संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| नवमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - नवमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण नवमोऽध्यायः Translation - भाषांतर प्रलयस्योत्तरे एकार्णवस्य जले भगवतः नारायणस्य शयनम्वैशम्पायन उवाचभूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः ।गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥१॥पीत्वार्णवांश्च सर्वान् स नदीः कूपांश्च सर्वशः ।पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः ॥२॥भित्त्वा सहस्रशश्चैव महीं नीत्वा रसातलम् ।रसातलगतं कृत्स्नं पिबते रसमुत्तमम् ॥३॥अप्सु सृजन्क्लेदमन्यद् ददाति प्राणिनां ध्रुवम् ।तत् सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥४॥वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत् ।प्राणोदये सुराणां च वायुना कुरुते हरिः ॥५॥ततो देवगणानां च सर्वेषामेव देहिनाम् ।ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ।पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः ॥६॥जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः ।रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥७॥स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः ।परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ॥८॥ततो भगवता तत्र रश्मिभिः परिवारिताः ।वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात् ॥९॥तेषां संघर्षजोद्भूतः पावकः शतधा ज्वलन् ।अदहन्निखिलांल्लोकानुग्रः संवर्तकोऽनलः ॥१०॥संपर्वतांस्तरून् गुल्माँल्लतावल्लीस्तृणानि च ।विमानानि च दिव्यानि पुराणि विविधानि च ॥११॥आश्रमांश्च तथा पुण्यान्दिव्यान्यातनानि च ।यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ॥१२॥भस्मीभूतांस्ततः सर्वाँल्लोकाँल्लोकगुरुर्हरिः ।भूयो निर्वापयामास जलयुक्तेन कर्मणा ॥१३॥सहस्रदृङ्महातेजा भूत्वा कृष्णो महाघनः ।दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥१४॥ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।शिवेन पुण्येन महीं निर्वाणमगमत् परम् ॥१५॥ते नगा जलसंछन्नाः पयसः सर्वतोधराः ।एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः ॥१६॥महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ॥१७॥संशोषयित्वा पीत्वा च वसत्येकः सनातनः ।पौराणं रूपमास्थाय किमप्यमितबुद्धिमान् ॥१८॥एकार्णवजले ह्यासीद् योगी योगमुपागतः ।अयुतानां सहस्राणि गतान्येकार्णवेऽम्भसि ।न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥१९॥जनमेजय उवाचएकार्णवविधिः कोऽयं यश्चैव परिकीर्तितः ।क एष पुरुषो नाम किं योगः कश्च योगवान् ॥२०॥वैशम्पायन उवाचएतावन्तमसौ कालमेकार्णवविधिं प्रति ।करिष्यतीमं भगवानिति कश्चिन्न बुध्यते ॥२१॥न वै माता न च द्रष्टा न ज्ञाता नैव पार्श्वगः ।न स्मावगच्छते कश्चिदृते तं देवमीश्वरम् ॥२२॥नभः क्षितिं पवनमथ प्रकाशयन्प्रजापतिं भुवनचरं सुरेश्वरम् ।पितामहं श्रुतिनिलयं महामुनिंशशास भूः शयनमरोचयत् प्रभुः ॥२३॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP