संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
त्रयस्त्रिंशदधिकशततमोऽध्यायः

भविष्यपर्व - त्रयस्त्रिंशदधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


त्रिपुरवधस्य कथा

जनमेजय उवाच
त्र्यक्षाद् वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
त्रयाणां पुरसंज्ञानां खेचराणां समासतः ॥१॥
वैशम्पायन उवाच
शृणु विस्तरतः सर्वं यन्मां पृच्छसि नैधनम् ।
दैत्यानां बाहुबलिनां सर्वप्राणिविरोधिनाम् ॥२॥
शंकरेण वधं राजञ्शूलैस्त्रिभिरजिह्मगैः ।
कृतं पुरासुरेन्द्राणां सर्वभूतवधैषिणाम् ॥३॥
त्रिपुरं पुरुषव्याघ्र वृहद्धातुसमीरितम् ।
विक्रामति नभोमध्ये मेघवृन्दमिवोत्थितम् ॥४॥
प्राकारेण प्रवृद्धेन काञ्चनेन विराजता ।
मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः ॥५॥
बभासे नभसो मध्ये श्रिया परमया ज्वलत् ।
गन्धर्वाणामिवोदग्रं कर्मणा साधितं पुरम् ॥६॥
वाजिनः पक्षसंयुक्ता वहन्ति बलदर्पिताः ।
पुरं प्रभाकरश्रेष्ठं मनोभिः कामबृंहणैः ॥७॥
धावन्ति ह्रेषमाणास्ते विक्रमैः प्राणसम्भृतैः ।
आहूयत इवाकाशं खुरैः श्यामदलप्रभैः ॥८॥
वायुवेगसमैर्वेगैः कालयन्त इवाम्बरम् ।
असुराः समदृश्यन्त चक्षुर्भिर्विदितात्मभिः ॥९॥
ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।
गीतवादित्रबहुलं गन्धर्वनगरोपमम् ॥१०॥
चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः ।
भवनैर्बहुभिश्चैव प्रांशुभिः समलंकृतैः ॥११॥
देवेन्द्रभवनाकारैः शुशुभे तन्महाद्युति ।
प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः ॥१२॥
शुशुभे दैत्यनगरं बहुसूर्यमिवाम्बरम् ।
वराट्टालकसम्पन्नं तप्तकाञ्चनसप्रभम् ॥१३॥
प्रदीप्तमिव तेजोभी रराजाथ महाप्रभो ।
क्ष्वेडितोत्क्रुष्टबहुलं सिंहनादविनादितम् ॥१४॥
बभौ वल्गुजनाकीर्ण वनं चैत्ररथं यथा ।
समुच्छ्रितपताकं तदसिभिश्च विराजितम् ॥१५॥
रराज त्रिपुरं राजन् महाविद्युदिवाम्बरे ।
सूर्यनाभश्च दैत्येन्द्रश्चन्द्रनाभश्च भारत ॥१६॥
तथान्ये च महावीर्या दानवा बलदर्पिताः ।
ममृदुश्च बभञ्जुश्च मोहिताः परमेष्ठिना ॥१७॥
पन्थानं देवगमनं पितृयानं च भारत ।
तैरेवमसुराग्रैश्च प्रगृहीतशरासनैः ॥१८॥
दानवैर्नरशार्दूल देवयाने महापथे ।
पितृवह्नियलोपेते हृते भरतसत्तम ॥१९॥
ब्रह्माणमभ्यधावन्त सर्वे सुरगणास्तथा ।
विवर्णवदना दीनाश्छिन्ने वै गतिकर्मणि ॥२०॥
अब्रुवंश्च गताः स्थित्वा स्वरेणार्तनिनादिना ।
हन्यामहे शत्रुगणैर्भागोच्छेदेन भागद ॥२१॥
तेषां चैव वधोपायं वदस्व वदतां वर ।
यं ज्ञात्वा बाहुबलिनो बाधेम समरे परान् ॥२२॥
सान्त्वयित्वा तु वरदो ब्रह्मा प्रोवाच देवताः ।
शृणुध्वं देवताः सर्वाः शत्रुप्रतिकृतिं पराम् ॥२३॥
अवध्या दानवाः सर्वे ऋते शंकरमव्ययम् ।
प्रतिगृह्य च तद् वाक्यं मनोभिर्वाग्भिरेव च ॥२४॥
भूमौ प्रपेदिरे सर्वे सह रुद्रैश्च भारत ।
विन्ध्यपादे च मेरौ च मध्ये च पृथिवीतले ॥२५॥
तपसोग्रेण योगज्ञा सर्वे ते मुनयोऽभवन् ।
काश्यपेयं हरं प्राप्ता जपन्तो ब्रह्मसंहिताम् ॥२६॥
तेषां च परदाराणामभवद् वन्ध्यता जने ।
विन्यस्तदर्भनिचये ताम्रलोहं च भूषणम् ॥२७॥
परिधानानि चर्माणि मृदूनि च शुभानि च ।
स्वयं मृतानां कृष्णानां मृगाणां कुरुसत्तम ॥२८॥
गृहीतानि विमुक्तानि देहेभ्यो वनचारिणाम् ।
अन्तरिक्षमथोपेत्य विविशुर्माययाऽऽवृताः ॥२९॥
हरालयं सुराः सर्वे व्याघ्रचर्भनिवासिनः ।
प्रणिपत्याथ ते दीना भगवन्तं जगत्पतिम् ॥३०॥
सुव्यक्तेनाभिधानेन प्रभाषन्त हरं ततः ।
हविर्दत्तमविज्ञानाद् भस्मच्छन्नेषु वह्निषु ॥३१॥
वरदानं वृथास्मासु भगवन् विमुखे त्वयि ।
यथादेशं यथाकालं क्रियतां ब्रह्मणो वचः ॥३२॥
यदुक्तं देवदेवेन खेचराणां समीपतः ।
एवं देववचोभिश्च भाविनोऽर्थस्य वैभवात् ॥३३॥
समनह्यन्महादेवो देवैः सह सवासवैः ।
आदित्यपथमास्थाय संनद्धाः समलंकृताः ॥३४॥
सर्वे काञ्चनवर्णाभा बभुर्दीप्ता इवाग्नयः ।
रुद्रेण सहिता रुद्रा दहन्त इव तेजसा ॥३५॥
संनद्धाः कुशलाः सर्वे प्रांशवः पर्वता इव ।
विश्वे विश्वेन वपुषा बलिनः कामरूपिणः ॥३६॥
समनह्यन्महात्मानो दानवान्तं विधित्सवः ।
एभिः सहधनाध्यक्षैः समन्तात् परिवारितः ॥३७॥
त्रिपुरं योधयत् त्र्यक्षः प्रगृह्य सशरं धनुः ।
अथ दैत्या भिन्नदेहाः पुराट्टालं गता इव ॥३८॥
न्यपतन्त विदेहास्ते विशीर्णा इव पर्वताः ।
अ तिविद्धाः सुविद्धाश्च रणमध्यगता नृप ॥३९॥
न्यपतन् दैत्यसंघाता वज्रेणेव हता नगाः ।
असिभिश्च हता देवैः शक्तिचक्रपरश्वधैः ॥४०॥
बाणैश्च भिन्नमर्माणो दैत्येन्द्रा युद्धगोचरे ।
प्रपेतुः सहिता उर्व्यां छिन्नपक्षा इवाचलाः ॥४१॥
तत्र संज्ञां विमुञ्चन्ति दीप्यमानेन तेजसा ।
एवं तेऽन्योन्यसम्बाधे क्षीयन्ते क्षयकर्मणा ॥४२॥
नोपालभ्यन्त चक्षुर्भ्यामपि दिव्येन चक्षुषा ।
अस्तं प्राप्ते दिनकरे सुरेन्द्रास्ते निशामुखे ।
छिन्नभिन्नक्षतमुखा निपेतुर्वसुधातले ॥४३॥
अथ दैत्या जयं प्राप्ता निशायां निशितैः शरैः ।
विनेदुर्विपुलैर्नादैर्मेघा इव महारवाः ॥४४॥
जयप्राप्त्यासुराश्चैव तेऽन्योन्यमभिजल्पिरे ।
त्रासितास्त्रिदशाः सर्वे संग्रामजयकाङ्क्षिणः ॥४५॥
अस्माभिर्बलसम्पन्नैः सह प्रासासितोमरैः ।
विरेजुश्च जयं प्राप्ता उशनोहव्यबोधिताः ॥४६॥
समरे ब लसम्पन्नाः सायुधा दैत्यसत्तमाः ।
सुरैश्च सहितः सर्वै रथमास्थाय शंकरः ॥४७॥
दर्पितान् निनदन् दैत्यान् प्रदहन्निव तेजसा ।
युगान्तकाले वितते रश्मिवानिव निर्दहन् ॥४८॥
सर्वभूतानि भूताग्र्यः प्रलये समुपस्थिते ।
स रथो वाजिभिः शीघ्रैरुह्यमानो मनोजवैः ॥४९॥
विबभौ नभसो मध्यं सविद्युदिव तोयदः ।
वृषभेण .ध्वजाग्रेण गर्जमानेन भारत ॥५०॥
भाति स्म स रथो राजन्सेन्द्रायुध इवाम्बुदः ।
ततोऽम्बरगताः सिद्धास्तुष्टुवुर्वृषभध्वजम् ॥५१॥
कर्मभिः पूर्वजं पूर्वैः शुचिभिस्त्र्यम्बकं तदा ।
ऋषयश्च तपःशान्ताः सत्यव्रतपरायणाः ॥५२॥
अमृतप्राशिनश्चैव सुरसंघास्तथैव च ।
गन्धर्वाप्सरसश्चैव गान्धर्वेण स्वरेण वै ॥५३॥
प्रहृष्टवदनाः सौम्याः पैत्र्ये स्थानान्तरे नृप ।
चयाट्टालकसम्पन्ने शतघ्नीशतसंकुले ॥५४॥
तस्मिंस्तु दैत्यनगरे सर्वभूतभयावहे ।
ततस्तु शरवर्षाणि मुमुचुर्दैत्यदानवाः ॥५५॥
सुराणामरयो मध्ये तीक्ष्णाग्राणि समन्ततः ।
शतघ्नीभिश्च निघ्नन्तो भल्लैः शूलैश्च भारत ॥५६॥
ते चक्रिरे महत्कर्म दानवा युद्धकोविदाः ।
गदाभिश्च गदा जघ्नुर्भल्लैर्भल्लांश्च चिच्छिदुः ॥५७॥
अस्त्रैरस्त्राण्यबाधन्त माया मायाभिरेव च ।
ततोऽपरे समुद्यम्य शरशक्तिपरश्वधान् ॥५८॥
अशनींश्च महाघोरानमुञ्चन्त सहस्रशः ।
असिभिर्मायाविहितैर्मृत्योर्विषयगोचरे ॥५९॥
ते वध्यमाना विबुधाः शरवर्षैरवस्थिताः ।
गन्धर्वनगराकारः सोऽसीदत् सहरो रथः ॥६०॥
हन्यमानोऽसुरगणैः प्रासासिशरतोमरैः ।
तैश्च दैत्यप्रहरणैर्गुरुभिर्भारसाहिभिः ।
चित्रैश्च बहुभिः शस्त्रैरतिष्ठत शचीपतिः ॥६१॥
ततो मध्ये दिव्यशब्दः प्रादुरासीन्महीपते ।
ऋषीणां ब्रह्मपुत्राणां महतामपि भारत ॥६२॥
स एष शंकरस्याग्रे रथो भूमिं प्रतिष्ठितः ।
अजेयो जय्यतां प्राप्तः सर्वलोकस्य पश्यतः ॥६३॥
तस्मिन्निपतिते राजन् रथानां प्रवरे रथे ।
निपेतुः सर्वभूतानि भूतले वसुधाधिप ॥६४॥
विचेलुः पर्वताग्राणि चेलुश्चैव महाद्रुमाः ।
विचुक्षुभुः समुद्राश्च न रेजुश्च दिशो दश ॥६५॥
वृद्धाश्च ब्राह्मणास्तत्र जेपुश्च परमं जपम् ।
यत्तद् ब्रह्ममयं तेजः सर्वत्र विजयैषिणाम् ॥६६॥
शान्त्यर्थं सर्वभूतानामिह लोके परत्र च ।
समाधायात्मनाऽऽत्मानं योगप्राप्तेन हेतुना ॥६७॥
रथन्तरेण साम्नाथ ब्रह्मभूतेन भारत ।
तेजसा ज्वलयन्विष्णोस्त्र्यक्षस्य च महात्मनः ॥६८॥
सर्वेषां चैव देवानां बलिनां कामरूपिणाम् ।
ऋषीणां तपसाऽऽढ्यानां वसतां विजने वने ॥६९॥
अथ विष्णुर्महायोगी सर्वतोदृश्य तत्त्वतः ।
वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम् ॥७०॥
समाक्रान्तं देवगणैः समग्रबलपौरुषैः ।
बलवांस्तोलयित्वा तु विषाणाभ्यां महाबलः ।
ननाद प्राणयोगेन मथ्यमान इवार्णवः ॥७१॥
तृतीयं वायुविषयं समाक्रम्य विषाणवान् ।
ननाद बलवान् नादं समुद्र इव पर्वणि ॥७२॥
ततो नादेन वित्रस्ता दैतेया युद्धदुर्मदाः ।
पुनस्ते कृतसन्नाहा युयुधुः सुमहाबलाः ॥७३॥
सर्वे वै बाहुबलिनः समर्थबलपौरुषाः ।
सुरसैन्यं प्रमर्दन्तः प्रगृहीतशरासनाः ॥७४॥
अग्निं संधाय धनुषि शितं बाणं सुपत्रिणम् ।
ब्रह्मास्त्रेणाभिसंयोज्य ब्रह्मदण्डं शिवोऽव्ययः ।
मुमोच दैत्यनगरे त्रिधाशब्देन संज्ञितम् ॥७५॥
तं बाणं त्रिविधं वीर्यात् संधाय मनसा प्रभुः ।
सत्येन ब्रह्मयोगेन तपसोग्रेण भारत ॥७६॥
मुमोच दैत्यनगरे सर्वप्राणहराञ्छरान् ।
दीप्तान्कनकवर्णाभान् सुवर्णांश्च सुनिर्मलान् ॥७७॥
मुक्त्वा वरशरान् घोरान् सविषानिव पन्नगान् ।
सुप्रदीप्तैस्त्रिभिर्बाणैर्वेगिभिस्तद्विदारितम् ॥७८॥
शरघातप्रदीप्तानि विन्ध्याग्राणीव भारत ।
गोपुराणि पुरैः सार्धं व्यशीर्यन्त नराधिप ॥७९॥
अग्निना सम्प्रदीप्तानि वह्निगर्भाणि भारत ।
धरणीं सम्प्रपद्यन्त पुराणि वसुधाधिप ॥८०॥
तानि वैदूर्यवर्णानि शिखराणि गिरेरिव ।
शंकरेण प्रदग्धानि ब्रह्मास्त्रेणापतन्नृप ॥८१॥
हते च त्रिपुरे देवैर्वाचो हर्षात् किलेरिताः ।
सर्वाञ्जहीति शत्रूंस्त्वं प्रवृद्धान् पुरुषोत्तम ॥८२॥
विष्णुरेव महायोगी योगेन प्रस्मयन्निव ।
स्तूयते ब्रह्मसदृशैर्ऋषिभिः शंकरेण च ।
ब्रह्मणा सहितैर्देवैः सम्पन्नबलपौरुषैः ॥८३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि त्रिपुरवधे त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥१३३॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP