संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| त्रयोविंशत्यधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - त्रयोविंशत्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयोविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य विचक्रेण सह घोरं युद्धं, विचक्रस्य वधम् ।वैशम्पायन उवाचएतस्मिन्नन्तरे राजन् द्वन्द्वयुद्धमवर्तत ।विचक्रं योधयामास शार्ङ्गधन्वा गदाधरः ॥१॥बलभद्रोऽथ हंसेन डिम्भकेन च सात्यकिः ।वसुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः ॥२॥शेषाश्च शेषै राजेन्द्र चकुर्युद्धमदीनगाः ।वासुदेवस्त्रिसप्तत्या दैत्यं वक्षस्यताडयत् ॥३॥शरैर्निशितधारात्रैर्विस्मयं दर्शयन् रणे ।दानवो देवदेवेशं दृढेन निशितेन च ॥४॥शरेणाकर्णमाकृष्य धनुःप्रवरमीश्वरम् ।जघान स्तनमध्ये च पश्यतस्तु शचीपतेः ॥५ ।तेन विद्धोऽथ भगवान् वक्षोदेशे जनार्दनः ।अवमच्छोणितं विष्णुरादिकाले यथा प्रजाः ॥६॥ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहनद् ध्वजम् ।अश्वांश्च चतुरो हत्वा सारथिं च शरैस्त्रिभिः ॥७॥ततो दध्मौ महाशङ्खं यथा तारामये रणे ।रथादुत्प्लुत्य सहसा दानवः क्रोधमूर्च्छितः ॥८॥गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीम् ।तया जघान दैत्येन्द्रः किरीटे केशवस्य ह ॥९॥ललाटे च पुनर्विष्णुं सिंहनादं व्यनीनदत् ।ततः शिलां च महतीं प्रगृह्य दनुजः किल ॥१०॥भ्रामयित्वा दशगुणं प्राहरत् केशवोरसि ।तामापतन्तीं सम्प्रेक्ष्य हस्तेनादाय केशवः ॥११॥जघान च तया दैत्यं स पपातार्दितः क्षितौ ।गतासुरिव संजज्ञे श्वसन्निव पपात ह ॥१२॥प्राप्य संज्ञां ततो दैत्यः क्रोधाद् द्विगुणमाबभौ ।आदाय परिघं घोरमिदमाह जनार्दनम् ॥१३॥अनेन तव गोविन्द दर्पजातं निहन्म्यहम् ।विक्रमज्ञस्तदा चासि मम देवासुरे रणे ॥१४॥तावेव विपुलौ बाहू स एवास्मि जनार्दन ।तथापि युध्यसे वीर ज्ञात्वा त्वं मामकं बलम् ॥१५॥वारयैनं महाबाहो परिघं बाहुनिःसृतम् ।इत्युक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् ।चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः ॥१६॥तं गृह्य बाहुना कृष्णो हतोऽसीति वदन् हरिः ।खण्डशः कारयामास खङ्गेन निशितेन ह ॥१७॥उत्पाट्य वृक्षं दैत्येशः शतशाखं महाशिखम् ।तेन सम्पोथयामास विष्टरश्रवसं विभुम् ॥१८॥छित्त्वा तं चापि खड्गेन तिलशश्च चकार ह ।विक्रीड्य सुचिरं विष्णुस्तेन दैत्येन माधवः ॥१९॥हन्तुमैच्छत् तदा दैत्यमादाय निशितं शरम् ।आग्नेयास्त्रेण संयोज्य जघानैनं महान् हरिः ॥२०॥संदह्य स शरो दैत्यं सर्वलोकस्य पश्यतः ।यथापूर्वं जगामाशु करं भगवतः पुनः ॥२१॥हतशिष्टास्ततो दैत्याः पलायन्तो दिशो दश ।अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम् ॥२२॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णस्योत्कर्षे त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP