संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| षोडशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः हरिवंश पर्व - षोडशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षोडशोऽध्यायः Translation - भाषांतर सृष्टिविषयकवर्णनस्य प्रसङ्गे ज्ञानस्य योगस्य च विचारःवैशम्पायन उवाचशृणुष्वैकमना राजन् पञ्चेन्द्रियसमाहितः ।कथां कथयतो राजन् निर्विकारेण चेतसा ॥१॥ब्रह्मसम्बन्धसम्बद्धमबद्धं कर्मभिर्नृप ।पुरस्ताद् ब्रह्म सम्पन्नं ब्रह्मणो यददक्षिणम् ॥२॥अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।निष्कलः पुरुषस्तस्मात् सम्बभूवात्मयोनिजः ॥३दिव्यो दिव्येन वपुषा सर्वभूतपतिर्विभुः ।अचिन्त्यश्चाव्ययश्चैव युगानां प्रभवोऽव्ययः ॥४॥अभूतश्चाप्यजातश्च सर्वत्र समतां गतः ।अव्यक्तात् परमं यत् तन्नारायणविदो विदुः ॥५॥सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥६॥असतश्च सतश्चैव विज्ञेयं तत्र कारणम् ।अव्यक्तो व्यक्तरूपस्थश्चरन्नपि न दृश्यते ॥७॥विकारपुरुषोऽब्यक्तो ह्यरूपी रूपमाश्रितः ।चरत्यचिन्त्यः सर्वेषु गूढोऽग्निरिव दारुषु ॥८॥भूतभव्योद्भवो नाथः परमेष्ठी प्रजापतिः ।प्रभुः सर्वस्य लोकस्य नाम चास्येति तत्त्वतः ॥९॥अपदात्तु पदो जातस्तस्मान्नारायणोऽभवत् ।अव्यक्तो व्यक्तिमापन्नो ब्रह्मयोगेन कामतः ॥१०॥ब्रह्मभावे च तं विद्धि सशब्दं लब्धवान् प्रभुः ।प्रभुः सर्वस्य लोकस्य स्थावरस्येतरस्य च ॥११॥अहं त्विति स होवाच प्रजा स्रक्ष्यामि भारत ।प्रभवः सर्वभूतानां यस्य तन्तुरिमाः प्रजाः ॥१२॥स्वभावाज्जायते सर्वं स्वभावाच्च तथाभवत् ।अहंकारः स्वभावाच्च तथा सर्वमिदं जगत् ॥१३॥सर्वव्यापी निरालम्बो ह्यग्राह्योऽथ जयो ध्रुवः ।एष ब्रह्ममयो ज्योतिर्ब्रह्मशब्देन शब्दितः ॥१४॥अव्यक्तो व्यक्तिमापन्नः पञ्चभिः क्रतुलक्षणैः ।धारयन्ब्रह्मणो व्यक्तं विविधं चिन्तितं त्वरन् ॥१५॥अथ मूर्तिं समाधाय स्वभावाद् ब्रह्मचोदितः ।ससर्ज सलिलं ब्रह्म येन सर्वमिदं ततम् ॥१६॥वायुं पूर्वमथो दृष्ट्वा यो धातुर्धातृसत्तमः ।धरणाद्धातृशब्दं च लभते लोकसंज्ञितम् ॥१७॥तदेतद् वायुसम्भूतं कृत्स्नं जगदभूत् पुरा ।एतद् देवैरतिक्रान्तं पूर्वमेव सरस्वति ॥१८॥पृथक्त्वं गमितं तोयं पृथिवीशब्दमिच्छता ।घनत्वाच्च द्रवत्वाच्च निखिलेनोपलभ्यते ॥१९॥फलत्वात्सीदमाना च सलिले सलिलोद्भवा ।व्याजहार शुभां वाणीं समन्तात्पूरयन्निव ॥२०॥ऊर्ध्वेऽहं स्थातुमिच्छामि संसीदाम्युद्धरस्व माम् ।गम्भीरे तोयविवरे मूर्तिविक्षोभितान्तरम् ॥२१॥ततो मूर्तिधरा देवी सर्वभूतप्ररोहिणी ।यथायोगेन सम्भूता सर्वत्र विषयैषिणी ॥२२॥श्रुत्वा च गदितं तस्या गिरं तां च सुभाषिताम् ।वराहरूपमास्थाय निपपात महार्णवे ॥२३॥उद्धृत्य सोऽवनिं तोयात्कृत्वा कर्म सुदुष्करम् ।समाधौ प्रलयं गत्वा प्रलीनो न च दृश्यते ॥२४॥यत्तद् ब्रह्ममयं ज्योतिराकाशमिति संज्ञितम् ।तत्र ब्रह्मा समुद्भूतः सर्वभूतपितामहः ॥२५॥अद्यापि मनसा धात्रा धार्यते सर्वयोनिना ।ज्ञानयोगेन सूक्ष्मेण प्रजानां हितकाम्यया ॥२६॥भित्त्वा तु पृथिवीमध्यमुपयाति समुद्भवम् ।तपनस्तूर्ध्वमातिष्ठन् रश्मिभिः स हसन्निव ॥२७॥तस्य मण्डलमध्यात् तु निःसृतं सोममण्डलम् ।स सनातनजो ब्रह्मा सौम्यं सोमत्वमन्वगात् ॥२८॥सोममण्डलपर्यन्तात् पवनः समजायत ।तदक्षरमयं ज्योतिस्तेजोभिरभिवर्द्धयन् ॥२९॥स तु योगमयाज्ज्ञानात्स्वभावाद्ब्रह्मसम्भवात् ।सृजते पुरुषं दिव्यं ब्रह्मयोनिं सनातनम् ॥३०॥द्रवं यत्सलिलं तस्य घनं यत्पृथिवी भवत् ।छिद्रं यच्च तदाकाशं ज्योतिर्यच्चक्षुरेव तत् ॥३१॥वायुना स्पन्दते चैनं संघाताज्ज्योतिसम्भवः ।पुरुषात्पुरुषो भावः पञ्चभूतमयो महान् ॥३२॥भूतात्मा वै समे तस्मिंस्तस्मिन् देहे सनातनः ।गुहायां निहितं ज्ञानं योगाद् यज्ज्ञः सनातनः ॥३३॥तपनस्यैव तद्रूपं योऽग्निर्वसति देहिनाम् ।शरीरे नित्यशो युक्तं धातुभिः सह संगतः ॥३४॥स्वभावात्क्षयमायाति स्वभावाद् भयमेति च ।स्वभावाद्विन्दते शान्तिं स्वभावाच्चन विन्दति॥३५॥इन्द्रियैरतिमूढात्मा मोहितो ब्रह्मणः पदे ।सम्भवं निधनं चैव कर्मभिः प्रतिपद्यते ॥३६॥यावत् तद् ब्रह्मविषयं नोपयाति ह तत्त्वतः ।तावत् संसारमाप्नोति सम्भवांश्च पुनः पुनः ॥३७॥इन्द्रियैर्व्यतिरिक्तो वै यदा भवति योगवित् ।तदा ब्रह्मत्वमापन्नः प्रलयाग्रे प्रतिष्ठति ॥३८॥प्रतिषिद्धममुं लोकं ब्रह्मवान् स भवत्युत ।न च रागव्ययैर्याति न च सज्जति कर्हिचित् ॥३९॥आगतिं च गतिं चैव निधनं सम्भवं तथा ।भूतेभ्यो वेत्ति सर्वज्ञः परां सिद्धिमुपागतः ॥४०॥आत्मनो गतयश्चैव तथा विषयगोचरम् ।पुरस्तात्कर्मनिर्वृत्तेः पदे ब्रह्मा प्रतिष्ठितः ॥४१॥चित्तग्रन्थींश्च मनसा रुन्ध्यात्पूर्वाश्च यातनाः ।भिद्यमानाः प्रलोभेन वायुभिन्नमिवार्णवम् ॥४२॥पच्यते हृदयं नीलं परेभ्यो ज्ञानचक्षुषा ।ब्रह्मप्रोक्तमिवात्मा वै विमुक्तो देहबन्धनात् ॥४३॥सृजेदपि परं लोकं संहरेदपि विद्यया ।तेजोमूर्तिरिवाविद्धमिह लोकं च संसृजेत्॥४४॥तिर्यग्योनौ गतांश्चैव कर्मभिर्नियमोपमैः ।तान्यपि प्रतिमुच्येत ब्रह्मयुक्तेन चेतसा ॥४५॥अक्षरं च क्षरं चैव योगकर्माभिविद्यते ।न क्षरं विद्यते तत्र यद् ब्रह्म कर्मभिर्ध्रुवम् ॥४६॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP