरेः ।
तस्य तद् वचनं श्रुत्वा हंसः प्राह वचस्तदा ॥९॥
श्रुतः समागमः पूर्वमद्य दृष्टो मया त्वसौ ।
धनुर्वेदे च वेदे च शास्त्रे शस्त्रे तथैव च ॥१०॥
निपुणोऽयं सदा धीर इत्येवमनुशुश्रुम ।
अथो दृष्टिपथं प्राप्तः प्रीतिं नौ विदधात्यसौ ॥११॥
कुशलं वासुदेवस्य बलभद्रस्य वा पुनः ।
कुशलाः सात्वताः सर्वे उग्रसेनपुरोगमाः ॥१२॥
तथेति सात्यकिः प्राह मन्दमुन्मथिताननः ।
ततो जनार्दनं प्राह हंसो वाक्यविशारदः ॥१३॥
अपि दृष्टस्त्वया चक्री सिद्धं नः कार्यमीहितम् ।
वद सर्वमशेषेण मा वृथा कालमत्यगाः ॥१४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवाक्ये सप्तदशाधिकशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP