संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
अष्टपञ्चाशत्तमोऽध्यायः

भविष्यपर्व - अष्टपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


रणाजेः एकचक्रस्य सार्द्धं, मृगव्याधस्य बलासुरेण, अजैकपादस्य राहोः, सुधूम्राक्षस्य केशीदैत्येन सार्द्धं युद्धस्य वर्णनम्

वैशम्पायन उवाच
तत्रैव तु महायुद्धे रणाजिर्देवसत्तमः ।
युध्यते सह दैत्येन एकचक्रेण धीमता ॥१॥
प्रच्छाद्य रथपन्थानमुत्क्रोशंश्च महाबलः ।
एकचक्रस्य सैन्यं तच्छरवर्षैरवाकिरत् ॥२॥
महासुरा महावीर्या महापट्टिशयोधिनः ।
शूलानि च भुशुण्डीश्च क्षिपन्ति स्म महारणे ॥३॥
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।
अविशद् दितिजैर्मुक्तं दुर्निवार्यं चराचरैः ॥४॥
अन्योन्यमभिवर्तन्ते देवासुरगणा युधि ।
महाद्रिशिखराकारा वीर्यवन्तो महाबलाः ॥५॥
तुरङ्गमाणां तु शतं युक्तं तस्य महारथे ।
महासुरवरस्येव हिरण्यकशिपोर्युधि ॥६॥
तेषां चरणपातेन चक्रनेमिस्वनेन च ।
तथा बाणनिपातैश्च हता वै शतशः सुराः ॥७॥
ततः स लघुभिश्चित्रैः शरैः संनतपर्वभिः ।
सायुधानच्छिनत्क्रुद्धः शतशोऽथ सहस्रशः ॥८॥
वध्यमानाः शरैस्तीक्ष्णै रथद्विरदवाजिनः ।
गमिताः प्रक्षयं केचित् त्रिदशैर्दानवा रणे ॥९॥
ततः प्रमीयमाणास्तानुपप्रेक्ष्य दितेः सुताः ।
त्यक्त्वा प्राणान् न्यवर्तन्त प्रगृहीतवरायुधाः ॥१०॥
ते दिशो विदिशश्चैव प्रतियुद्धप्रहारिणः ।
अभ्यघ्नन् निशितैः शस्त्रैर्देवान्दितिसुता रणे ॥११॥
रणाजिर्ज्वलितं घोरं परमं तिग्मतेजसम् ।
मुमोचास्त्रं महाबाहुर्मथनं नाम संयुगे ॥१२॥
ततः शस्त्राणि शूलानि निशितानि सहस्रशः ।
अस्त्रवीर्येण महता दितिजः सम्प्रचिच्छिदे ॥१३॥
छित्त्वा शूलेन तान् सर्वानेकचक्रो महासुरः ।
अभ्यविध्वत तं साध्यं दशभिर्निशितैः शरैः ॥१४॥
अस्त्रवेगं निहत्यैवं सोऽस्त्रैस्तस्यानुसैनिकान् ।
ज्वलितैरपरैः शीघ्रैस्तानविध्यत् सहस्रशः ॥१५॥
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवास्त्रवृष्टीनि शृङ्गाणि धरणीभृताम् ॥१६॥
इन्द्राशनिसमस्पशैर्निपतद्भिरजिह्मगैः ।
दितिजैर्बध्यमानास्ते वित्रेसुः सुरसत्तमाः ॥१७॥
एकचक्रो रथे तिष्ठन्नपश्यद् गजयूथपान् ।
वराभरणनिर्ह्रादान् समुद्रस्वननिःस्वनान् ॥१८॥
मत्तान् सुविहितान् दृप्तान् महामात्रैरधिष्ठितान् ।
कुलीनान् वीर्यसम्पन्नान् प्रतिद्विरदघातिनः ॥१९॥
शिक्षितान् गजशिक्षायामैरावतसमान् युधि ।
न्यहनत् सुरसैन्यस्य गजान् गज इवासुरः ॥२०॥
विक्षरन्तो महानागान् भीमवेगांस्त्रिधा मदम् ।
मेघस्तनितनिर्घोषान् महाद्रीनिव चोत्थितान् ॥२१॥
सहस्रसम्मितान् दिव्याञ्जाम्बूनदपरिष्कृतान् ।
सुवर्णजालैर्विततांस्तरुणादित्यवर्चसः ॥२२॥
एकचक्रो गदापाणिर्बलवान् गदिनां वरः ।
उत्सारयामास गजान् महाभ्राणीव मारुतः ॥२३॥
निहत्य गदया सर्वांस्तान् गजान् गजमर्दनः ।
भूयोऽश्वसंघान् स बली निरैक्षत महासुरः ॥२४॥
शुकवर्णानृष्यवर्णान् मयूरसदृशांस्तथा ।
पारावतसवर्णांश्च हंसवर्णांस्तथैव च ॥२५॥
मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनोजवान् ।
अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः ।
निषूदयामास बली गदया भीमविक्रमः ॥२६॥
रणाजिर्व्यस्य समरे सर्वान् दृष्ट्वा सुरद्विषः ।
अजिन्त्यविक्रमः श्रीमान् स युद्धाद् विरराम ह ॥२७॥
गदायुद्धेषु कुशलो रथेन रथयूथपः ।
नष्टसैन्यो महाबाहुः प्रस्थितः शक्रसंनिधौ ॥२८॥
त्रिंशच्छतसहस्राणि रथानां विनिहत्य सः ।
रणेऽतिष्ठत दैत्येन्द्रो विधूम इव पावकः ॥२९॥
तस्मिन्तेव तु संग्रामे बलो दृप्तो महासुरः ।
मृगव्याधं महात्मानं योधयत्यजितं रणे ॥३०॥
मृगव्याधस्य रुद्रस्य महापारिषदास्तथा ।
समुत्पेतुर्बलं दृष्ट्वा हुताग्निसमतेजसः ॥३१॥
गजैर्मत्तै रथैर्दिव्यैर्वाजिभिश्च महाजवैः ।
अस्त्रैश्च निशितैर्बाणैः शरैश्चानलसंनिभैः ॥३२॥
ददृशुस्ते ततो वीरा दीप्यमानं महासुरम् ।
रश्मिवन्तमिवोद्यन्तं सुतेजोरश्मिमालिनम् ॥३३॥
संग्रामस्थं महावेगं महासत्त्वं महाबलम् ।
महामतिं महोत्साहं महाकायं महारथम् ॥३४॥
समीक्ष्य तं महायोधं दिक्षु सर्वास्ववस्थितम् ।
ततः प्रहरणैर्घोरैरभिपेतुः समन्ततः ॥३५॥
तस्य सर्वायसास्तीक्ष्णाः शराः पीतमुखाः शिताः ।
शिरस्यद्रिप्रतीकाशे मृगव्याधेन पातिताः ॥३६॥
तैश्च सप्तभिराविष्टः शरैः शिरसि चार्पितैः ।
उत्पपात तदा व्योम्नि दिशो दश विनादयन् ॥३७॥
ततस्तं त्रिदशो वीरः सरथः सज्जकार्मुकः ।
अनुवव्राज संहृष्टः खे तदा स महाबलः ॥३८॥
असुरं छादयामास तं व्योम्नि शरवृष्टिभिः ।
वृष्टिमानिव जीमूतो निदाघान्ते धराधरम् ॥३९॥
अर्द्यमानस्ततस्तेन मृगव्याधेन दानवः ।
चकार निनदं घोरमम्बरे जलदो यथा ॥४०॥
स दूरं सहसोत्पत्य मृगव्याधरथं प्रति ।
निपपात महावेगः पक्षवातैर्गिरिर्यथा ॥४१॥
बभञ्ज च ततो दैत्यो भग्नेषाकूबरं रथम् ।
मृगव्याधः परित्यज्य स्थितो भूमौ महाबलः॥४२॥
विरथं प्रेक्ष्य रुद्रं तु तस्य पारिषदाः शुभाः ।
उत्थिता घोररक्ताक्षा व्योम्नि मुद्गरपाणयः ॥४३॥
स तैः सहसोत्थाय वेष्टितो विमलेऽम्परे ।
भीमेर्भ्रूकः परशुभिर्यथा ॥४४॥
तेषां वेगवतां वेगं निहत्य स महारथः ।
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥४५॥
स शालवृक्षमुत्पाट्य महाशासं महाबलः ।
सर्वान् पारिषदान्संणये सूदयामास दानवः ॥४६॥
स तैर्विक्षतदेहस्तु रुधिरौघपरिप्लुतः ।
शुशुभे दानवश्रेष्ठो बालसूर्य इवोदितः ॥४७॥
अथोत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
जघान तान् पारिषदान् समरे दानवेश्वरः ॥४८॥
ततस्तेपु च भग्नेषु महापारिवदेतु वै ।
बलं तदवशेषं तु नाशयामास वीर्यवान् ॥४९॥
अल्पैरश्वादगणैर्नागान् योधान्योधे रथान्रथैः ।
दानवः स्त्वयामास युगान्तेऽन्तकवत्प्रजाः ॥५०॥
हतैरश्वैश्च नागैश्च भग्नाक्षैश्च महारथैः ।
त्रिदशैश्चाभवद् भूमी रुद्धमार्गा समन्ततः ॥५१॥
एवं बलः स दैत्येन्द्रो मृगव्याधश्च वीर्यवान् ।
युधि प्रवृद्धौ बलिनौ प्रभिन्नाविव वारणौ ॥५२॥
वैशम्पायन उवाच
तत्रैव युध्यते रुद्रो द्वितीयो राहुणा सह ।
विश्रुतस्त्रिषु लोकेषु क्रोधात्मा ह्यज एकपात् ॥५३॥
तत् यथा सुमहद् युद्धं तुमुलं लोमहर्षणम् ।
आसीत्प्रतिभयं रौद्रं वीराणां जयमिच्छताम् ॥५४॥
देवदानवदेहैस्तु दुस्तरा केशशाद्वला ।
शरीरसंघातवहा प्रसृता लोहितापगा ॥५५॥
आजघानाथ संक्रुद्धो रुद्रो रौद्राकृतिः प्रभुः ।
राहुं शतमुखं युद्धे शत्रुसैन्यनिवारणम् ॥५६॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमान् क्रुद्धो दैत्यस्य सायकैः ॥५७॥
तस्य पारिषदस्त्वेकः शरशक्त्या महाबलः ।
बिभेद समरे हृष्टो दानवं तं स्तनान्तरे ॥५८॥
स भिन्नगात्रो रुद्रेण तथा पारिषदैरपि ।
रुद्रस्य रथमायान्तं स राहुर्दानवोत्तमः ॥५९॥
प्रममाथ तलेनाशु सहसा क्रोधमूर्च्छितः ।
भिन्नगात्रं शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ॥६०॥
हतैर्दानवमुख्यैस्तु रुद्रेणामिततेजसा ।
रुद्रपारिषदान् सर्वान् निजघान महासुरः ॥६१॥
सृजन्तं शरवर्षाणि दानवं घोरदर्शनम् ।
बिभेद समरे रुद्रो बाणैः संनतपर्वभिः ॥६२॥
वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।
रुधिरौघा महावेगा महानद्यः प्रसुस्रवुः ॥६३॥
दानवं समरे रुद्रो नीलाञ्जनचयोपमम् ।
निर्बिभेद शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ॥६४॥
हतैर्दानवमुख्यैश्च शक्तिशूलपरश्वधैः ।
पतितैः पर्वताभैश्च दानवैः कामरूपिभिः ॥६५॥
वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।
विरेजुस्ते तदा दैत्याः पुष्पिता इव किंशुकाः ॥६६॥
महाभेरीमृदङ्गानां पणवानां च निःस्वनः ।
शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥६७॥
हतानां स्वनतां तत्र दैत्यानां चापि निःस्वनः ।
देवानां च तथा तत्र शुश्रुवे दारुणो महान् ॥६८॥
तुरङ्गमखुरोत्कीर्णं रथनेमिसमुत्थितम् ।
रुरोध मार्गं योधानां चक्षूंषि च धरारजः ॥६९॥
शस्त्रपुष्पोपहारा सा तत्रासीद् युद्धमेदिनी ।
दुर्दर्शा दुर्विगाह्या च मांसशोणितकर्दमा ॥७०॥
भग्नैः खड्गैर्गदाभिश्च शक्तितोमरपट्टिशैः ।
अपविद्धैश्च भग्नैश्च रथैः सांग्रामिकैर्हतैः ॥७१॥
निहतैः कुञ्जरैर्मत्तैस्तथा त्रिदशदानवैः ।
चक्राक्षयुगशस्त्रैश्च भग्नैरवनिपातितैः ॥७२॥
बभूवायोधनं घोरं पिशिताशनसंकुलम् ।
उत्पेतुश्च कबन्धानि दिक्षु सर्वासु संयुगे ॥७३॥
अन्योन्यबद्धवैराणां दैत्यानां जयगृद्धिनाम् ।
सम्प्रहारस्तथा युद्धे वर्ततेऽतिभयंकरः ॥७४॥
सैन्यानां सम्प्रयुद्धानां शूराणामनिवर्तिनाम् ।
अजस्य चैकपादस्य राहोश्चैव महात्मनः ॥७५॥
तेषां तु तत्र पततां क्रुद्धानाशतिनिःस्वनः ।
उद्वर्त इव भूतानां समुद्राणां तु शुश्रुवे ॥७६॥
तत्रैकस्तु सुधूम्राक्षः श्रीमान् रुद्रो मुनीश्वरः ।
बिभेद केशिनं शक्त्या गदापरिघशूलभृत् ॥७७॥
नानाप्रहरणा घोरा भीमाक्षा भीमविक्रमाः ।
निष्पेतू रुद्रदयिता महापारिषदास्तथा ॥७८॥
रथमास्थाय च श्रीमांस्तप्तकाञ्चनकुण्डलः ।
दानवैः संवृतः केशी युध्यते युद्धदुर्जयैः ॥७९॥
तस्य संग्रामशौण्डस्य संग्रामेषु युयुत्सतः ।
निपेतुरुग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ॥८०॥
स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः ।
महाजलदसंकाशो मृदङ्गध्वनिनिःस्वनः ॥८१॥
तस्य निष्पतमानस्य दानवैः संवृतस्य च ।
बभूव सुमहानादः क्षोभयंस्त्रिदिवं यथा ॥८२॥
तेन शब्देन वित्रस्ता त्रिदशानां महाचमूः ।
द्रुमशैलप्रहरणा योद्धुमेवाभ्यवर्तत ॥८३॥
तेषां च देवदैत्यानां युयुत्सूनां परस्परम् ।
संनिपातः सुतुमुलो रौद्रो लोकभयावहः ॥८४॥
तेषां युद्धं महाघोरं संजज्ञे लोमहर्षणम् ।
देवदानवसंघानां प्राणांस्त्यक्त्वा महाहवे ॥८५॥
सर्वे ह्यतिबलाः शूरा सर्वे पर्वतसंनिभाः ।
सर्वे सर्वास्त्रविद्वांसः सर्वे सर्वायुधोद्यताः ।
त्रिदशा दानवाश्चैव परस्परजिघांसवः ॥८६॥
तेषां वै नदतां शब्दः संयुगे मेघनिःस्वनः ।
शुश्रुवेऽतिमहाघोरश्चरस्थावरकम्पनः ॥८७॥
रेणुश्चारुणसंकाशो भीमः स समपद्यत ।
उद्भूतो देवदैत्यौघैः संरुरोध दिशो दश ॥८८॥
अन्योन्यं रजसा तेन कौशेयारुणपाण्डुना ।
संवृता बहुरूपेण ददृशुर्न च किंचन ॥८९॥
न ध्वजो न पताकाश्च न वर्म तुरगोऽपि वा ।
आयुधं स्यन्दनो वापि दृश्यते नैव सारथिः ॥९०॥
स शब्दस्तुमुलस्तेषामन्योन्यमभिधावताम् ।
श्रूयते तुमुलः शब्दो न रूपाणि चकाशिरे ॥९१॥
दानवास्तत्र संक्रुद्धा दानवानेव जघ्निरे ।
त्रिदशास्त्रिदशाश्चैव निजघ्नुस्तुमुले तदा ॥९२॥
ते परांश्च विनिघ्नन्तः स्वांश्च युद्धे महासुरान् ।
रुधिरार्द्रा तथा चक्रुर्मेदिनीमसुराः सुराः ॥९३॥
ततस्तु रुधिरौघेण संसिक्तमुदितं रजः ।
शरीरशतसंकीर्णं बभूव धरणीतलम् ॥९४॥
शूलशक्तिगदाखड्गपरिघप्रासतोमरैः ।
त्रिदशा दानवाश्चैव जघ्नुरन्योन्यमाहवे ॥९५॥
बाहुभिः परिघाकारैर्निघ्नतः परिघैस्तथा ।
रुद्रपारिषदान् सर्वान् सूदयन्ति स्म दानवाः ॥९६॥
रुद्रपारिषदाश्चैव महाद्रुममहाश्मभिः ।
व्यदारयन्नतिक्रम्य शस्त्रैश्चादित्यसंनिभैः ॥९७ ।
एतस्मिन्नन्तरे क्रुद्धः केशी दानवसत्तमः ।
संग्रामामर्षघोरः सन् स्वान्यनीकानि हर्षयन् ।
तेषां परमसंक्रुद्धो वज्रमस्त्रमुदीरयत् ॥९८॥
वज्रेणास्त्रेण दिव्येन शस्त्रेण च महात्मना ।
महापारिषदाः सर्वे निहता युधि दुर्जयाः ॥९९॥
वज्रास्त्रपीडिता भ्रान्ता रुद्रपारिषदा युधि ।
विप्रकीर्णद्रुमाः पेतुः शैला वज्रहता इव ॥१००॥
एवं सुतुमुलं युद्धमभवल्लोमहर्षणम् ।
केशिनः सह रुद्रेण तदद्भुतमिवाभवत् ॥१०१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धकेशिरुद्रयुद्धकथने अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP