संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| तृतीयोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - तृतीयोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण तृतीयोऽध्यायः Translation - भाषांतर व्यासेन कलियुगस्य स्थित्याः वर्णनम्जनमेजय उवाचआसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।तस्माद् द्वापरसंविद्धं युगान्तं स्पृहयाम्यहम् ॥१॥प्राप्ता वयं तु तत् कालमनया धर्मतृष्णया ।आदद्यात् परमं धर्मं सुखमल्पेन कर्मणा ॥२॥शौनक उवाचप्रजासमुद्वेगकरं युगान्तं समुपस्थितम् ।प्रणष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥३॥सौतिरुवाचपृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन् ।युगान्ते सर्वभूतानां भगवानब्रवीत् तदा ॥४॥व्यास उवाचअरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥५॥अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥६॥काण्डे स्पृष्टाः श्रोत्रियाश्च निष्क्रियाणि हवींष्यथ ।एकपङ्क्त्यामशिष्यन्ति युगान्ते जनमेजय ॥७॥शिल्पवन्तोऽनृतपरा नरा मद्यामिषप्रियाः ।मित्रभार्या भविष्यन्ति युगान्ते जनमेजय ॥८॥राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।भृत्याश्चानिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥९॥धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।अकुत्सना च पतिते भविष्यन्ति युगक्षये ॥१०॥प्रणष्टचेतना मर्त्या मुक्तकेशा विचूलिनः ।ऊनषोडशवर्षाश्च प्रजास्यन्ति नराः सदा ॥११॥अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥१२॥सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः ।शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये ॥१३ ।तपोयज्ञफलानां च विक्रेतारो द्विजातयः ।ऋतवश्च भविष्यन्ति विपरीता युगक्षये ॥१४॥शुक्लदन्ताऽञ्जिताक्षाश्च मुण्डाः काषायवाससः ।शूद्रा धर्मं चरिष्यन्ति शाक्यबुद्धोपजीविनः ॥१५॥श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे ॥१६॥अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः ।तथा निम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये ॥१७॥तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः ।चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥१८॥सर्वे चौरकुले जाताश्चोरयानाः परस्परम् ।स्वल्पेनाख्या भविष्यन्ति यत्किंचित्प्राप्य दुर्गताः ॥१९॥न ते धर्मं करिष्यन्ति मानवा निर्गते युगे ।ऊषार्कबहुला भूमिः पन्थानस्तस्करावृताः ॥२०॥सर्वे वाणिज्यकाश्चैव भविष्यन्ति कलौ युगे ।पितृदत्तानि देयानि विभजन्ते सुतास्तदा ।हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः ॥२१॥सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।भविष्यन्ति युगान्ते च नार्यः केशैरलंकृताः ॥२२॥निर्विहारस्य भूतस्य गृहस्थस्य भविष्यति ।युगान्ते समनुप्राप्ते नान्या भार्या समा गतिः ॥२३॥कुशीलानार्यभूयिष्ठं वृथारूपसमन्वितम् ।पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥२४॥बहुयाचनको लोको न दास्यति परस्परम् ।अविचार्य ग्रहीष्यन्ति दानं वर्णान्तरात् तथा ॥२५॥राजचौराग्निदण्डार्तो जनः क्षयमुपैष्यति ।सस्यनिष्पत्तिरफला तरुणा वृद्धशीलिनः ।ईहयासुखिनो लोका भविष्यन्ति युगक्षये ॥२६॥वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः ।संदिग्धः परलोकश्च भविष्यति युगक्षये ॥२७॥आत्मनश्च दुराचारा ब्रह्मदूषणतत्पराः ।आत्मानं बहु मन्यन्ते मन्युरेवाभ्ययाद्द्विजान् ॥२८॥वैश्याचाराश्च राजन्या धनधान्योपजीविनः ।युगापक्रमणे सर्वे भविष्यन्ति द्विजातयः ॥२९॥अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा ।ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥३०॥भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् ।अजाश्चैवोपरोत्स्यन्ते पयसोऽर्थे युगक्षये ॥३१॥अशास्त्रविदुषां पुंसामेवमेव स्वभावतः ।अप्रमाणं वदिष्यन्ति नीतिं पण्डितमानिनः ॥३२॥शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये ।सर्वे सर्वं हि जानन्ति वृद्धाननुपसेव्य वै ॥३३॥न कश्चिदकविर्नाम युगान्ते समुपस्थिते ।न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः ।चौरप्रायाश्च राजानो युगान्ते पर्युपस्थिते ॥३४॥कुण्डावृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ।अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय ॥३५॥अयाज्यान् याजयिष्यन्ति तथाभक्ष्यस्य भक्षिणः ।ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते ॥३६॥भोशब्दमभिधास्यन्ति न च कश्चित्पठिष्यति ।एकशङ्खास्तदा नार्यो गवेधुकपिनद्धकाः ॥३७॥नक्षत्राणि वियोगीनि विपरीता दिशस्तथा ।संध्यारागोऽथ दिग्दाहो भविष्यत्यवरे युगे ॥३८॥पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश्च कर्मसु ।वियोनिषु चरिष्यन्ति प्रमदासु नरास्तथा ॥३९॥वाक्छरैस्तर्जयिष्यन्ति गुरूञ्छिष्यास्तथैव च ।मुखेषु च प्रयोक्ष्यन्ति प्रमत्ताश्च नरास्तदा ॥४०॥अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः ।भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम् ॥४१॥पतीन्सुप्तान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः ।पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम् ॥४२॥नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः ।न कृतिप्रतिकर्ता च युगे क्षीणे भविष्यति ॥४३॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कलियुगवर्णने तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP