संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकोनषष्टितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकोनषष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनषष्टितमोऽध्यायः Translation - भाषांतर वृषपर्वणः निष्कुम्भेन विश्वेदेवेन सार्द्धं, प्रह्रादस्य कालेन सार्द्धं घोरयुद्धस्य वर्णनम्वैशम्पायन उवाचवृषपर्वा तु दैत्येन्द्रो विश्वमद्भुतदर्शनम् ।निष्कुम्भं योधयामास लोहितार्कसमद्युतिम् ॥१॥क्रोधमूर्च्छितवक्त्रस्तु धुन्वन् परमकार्मुकम् ।धनूंषि प्रेक्ष्य शत्रूणां सारथिं त्वरितोऽब्रवीत् ॥२॥अत्रैव तावत् त्वरितं नय मे सारथे रथम् ।एते देवाश्च सहिता घ्नन्ति नः समरे बलम् ॥३॥एतान् निहन्तुमिच्छामि समरश्लाघिनो रणे॥एतैर्हि दानवानीकं कृतच्छिद्रमिदं महत् ॥४॥ततः प्रजविताश्वेन रथेन रथिनां वरः॥अरीनभ्यहनत् क्रुद्धः शरजालैर्महासुरः ॥५॥न स्थातुं देवताः शक्ताः किं पुनर्योद्धुमाहवे॥वृषपर्वेषुनिर्भिन्नाः सर्व एवाभिदुद्रुवुः ॥६॥तान् मृत्युवशमापन्नान् वैवस्वतवशं गतान्॥समीक्ष्य निहताञ्ज्ञातीनवतस्थे महासुरः ॥७॥दृष्ट्वा तं तत्र निष्कुम्भं सर्वे ते त्रिदशोत्तमाः ।समेत्य सहिताः सर्वे द्रुतं तं पर्यवारयन् ॥८॥व्यवस्थितं तु निष्कुम्भं दृष्ट्वा त्रिदशसत्तमम् ।बभूवुर्बलवन्तो वै तस्यास्त्रबलतेजसा ॥९॥वृषपर्वा तु शैलाभं निष्कुम्भं समरे स्थितम् ।महेन्द्र इव धाराभिः शरवर्षैरवाकिरत् ॥१०॥अचिन्तयित्वा तु शराञ्छरीरे पतितान् बहून् ।स्थितश्च प्रमुखे श्रीमान् ससैन्यः स महाबलः ॥११॥सम्प्रहस्य महातेजा वृषपर्वाणमाहवे ।अभिदुद्राव वेगेन कम्पयन्निव मेदिनीम् ॥१२॥तस्य त्वाधावमानस्य दीप्यमानस्य तेजसा॥बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥१३॥रथं त्यक्त्वा महातेजाः सक्रोधः समपद्यत॥वृक्षमुत्पाटयामास महातालं महोच्छ्रयम् ॥१४॥ततश्चिक्षेप तं वृक्षं निष्कुम्भो वृषपर्वणः ।तं गृहीत्वा महावृक्षं पाणिनैकेन दानवः ॥१५॥विनद्य सुमहानादं भ्रामयित्वा च वीर्यवान्॥सगजान् सगजारोहान् सरथान् रथिनस्तथा ॥१६॥जघान दानवस्तेन शाखिना त्रिदशांस्तदा॥तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ॥१७॥वृषपर्वाणमासाद्य त्रिदशा विप्रदुद्रुवुः ।तमापतन्तं संक्रुद्धं त्रिदशानां भयावहम् ॥१८॥आलोक्य धन्वी निष्कुम्भश्चुक्रोध च ननाद च ।स तत्र निशितैर्बाणैस्त्रिंशद्भिर्मर्मभेदिभिः ॥१९॥निर्बिभेद महावीर्यो निष्कुम्भो दानवाधिपम्॥शरशक्तिभिरुग्राभिदैत्यानामधिपोऽप्यमुम् ॥२०॥विद्धः स रणमध्यस्थो रुधिरं प्रास्रवद् बहु॥उद्विग्ना मुक्तकेशास्ते भग्नदर्पाः पराजिताः ॥२१॥श्वसन्तो दुद्रुवुः सर्वे भयाद् वै वृषपर्वणः॥अन्योन्यं प्रममन्थुस्ते त्रासिता वृषपर्वणा ॥२२॥पृष्ठवक्त्राः सुसंविग्नाः प्रेक्षमाणा मुहुर्मुहुः॥त्यक्तप्रहरणाः सर्वे कृतास्ते वृषपर्वणा ॥२३॥संग्रामे युद्धशौण्डेन तदा निष्कुम्भसैनिकाः॥तत्रैव तु महावीर्यः प्रह्लादः कालमाहवे ॥२४॥योधयामास रकाक्षो हिरण्यकशिपोः सुतः॥तस्य दानववीरस्य युद्धकाले जयक्रियाः ॥२५॥चकार त्वरया युक्तो भार्गवो विजयावहाः॥हुताशनं तर्पयतो ब्राह्मणांश्च नमस्यतः ॥२६॥आज्यगन्धप्रतिवहो मारुतः सुरभिर्ववौ॥स्रजश्च विविधाश्चित्रा जयार्थमभिमन्त्रिताः ॥२७॥प्रह्लादस्य शुभे मूर्धन्याबबन्धोशनाः स्वयम्॥कालेन सह संग्रामे प्रयुद्धस्य महात्मनः ॥२८॥प्रह्लादस्यातिवीर्यस्य शान्ति चक्रे स भार्गवः॥दश शिष्यसहस्राणि भार्गवस्य महात्मनः ॥२९॥यानि दानववीराणां जेपुः शान्तिमनुतमाम् ।अथवणमथो दिव्यं ब्रह्मसंस्तवचोदितम् ॥३०॥ततः सर्वास्त्रविदुषः समरेष्वनिवर्तिनः ॥३१॥विद्यया तपसा युक्ताः कृतस्वस्त्ययनक्रियाः ।धनुर्हस्ताः कवचिनो वेगेनाप्लुत्य दानवाः॥बलिमभ्यर्च्य राजानं प्रह्लादं पर्यवारयन् ॥३२॥आस्थाय परमं दिव्यं रथं पररथारुजम्॥नानाप्रहरणाकीर्णं सवज्रमिव पर्वतम् ॥३३॥तद् बभूव मुहूर्तेन क्ष्वेडितास्फोटिताकुलम् ।मेरोः शिखरमाकीर्णं द्यौरिवाम्बुधरागमे ॥३४॥स्रजः पद्मपलाशानामामुच्य सुविभूषिताः ।बान्धवान् सम्परित्यज्य निपतन्ति रणप्रियाः ॥३५॥महायुधधरः श्रीमाञ्छुभचर्मधरः प्रभुः॥सतनुत्रशिरस्त्राणो धन्वी परमदुर्जयः ॥३६॥सिंहशार्दूलदर्पाणां गदतां किङ्किणीकिनाम् ।दैत्यानां च सहस्राणि प्रयान्त्यग्रे महारणे ॥३७॥सैन्यपक्षहितास्तस्य रथाः परमदुर्जयाः ।सप्ततिर्वै सहस्राणि गजास्तावन्त एव च ॥३८॥मध्ये व्यूहोदरस्थस्तु कालनेमिर्महासुरः॥धनुर्विस्फारयन् घोरं ननाद प्रजहास च ॥३९॥तस्मिञ्छतसहस्राणि पुरो यान्ति महाद्युतेः॥दानवानां बलवतां शक्रप्रतिमतेजसाम् ॥४०॥स समं वर्तमानस्तु पक्षाभ्यां विस्तृतो महान् ।अभवद् दानवव्यूहो दुर्भेद्यः सर्वदैवतैः ॥४१॥षष्टी रथसहस्राणि दानवानां धनुर्भृताम् ।नानाप्रहरणानां च परिमाणं न विद्यते ॥४२॥गदापरिघनिस्त्रिशैः शूलमुद्गरपट्टिशैः॥प्रगृहीतैर्व्यराजन्त दानवाः पर्वतोपमाः ॥४३॥गर्जन्तो निनदन्तश्च विक्रोशन्तः पुनः पुनः॥अयुध्यन्त महावीर्याः समरेष्वनिवर्तिनः ॥४४॥तत्र तूर्यसहस्राणि भेरीशङ्खरवाणि च ।हयानां च गजानां च गर्जतामतिवेगिनाम् ॥४५॥दुन्दुभीनां च निर्घोषः पर्जन्यनिनदोपमः ।शुश्रुवे शङ्खशब्दश्च पटहानां च निःस्वनः ॥४६॥तेन शङ्खनिनादेन भेरीतूर्यरवेण च ।निर्घोषेण रथानां च क्रोशतीव नभस्तलम् ॥४७॥सागरप्रतिमौघेन बलेन महता वृतः॥प्रह्लादोऽयुध्यत रणे कालान्तकयमोपमः ॥४८॥तस्य नादेन रौद्रेण घोरेणाप्रतिमौजसः ।विनेदुः सर्वभूतानि त्रैलोक्यनिकृतैः स्वनैः ॥४९॥अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ॥वमन्त्यः पावकं घोरं शिवाश्चैव ववाशिरे ॥५०॥प्रह्लादस्तु महावीर्यः प्रहसन् युद्धदुर्मदः ।उवाच वचनं श्रीमांस्तत्कालक्षममुत्तमम् ॥५१॥अद्याहं दर्शयिष्यामि स्वबाहुबलमूर्जितम् ।अद्य मद्बाणनिहतान् देवान् द्रक्ष्यथ संयुगे ॥५२॥बान्धवा निहता येषां त्रिदशैरिह संयुगे॥अद्य निर्वर्तयिष्यन्ति शत्रुमांसानि दानवाः ॥५३॥इममद्य समुद्भूतं रेणुं समरमूर्धनि ।अहं तु शमयिष्यामि शत्रुशोणितविस्रवैः ॥५४ ॥|तिमिरौघहतार्कं तु सैन्यरेण्वरुणीकृतम् ।आकाशं सम्पतिष्यन्ति खद्योता इव मे शराः ॥५५॥हृष्टाः सम्परिमोदध्वं देवेभ्यस्त्यज्यतां भयम् ।अद्याहं निहनिष्यामि कालेन्द्रं धनुषा रणे ॥५६॥तोषयिष्यामि राजानं बलिं बलवतां वरम् ।त्रिदशान् सगणान् हत्वा रणे चान्तकमन्तिकात् ॥५७॥अक्षयाः सन्ति मे तूणाः शराश्चाशीविषोपमाः॥स्थातुं मे पुरतः शक्ताः के रणे जीवितेप्सवः ॥५८॥हत्वा रिपुगणांस्तुष्टिरनुरागश्च राजसु॥हतस्य त्रिदिवे वासो नास्ति युद्धसमा गतिः ॥५९॥तद् भयं पृष्ठतः कृत्वा रणे दानवसत्तमाः॥निहत्येमानरीन् सर्वान् मोदध्वं नन्दने वने ॥६०॥एवमुक्त्वा महत्सैन्यं प्रह्लादो दानवोत्तमः ।कालसैन्यं महारौद्रं तरसामर्दतासुरः ॥६१॥सर्वास्त्रविद्वान् वीरश्च नित्यं चाप्यपराजितः ।युद्धे ह्यभिमुखो नित्यं स्वबाहुबलदर्पितः ॥६२॥षष्टिं रथसहस्राणि विविधायुधधारिणीम् ।प्रह्लादस्यातिवीर्यस्य ते तस्य तनया निजाः ॥६३॥तैस्तु क्रतुशतैरिष्टं विपुलैराप्तदक्षिणैः॥क्षान्ता धर्मपरा नित्यं सत्यव्रतपरायणाः ॥६४॥दातारः प्रियवक्तारो वक्तारः शास्त्रवस्तुषु ।स्वदारनिरता दान्ता ब्रह्मण्याः सत्यसङ्गराः ॥६५॥यष्टारः क्रतुभिर्नित्यं नित्यं चाध्ययने रताः ।इष्वस्त्रकुशलाः सर्वे बहुशो दृढविक्रमाः ॥६६॥मत्तवारणविक्रान्ताः शत्रुसैन्यप्रमर्दकाः ।दारयन्तः पदाक्षेपैः सुघोरान् वातरेचकान् ॥६७॥युद्धोत्सुकधिया नित्यं क्रोधरञ्जितलोचनाः॥संदष्टौष्ठपुटा दैत्या विनेदुर्भीमविक्रमाः ।क्ष्वेडितास्फोटितरवैरन्योन्यं समहर्षयन् ॥६८॥वेणुशङ्खरवैश्चैव सिंहनादैश्च पुष्कलैः ।आप्लुत्याप्लुत्य सहसा रणे वव्रुरनेकशः ॥६९॥तालमात्राणि चापानि विकृष्य सुमहाबलाः॥अमृष्यमाणाः सहसा दानवाश्चापपाणयः ॥७०॥सुरासुरैरप्यजितं योधयन्ति रणेऽन्तकम्॥प्रतप्तहेमाभरणाः सर्वे ते श्वेतवाससः ॥७१॥दानवा मानिनः सर्वे सर्वे स्वर्गाभिकाङ्क्षिणः ।सर्वे जयैषिणो वीराः सर्वे शत्रुवधोद्यताः ॥७२॥शुशुभे सा चमूर्दीप्ता पताकाध्वजमालिनी॥गजाश्वरथसंबाधा स्वर्गमार्गाभिकाङ्क्षिणी ॥७३॥ततः कालः सुनिर्यातो भीमो भीमपराक्रमः ।निनदन् सुमहाकायो व्याधिभिर्बहुभिर्वृतः ॥७४ ॥ ददर्श महतीं सेनां दानवानां बलीयसाम्॥अभिसंजातदर्पाणां कालं समभिगर्जताम् ॥७५॥तदायान्तं तदानीकं दानवानां तरस्विनाम् ।प्रतिलोमं चकाराशु व्याधिभिः सहितोऽन्तकः ॥७६॥प्रविश्य ध्वजिनीं चैषां पातयामास दानवान् ।कालो रुधिररक्ताक्षः स्वेनानीकेन संवृतः ॥७७॥प्रह्लादबलमत्युग्रं प्रह्लादं च महाबलम् ।आजघान रणे कालो दण्डमुद्गरपट्टिशैः ॥७८॥शरशक्त्यृष्टिखड्गांश्च शूलानि मुसलानि च ।गदाश्च परिघाश्चैव विचित्राश्च परश्वधाः ॥७९॥धनूंषि च विचित्राणि शतघ्नीश्च स्थिरायसीः ।पात्यन्ते व्याधिभिर्युद्धे दानवानां चमूमुखे ॥८०॥बहवो व्याधयो युद्धे बहूनसुरपुङ्गवान् ।व्याधीनपि च दैत्यौघा निजघ्नुर्बहवो बहून् ॥८१॥शूलैः प्रमथिताः केचित् केचिच्छिन्नाः परश्वधैः ।परिघैराहताः केचित् केचिच्च परमायुधैः ॥८२॥केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि॥व्याधयो दानवैरेव नानाशस्त्रैर्विदारिताः ॥८३॥ते चापि व्याधिभिः सर्वे विविधैरायुधोत्तमैः ।खड्गैश्च मुसलैस्तीक्ष्णैः प्रासतोमरमुद्गरैः ।भिन्नाश्च दानवाः सर्वे निकृत्ताश्च परश्वधैः ॥८४॥मुद्गरैः पट्टिशैश्चैव व्याधिभिश्च महाबलैः॥कृत्वा शस्त्रैरनेकैश्च मुष्टिभिश्च हता भृशम् ॥८५॥वेमुः शोणितमन्योन्यं विष्टब्धदशनेक्षणाः॥आर्तस्वरं च नदतां सिंहनादं च गर्जताम् ॥८६॥बभूव तुमुलः शब्दः संग्रामे लोमहर्षणे ।मुष्टिभिश्चोत्तमाङ्गानि तलैर्गात्राणि चासकृत् ॥८७॥सादितानि महीं जग्मुस्तिष्ठतामेव संयुगे ।अस्त्रफेना ध्वजावर्ता च्छिन्नबाहुमहोरगा ॥८८॥शूलशक्तिमहामत्स्या चापग्राहसमाकुला॥रथेषोपलसम्बाधा ध्वजदुमलतावृता ॥८९॥सशब्दघोषविस्तारा लोहितोदाभवन्नदी ।स्वधनुःशक्रधनुषौ काञ्चनाङ्गदविद्युतौ ॥९०॥तौ दैत्यकालजलदौ शरधारां व्यमुञ्चताम्॥तौ महामेघसंकाशौ रथनागगतौ तदा ॥९१॥बभूवतुरभिक्रुद्धौ साम्बुगर्भाविवाम्बुदौ ।तप्तकाञ्चनसंनाहौ दिव्यहारविभूषितौ ॥९२॥तौ विरेजतुरायस्तौ सूर्यवैश्वानरोपमौ ।तौ महाबलसंकाशावन्योन्यस्य चमूमुखे ॥९३॥शक्राशनिसमस्पर्शैर्बाणैर्जघ्नतुराहवे ।परस्परं समासाद्य तयोर्युधि दुरासदे ॥९४॥नाशंसन्त तदा योधा जीवितान्यपि संयुगे ।शरैर्विभिन्नसर्वाङ्गा युधि प्रक्षीणबान्धवाः॥निपेतुर्योधमुख्यास्तु रुधिरोक्षितवक्षसः ॥९५॥पतितैर्निष्पतद्भिश्च पात्यमानैश्च संयुगे ।बभूव भूः समाकीर्णा योधैरुद्गतजीवितैः ॥९६॥संगृह्णतोः शरान् घोरान्न च संदधतोस्तयोः ।अन्तरं ददृशे कश्चित् प्रयत्नादपि संयुगे ॥९७॥लघुत्वाच्च महाबाहू युद्धशौण्डौ महाबलौ ।मण्डलीभूतधनुषौ सकृदेव बभूवतुः ॥९८॥प्रह्लादस्य च बाणौघैर्दुद्रावान्तकवाहिनी॥उह्यमानं बलवता वायुनेवाभ्रमण्डलम् ॥९९॥हतदर्पं तु विज्ञाय प्रह्लादः कालमाहवे ।अपयातं च समरे द्विषन्तं सम्प्रतर्क्य तम् ॥१००॥मत्वा वशगतं चैव प्रह्लादो युद्धदुर्मदः ।तत्रैवान्यां चमूं भूयः सम्ममर्द महासुरः ॥१०१॥कालप्रह्लादयोर्युद्धमभवद् यादृशं पुरा ।तादृशं सर्वलोकेषु न भूतं न भविष्यति ॥१०२॥एवमद्भुतवीर्यौजा महारणकृतव्रणः ।प्रह्लादस्त्वथ वृद्धोऽत्र कालस्त्वपसृतो रणात्॥१०३॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने देवासुरयुद्धे कालप्रहादयुद्धे एकोनषष्टितमोध्यायः ॥५९॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP