संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| अष्टाविंशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - अष्टाविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाविंशोऽध्यायः Translation - भाषांतर पुष्करे श्रीविष्ण्वादीनां तपःकरणं, तस्य प्रभावस्य वर्णनम्वैशम्पायन उवाचदिशं जिगमिषुर्दिव्यामुत्तरां सत्यसाधनः ।तथा स धातुनिचये पुण्ये पर्वतरोधसि ॥१॥विष्णुः परमधर्मात्मा एकपादेन तिष्ठति ।दशवर्षसहस्राणि पुष्करे पुष्करेक्षणः ॥२॥आत्मन्यात्मानमाधाय तपसा ब्रह्मसम्भवः ।घटते कर्मणोग्रेण लोकमुत्थानकारणात् ॥३॥भासुरो भस्मनाऽऽच्छाद्य गात्राणि स्वयमात्मनः ।अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः ॥४॥तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः ।तिष्ठते नभसो मध्ये योगात्मा भावयञ्जगत् ॥५॥सोमो विषयमाक्षिप्य मनसा धारयन्मनः ।युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिमुपागतः ॥६॥सम्प्रदृश्यत सर्वत्र दिवि भुव्यन्तरे तथा ।ज्योतिष्णु कर्म कुर्वाणो बहुरूपः स सम्पदा ॥७॥महेश्वरोऽतिगूढान्मा वृषरूपेण तिष्ठति ।उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः ॥८॥अष्टौ वर्षसहस्राणि स्रहस्रं शतमेव च ।महायोगी महादेवो नियमाद् ब्रह्मसम्भवः ॥९॥अथ वायुर्घनीभूतो अन्ते चरति गोपतेः ।फेनीभूतं समुद्गारैः पवनं निर्गिरन्मुखात् ॥१०॥स निष्क्रान्तस्ततो वक्त्रात्प्राणेन परमाप्तवान् ।निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः ॥११॥स फेनो वारिणाऽऽविश्य चचार वसुधातले ।नैवार्द्रो नैव शुष्काङ्गो वायुसंघातमागतः ॥१२॥तत्काले फेनमुत्क्षिप्य पवनः सह वारिणा ।निरालम्बे निरालम्बस्त्वभ्राणि समपद्यत ॥१३॥ते क्षिपन्ति पयो भूमावात्मानं स्वेन घट्टिताः ।नीलमेघारुणप्रख्या नैवाद्रा नैव पार्थिवाः ॥१४॥ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी ।समाः सहस्रं सम्पूर्णं चचार विपुल तपः ॥१५॥वह्निर्बहुजटी भूत्वा चीरवल्कलवासभृत्तपस्तप्यदनाहारो मौनमास्थाय पौष्करे ॥१६॥वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः ।तस्याग्नेस्तेजः सम्भूतो महानग्निः प्रवर्तते ॥१७॥स्वर्गप्रकाशं कृत्वा च स्वर्गवासी तमोनुदः ।दिवि भूतप्रकाशाख्यस्तपसा ब्रह्मसम्भवः ॥१८॥तत्तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् ।भास्करस्तेजसंहारस्ततो भवति सत्तमः ॥१९॥मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते ।न तु योगबले राजन् ब्राह्मणस्य विशेषतः ।तत्तमोनाशयेद् रात्रौ नाप्यहोभविताद्वयम्॥२०॥पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी ।तपश्चरति धर्मात्मा पुष्करेषु समाहितः ॥२१॥महेन्द्रशिखराद्धारा यावन्त्यो यान्ति मेदिनीम् ।तावत्स्वरूपमास्थाय तिष्ठते निखिलाः समाः ॥२२॥जानुभ्यां पतितो भूमौ ज्योतिर्नभसि पश्यति ।समाः सहस्रं निखिलं नेत्रैरनिमिषैर्जगत् ॥२३॥नेत्राणि बहुधा तस्य नेत्रान्तैरभिनिःसृताः ।मध्यन्दिनकरे प्राप्ते रश्मिवान् सपरिग्रहे ॥२४॥ते रश्मयः प्रभानेत्रैः शतशोऽथ सहस्रशः ।रराज तेजःसंयोगाद् विद्वद्भिरिव पावकः ॥२५॥स विस्फुलिङ्गैर्नेत्रान्तैरादित्यमनुवर्तते ।कर्मणोऽन्ते युगान्ते वा जगतो बहुरूपिणः ॥२६॥बहुतापः पुनर्भूत्वा निषण्णो वसुधातले ।समाः सहस्रं सम्पूर्णं तपस्तेपे सुदारुणम् ॥२७॥निगृहीतेन्द्रियो भूत्वा अप्सरोभिर्ललाम ह ।मेरोः शिखरमासाद्य कामं कामेन निर्वमन् ॥२८॥तपःकामः स यक्षस्तु कुबेरो नरवाहनः ।विष्णुरेव तपोऽध्यक्षस्तेजसोऽन्ते विजृम्भति ॥२९॥न हि कश्चित् पुमानस्ति य एवं तप आचरेत् ।त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम् ॥३०॥वासुकिर्बहुशीर्षस्तु नागेन्द्रो मौनमास्थितः ।तप आचरते सम्यङ् निधाय मनसा मनः ॥३१॥शेषः सत्यधृतिर्नागो बलवान् ब्रह्मसम्भवः ।वृक्षमारुह्य धर्मात्मा अवाक्छीर्षोऽवलम्बते ॥३२॥जिह्वाभिर्लेलिहानाभिर्गात्रजं विषमुत्सृजन् ।समाः सहस्रं सम्पूर्णं निराहारस्तपोधनः ॥३३॥कालकूटं विषं तद्धि सुमहत् समपद्यत ।येन लोको ह्यभिग्रस्तो न सुखं विन्दते नृप ॥३४ ।सर्वत्रानुगतं तीक्ष्णं भुजङ्गेषु महीपते ।जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम् ॥३५॥परस्परविवृद्धेन हिंसायुक्तेन भारत ।नाशयत्यान्मनोऽङ्गानि तेन तीक्ष्णेन भारत ॥३६॥अथ ब्रह्मा महाभागो भूतानां हितकाम्यया ।मन्त्रं विसृजते राजन् ब्रह्माक्षरमहिंसकम् ॥३७॥गरुत्मान् विततैः पक्षैर्नखाग्रैः सलिलं महीम् ।समाः सहस्रं सम्पूर्णं चूलाग्रेणावलम्बिना ॥३८॥पर्णभारैश्च विकचैर्विस्तीर्णैर्वसुधातले ।रराज वसुधा चैव पर्णैर्बहुविचित्रितैः ॥३९॥येन वृत्तेन जीवेयुः सर्वभूतानि भारत ।इह लोके मनुष्येन्द्र देवलोके च भारत ।द्यौरिवाचितनक्षत्रा मही तलविसर्पिभिः ॥४०॥हिमवान् हिमसम्पाते भवत्येकचरो वशी ।पुष्कराम्भसि धर्मात्मा मत्स्योल्लिखितमूर्धजः ॥४१॥अथ स्वबलमाक्रम्य पृथिवीं प्रांशुद्वाहिनीम् ।तपश्चरति धर्मात्मा बाहुमुद्यम्य दक्षिणम् ॥४२॥साग्रं वर्षसहस्रं च शतमेकं च सुव्रत ।तपश्चरति संयोगाद् वायुभक्षः समाहितः ॥४३॥समाधियोगात् सङ्गाद् वा ब्रह्मयोगस्य भारत ।येनेयं पृथिवी राजन् धार्यते ब्रह्मयोनिना ॥४४॥अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा ।योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः ॥४५॥दिने निषण्णो भवति रात्रौ भवति वै स्थिरः ।सत्यसंधः स धर्मात्मा कामकारकरो भवेत् ॥४६॥तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः ।रात्रौ स तपनो भवति मण्डलं विपुलं नभः ॥४७॥स चन्द्रविषयं राजञ्छमयामास रुन्धति ।ग्रहाणां गतयश्चैव ताराणां च विशेषतः ॥४८॥तां छायामाक्षिपन् सोमात्स्रवद्भिर्मण्डलेन वै ।पृथिव्यां दक्षिणो हस्तो महायोगी महामनाः ॥४९॥सैषा छाया शशीभूता शशिमण्डलमाविशत् ।अलिङ्गा पृथिवीलिङ्गादद्भुतादक्षया दिवि ॥५०॥अङ्गाङ्गान्युपगृह्यैव तपश्चरति निश्चयात् ।प्रोक्ष्य पादौ तु सतलौ पृथिवी तपसि स्थिता ॥५१॥सूर्यार्चिभिः पीयमानादाक्षिप्यत मही तले ।महीमिवाम्बुवसनां युगान्ते विष्णुतेजसा ॥५२॥रराज सूर्यरश्मिभिर्व्यतिषिक्ता महानदी ।स्फाटिकेव शुभा सैषा काञ्चनैर्धातुभिर्वृता ॥५३॥आदित्येन समादत्ता रश्मितेजोऽभिसम्भवैः ।मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते ॥५४॥रश्मिभिः पुनरुत्तीर्णा ततो योगेन धावति ।आकाशगङ्गा संवृत्ता विपुलैरम्बुविग्रहैः ॥५५॥शीतच्छायैश्च तरुभिर्लताभिश्च सुगन्धिभिः ।पद्मखण्डैश्च विविधैः शुशुभे दिव्यगन्धिभिः ॥५६॥काञ्चनापीडजघना स्फाटिकान्तरमेखला ।पद्मरेणुसिता पीता चक्रवाकावतंसिका ॥५७॥नीलगर्भसुकेशान्ता पुष्पसंचयसंकुला ।शोभते विप्रसर्पन्ति प्रमदेव विभूषिता ॥५८॥सैषा गङ्गा फलं लेभे पुष्करेण समाहिता ।सुतपा चन्द्रविहिता लोकानां धारणे रता ॥५९॥सरस्वती स्वरैर्व्यक्तैरधीते ब्रह्मवादिनी ।पृष्ठात् प्रयाता शैलेन्द्रे मन्दरे मन्दगामिनी ॥६०॥ऋङ्मयांश्चतुरो वेदान् पादैश्चतुर्भिरावृतान् ।यजुर्भिः सामभिश्चैव ग्रथिताञ्छिक्षया तदा ॥६१॥ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।सुपार्श्वस्य गिरेः पादे परिदायैः सुपारणैः ॥६२॥निःस्वनं सर्वभूतानि नियमैश्च न शृण्वते ।मन्दराग्रे विसर्पन्तं जगत्कृत्स्नमतीन्द्रियम् ॥६३॥विरामनियमे प्राप्ते तूष्णींभूता बभूव ह ।न वाचमीरयेद् देवी नियमात् सत्यवादिनी ॥६४॥अथ भूतानि सर्वाणि तूष्णींभूतानि सर्वशः ।न शेकुरभिधानार्थं व्याहर्तुं वदनैर्बलात् ॥६५॥विभज्य योगं मनसा सर्वभूतेष्वनुग्रहम् ।सरस्वती तीरयुता व्याजहार महास्वनम् ॥६६॥सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः ।तस्मिन्नेवाथ ते सर्वे गानं गायन्ति शिक्षया ॥६७॥आदित्या वसवो रुद्रा मरुतश्चाश्विभिः सह ।जटिलाश्चीरवसना मुञ्जमेखलधारिणः ॥६८॥गन्धर्वाः किन्नराश्चैव सनागाः सह चाम्भसः ।तपश्चरन्ति सहिताः पुष्करेषु मनीषिणः ॥६९॥अपि कीटपतङ्गैश्च सह सर्वैः सरीसृपैः ।शोषयन्ति शरीराणि तपसोग्रेण यत्नतः ॥७०॥विष्णुर्विष्णुत्वमापन्नो देहान्तरविसृष्टवान् ।संरक्षति महायोगी सर्वांस्तान् सहचारिणः ॥७१॥पुष्करे रमते विष्णुर्विष्णुरेव द्विधा कृतः ।दीप्यमानः स्वतेजोभिर्विधूम इव पावकः ॥७२॥सोऽग्निर्मनःसमुद्भूतः पृथिवीं तापयन्निव ।प्रधावति समं तेन मण्डलं दशयोजनम् ॥७३॥विरराजार्चिभिर्दीप्तैः पृष्ठतश्चावलम्बिभिः ।विशीर्णपार्थिविभवैर्मयूखैरिव दीपितः ॥७४॥तस्याग्नेर्विस्फुलिङ्गानां न शेकुर्लङ्घने रताः ।विप्रकीर्णस्य वसुधामर्यादामिव भास्करम् ॥७५॥सोऽग्निर्दीप्य विभज्यांशून्विधूम इव पावकः ।ऋत्विग्भिर्ज्वलनप्रख्यैर्विक्रीयत इवाध्वरे ॥७६॥सोऽग्निर्धूमगतस्तत्र तिष्ठते विपुलं तदा ।यावद्विष्णुक्रमः प्राप्तो नियमस्य समापनात् ॥७७॥रक्षां कृत्वा स्थितं विद्याद् विष्णुर्विष्णुपराक्रमः ।भूत्वा शतशरीरो वै नागो बालाहकोऽभवत् ॥७८॥तमग्निमात्मसंसृष्टं लेलिहानं महामतिम् ।प्रतिप्रवृत्तं तेजोभिर्भूतानां हितकाम्यया ॥७९॥वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः ।न्यषिञ्चद् दहनं तत्र नागो बालाहकस्तदा ॥८०॥ततः सिद्धगणैर्जुष्टः पुष्करे तप्यते तपः ।संहृत्य मनसाऽऽत्मानं महायोगी महाबलः ॥८१॥पादगात्राणि संहृत्य मनो मूर्ध्नि विधारयन् ।अचलं स्थानमासाद्य तूष्णीभूतो बभूव ह ॥८२॥एष धर्मो हि धर्माणां नोपधानविकल्पितः ।हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः ॥८३॥अथ दैत्या हतास्तत्र समागम्योद्यतायुधाः ।मायाप्राप्तैर्बहुविधैर्नगरैरभिसंवृताः ॥८४॥अग्निं दैत्याः पर्वताग्रैरभिघ्नन्ति परंतप ।ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः ॥८५॥मेघीभूताश्च मायाभिर्वर्षन्ति बलदर्पिताः ।तस्मिन्नेवाभिसंघाते ससंघातं महाबलम् ॥८६॥ते शैलास्त्वर्षिषा दग्धाः शतशोऽथ सहस्रशः ।युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति ॥८७॥न शेकुरग्निं दैत्यास्ते मायाभिर्मुखमुद्यतम् ।आदित्यमिव दीप्यन्तं नभः सूर्योदये यथा ॥८८॥विहितैरुद्यमैः सर्वे देत्या भग्नपराक्रमाः ।गन्धमादनमासाद्य निषण्णा नगमूर्धनि ॥८९॥स चाग्निर्वैष्णवैर्लोकैर्विद्युद्भिः सह संगतः ।अन्तरिक्षचरान् दैत्यान् निर्दहन्व्यचरद् दिवि॥९०॥नागो बालाहकश्चैव मेघैः संघातमागतः ।मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान् ॥९१॥मन्त्रैः संचोदितो नागो द्विजेभ्यो वदनोद्गतैः ।मुमोच तोयसंघातं मानयन् विप्रजं जनम् ॥९२॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे अष्टाविंशोऽध्यायः ॥२८॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP