भविष्यपर्व - पञ्चदशाधिकशततमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
जनार्दनस्य सुधर्मासभायां गत्वा भगवतः श्रीकृष्णस्य दर्शनेन संतुष्टो भूत्वा तस्याज्ञया भगवत्स्तवनपूर्वकं हंसडिम्भकयोः संदेशस्य कथनम्
वैशम्पायन उवाच
स निवेदितसर्वस्वो द्वाःस्थेन हि जनार्दनः ।
अथ प्रविश्य धर्मात्मा सुधर्मां वै द्विजोत्तमः ॥१॥
अपश्यद् देवदेवेशं सुधर्माकृतिसंस्थितम् ।
बलभद्रेण संयुक्तमध्यासितमहासनम् ॥२॥
अग्रतः स्थितशैनेयं पार्श्वतः स्थितनारदम् ।
दुर्वाससा कृतकथमुग्रसेनपुरस्कृतम् ॥३॥
गायद्गन्धर्वमुख्यैश्च नृत्यदप्सरसां गणैः ।
सेव्यमानं महाराज सूतमागधबन्दिभिः ॥४॥
उद्गीयमानयशसं माधवं मधुसूदनम् ।
उद्गीयमानं विप्रैश्च सामभिः सामगैर्हरिम् ॥५॥
दृष्ट्वा प्रीतमना विष्णुं प्रोद्भूतपुलकच्छविः ।
नाम्ना जनार्दनोऽस्मीति ननाम चरणौ हरेः ।
बलभद्रं ततो देवं ववन्दे शिरसा द्विज ॥६॥
दूतोऽस्मि देवदेवेश हंसस्य डिम्भकस्य च ।
इति ब्रुवाणं विप्रेन्द्रमिदमाह स माधवः ॥७॥
आस्स्वैदं विष्टरं पूर्वं पश्चाद् ब्रूहि प्रयोजनम् ।
तथेति चाब्रवीद् विप्रो महदासनमास्थितः ॥८॥
वाचा सम्पूज्य विप्रेन्द्रमपृच्छत्कुशलं हरिः ।
ब्रह्मदत्तस्य राजेन्द्र हंसस्य डिम्भकस्य च ॥९॥
श्रुतं चापि तयोर्वीर्यं प्रयोजनमतो द्विज ।
अपि वा कुशलं विप्र पितुस्तव जनार्दन ॥१०॥
जनार्दन उवाच
कुशलं ब्रह्मदत्तस्य पितुश्च मम केशव ।
तयोरेव जगन्नाथ हंसस्य डिम्भकस्य च॥११॥
श्रीभगवानुवाच
किमाहतुर्महीपालौ तौ हंसडिम्भकौ नृपौ ।
ब्रूहि सर्वमशेषेण नात्र शङ्का द्विजोत्तम ॥१२॥
वाच्यं वाप्यथवावाच्यं कर्तव्यमथ चेतरत् ।
श्रुत्वा तस्य विधास्यामो युक्तरूपं द्विजोत्तम ॥१३॥
दूतोऽसि सर्वथा विप्र न वाच्यावाच्यकल्पना ।
यत् कर्मकारनिर्दिष्टं तद् वाच्यं दूतजन्मना ॥१४॥
नात्र शङ्का त्वया कार्या वक्तव्यस्येतरस्य च ।
अतो वद यथा प्रोक्तं ताभ्यामिह जनार्दन ॥१५॥
केशवेनैवमुक्तस्तु प्रोवाच स जनार्दनः ।
अजानन्निव किं ब्रूषे सर्वं प्रत्यक्षदर्शिवान् ॥१६॥
न चास्ति ते परोक्षं तु जगद्वृत्तान्तमच्युत ।
सर्वं हि मनसा पश्यन् किं त्वमात्थ वदेति माम् ॥१७॥
विद्वद्भिर्गीयसे विष्णुस्त्वमेव जगतीपते ।
इच्छया सर्वमाप्नोषि दृष्टादृष्टविवेचनम् ॥१८॥
त्वमेवेदं जगत् सर्वं जगच्च त्वयि तिष्ठति ।
न त्वया रहितो ह्येकः पदार्थः सचराचरः ॥१९॥
नास्ति किंचिदवेद्यं ते सर्वगोऽसि जगत्पते ।
त्वमिन्द्रः सर्वभूतानां रुद्रः संहारकर्मकृत् ॥२०॥
रक्षितासि सदा विष्णुः सर्वलोकस्य माधव ।
संसारस्य भवान्स्रष्टा किं त्वमात्थ वदेति माम २१॥
विद्वद्भिर्गीयसे नित्यं ज्ञानात्मेति च माधव ।
प्राणं प्राणविदः प्राहुस्त्वामेव पुरुषोत्तम ॥२२॥
शब्दं शब्दविदः प्राहुस्त्वामेव पुरुषोत्तम ।
तथा सति हृषीकेश किं त्वमात्थ वदेति माम् ॥२३॥
तथापि शृणु देवेश चोदितोऽस्मि यतस्त्वया ।
वदेत्यसकृदेवैतत् तस्माद् वक्ष्यामि माधव ॥२४॥
राजसूयेन यज्ञेन ब्रह्मदत्तोऽद्य यक्ष्यते ।
तदर्थं प्रेषितस्ताभ्यां हंसेन डिम्भकेन च ॥२५॥
करार्थं यदुमुख्येभ्यस्तव चामन्त्रणाय हि ।
लवणं बहु देयं ते यज्ञार्थं तस्य केशव ॥२६॥
इत्यर्थं प्रेषितस्ताभ्यां करं देहि तदाज्ञया ।
इदं त्वमपरं ताभ्यामुक्तं शृणु जगत्पते ॥२७॥
लवणानि बहून्याशु प्रगृह्य त्वरितं भवान् ।
आगच्छतु तयो राज्ञोः सेयं केशव वाग् विभो ॥२८॥
इत्युक्तवति विप्रेन्द्रे दूते तत्र तयोर्नृप ।
प्रहस्य सुचिरं कृष्णो बभाषे दूतमीश्वरः ॥२९॥
शृणु दूत वचो मह्यं युक्तमुक्तं द्विजोत्तम ।
करं ददामि ताभ्यां तु करदोऽस्मि यतो नृपः ॥३०॥
धार्ष्ट्यमेतत् तयोर्विप्र मत्तो यस्तु करग्रहः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यं तयोः क्षत्रियबीजयोः ॥३१॥
इदमश्रुतपूर्वं मे मत्तो यस्तु करग्रहः ।
इत्युक्त्वा केशवो दूतमिदमाह स्म यादवान् ॥३२॥
हास्यमेतद् यदुश्रेष्ठा मत्तो यस्तु करग्रहः ।
यष्टासौ राजसूयस्य ब्रह्मदत्तो महीपतिः ॥३३॥
तौ तु याजयितारौ हि हंसो डिम्भक एव च ।
वोढा किल यदुश्रेष्ठो लवणस्य दुरात्मनः ॥३४॥
करदो वासुदेवो हि जितोऽस्मि यदुसत्तमाः ।
हास्यं हास्यमिदं भूयः शृणुध्वं यादवा वचः ॥३५॥
इत्युक्तवति देवेशे बलभद्रपुरोगमाः ।
यादवाः सर्व एवैते हासाय समवस्थिताः ॥३६॥
करदः कृष्ण इत्येवं ब्रुवन्तः सर्वसात्वताः ।
हासं मुमुचुरत्यर्थं तलं दत्त्वा परस्परम् ॥३७॥
तलशब्दो हासशब्दो रोदसी पर्यपूरयत् ।
स च विप्रो नृपश्रेष्ठ निन्दयन् मित्रमात्मनः ॥३८॥
अहो कष्टमहो कष्टं दौत्यं यत् कृतवानहम् ।
इति लज्जासमाविष्टस्तूष्णीमासीदवाङ्मुखः ॥३९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने वासुदेववाक्ये पञ्चदशाधिकशततमोऽध्यायः ॥११५॥
N/A
References : N/A
Last Updated : July 20, 2018
TOP