संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
नवनवतितमोऽध्यायः

भविष्यपर्व - नवनवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


बलभद्रस्य एकलव्येन सार्धं एवं पौण्ड्रकस्य सात्यकिना सार्धं युद्धम्

वैशम्पायन उवाच
क्रव्यादाः सर्व एवाशु भक्षयन्तस्तदा शवम् ।
हसन्तो विविधं घोरं नादयन्तो वसुंधराम् ॥१॥
राक्षसाश्च पिशाचाश्च पिबन्तः शोणितं बहु ।
आशिखं भुञ्जते राजञ्छवस्य पिशिताशनाः ॥२॥
नृत्यन्ति स्म तदा राजन् नगर्यां रणतोषिताः ।
काका बलाका गृध्राश्च श्येना गोमायवस्तथा ॥३॥
भक्षयन्तः प्रवर्तन्ते राक्षसाश्चैव दारुणाः ।
एतस्मिन्नन्तरे वीरो निषादो लब्धसंज्ञकः ॥४॥
हतान् सर्वान् समालोक्य निषादान् नगचारिणः ।
गदामादाय कुपितो राममेव जगाम ह ॥५॥
जघान गदया राजञ्जत्रुदेशे निषादपः ।
ततो रामो गदी राजन् निषादं बाहुशालिनम् ॥६॥
आजघ्ने गदया क्रूरं मदमत्तो हलायुधः ।
तयोश्च तुमुलं युद्धं गदाभ्यां समवर्तत ॥७॥
आकाशे शब्द आसीत् तु तयोर्युद्धे महाभुज ।
समुद्राणां यथा घोषः सर्वेषां संनिगच्छताम् ॥८ ।
कल्पक्षये महाराज शब्दः सुतुमुलोऽभवत् ।
क्षोभितो नागराजश्च नागाः क्षोभं समाययुः ॥९॥
पृथिवी चान्तरिक्षं च सर्वं शब्दमयं बभौ ।
ततः स पौण्ड्रको राजा सात्यकिं वृष्णिनन्दनम् ॥१०॥
गदयैव जघानाशु सत्वरं रणकोविदः ।
युयुधानो बली राजन् वासुदेवं जघान ह ॥११॥
तयोश्च तुमुलः शब्दः प्रादुरासीन्महारणे ।
चतुर्णां युध्यतां राजन् परस्परवधैषिणाम् ॥१२॥
ब्रह्माण्डक्षोभणो राजञ्छब्द आसीत् सुदारुणः ।
ततो रजः प्रादुरभूत् तस्मिन् संग्राममूर्धनि ॥१३॥
तारका निष्प्रभा राजंस्तमस्येवं क्षयं गते ।
उषसि प्रतिबुद्धायां ततो निःशेषतां ययौ ॥१४॥
उदितो भगवान् सूर्यश्चन्द्रश्च क्षयमाययौ ।
तेषां युद्धं प्रादुरभूच्चतुर्णां बाहुशालिनाम् ।
देवासुरसमं राजन्नुदिते भास्करे महत् ॥१५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकयुद्धे नवनवतितमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP