संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| षड्विंशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - षड्विंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षड्विंशोऽध्यायः Translation - भाषांतर मधोः विष्णोश्च घोरं युद्धं, देवेभिः ऋषिभिश्च श्रीविष्णोः स्तुतिः, हयग्रीवरूप धारकस्य विष्णुना मधोः वधं, पृथिव्या मेदिनी नाम प्राप्तिःवैशम्पायन उवाचबलवान् स तु दैतेयो मधुर्भीमपराक्रमः ।बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे ॥१॥तं वै प्रह्लादवचनाल्लक्षणज्ञश्च भारत ।ऐश्वर्यमैन्द्रमाकाङ्क्षन्भविष्यं बुद्धिसंक्षयात् ॥२॥बद्ध्वेन्द्रं सहसा मध्ये पाशैर्मर्मविवर्जितैः ।आयसैर्बहुभिश्चित्रैर्बलवद्भिर्विदारणैः ॥३॥विष्णुमेवाग्रणी रुद्रमाह्वयद् युद्धकोविदः ।मध्ये गणानां सर्वेषां कालस्य वशमागतः ॥४॥द्वैधीभूताः काश्यपेया मधोर्वशमुपागताः ।युद्धार्थमभ्यधावन्त प्रगृह्य विपुला गदाः ॥५॥गन्धर्वाः किंनराश्चैव वाद्ये गीते च कोविदाः ।प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः ॥६॥तन्त्रीभिः सुप्रयुक्ताभिर्मधुराभिः स्वभावतः ।मनो मधोर्विधुन्वन्ति युध्यमानस्य रागिणः ॥७॥मधोर्बलार्थं मधुनो नियोगात् पद्मयोनिनः ।एतान्विकरान्कुर्वन्ति गन्धर्वाः सत्यवादिनः ॥८॥तत्र शक्तो हिं गान्धर्वे तस्मिञ्छब्दे मधुर्मनः ।दानवाश्चासुराश्चैव प्रत्यक्षं यान्ति प्राणदन् ॥९॥मधोश्च मन आक्षिप्य पश्यन् योगेन चक्षुषा ।मन्दरं प्रयते विष्णुर्गूढोऽग्निरिव दारुषु ॥१०॥ऋषयो दीप्तमनसं किंचिद् व्यथितमानसाः ।पितामहं पुरस्कृत्य क्षणेनान्तरधीयत ॥११॥विष्णुं सोऽभ्यहनत् क्रुद्धो मधुर्मधुनिभेक्षणः ।भुजेन शङ्खदेशान्ते न चकम्पे पदात्पदम् ॥१२॥विष्णुश्चाभ्यहनद् दैत्यं कराग्रेण स्तनान्तरे ।स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन् ॥१३॥न चैनं पतितं हन्ति विष्णुर्युद्धविशारदः ।बाहुयुद्धे हि समयं मत्वाचिन्त्यपराक्रमः ॥१४॥इन्द्रध्वज इवोत्तिष्ठञ्जानुभ्यां स महीतलात् ।मधु रोषपरीतात्मा निर्दहन्निव चक्षुषा ॥१५॥परुषाभिस्ततो वाग्भिरन्योन्यमभिगर्जतुः ।समीयतुर्बाहुयुद्धे परस्परवधैषिणौ ॥१६॥उभौ तौ बाहुबलिनावुभौ युद्धविशारदौ ।उभौ च तपसा शान्तावुभौ सत्यपराक्रमौ ॥१७॥दृढप्रहारिणौ वीरावन्योन्यं विचकर्षतुः ।शैलेन्द्राविव युद्ध्यन्तौ पक्षैः पाषाणसंनिभैः ॥१८॥विकर्षन्तौ वमन्तौ च अन्योन्यं वसुधातले ।गजाविव विषाणाग्रैर्नखाग्रैश्च विचेरतुः ॥१९॥ततो व्रणमुखैश्चैव सुस्राव रुधिरं बहु ।ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम् ॥२०॥संसिक्तौ रुधिरौघैश्च स्रवद्भिः समरंजितौ ।अथाद्यतैः पदाग्रैश्च तौ व्यदारयतां महीम् ॥२१॥अभिहत्य तु तौ वीरौ परस्परमनैकधा ।पतङ्गाविव युध्येतां पक्षाभ्यां मांसगृद्धिनौ ॥२२॥शुश्रुवुश्चान्तरिक्षेऽथ सर्वभूतानि पुष्करे ।सिद्धानां वदनोन्मुक्ताः परया वर्णसम्पदा ॥२३॥स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे ।शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च ॥२४॥तद् ब्रह्म इन्द्रियैर्युक्तं तेजोभूतं सनातनम् ।ध्रुवं तिष्ठन्ति भूतास्ते सूक्ष्मे प्रलयतां गते ॥२५॥पुनश्चोद्भवते सूक्ष्मं बहुरूपमनेकधा ।प्रबोध्य भावं भूतानां त्रिषु लोकेषु कामदः ॥२६॥सुरूपो बहुरूपांस्ताँल्लोकान् संचरते वशी ।मानसीं तनुमास्थाय बहुभिः कारणान्तरैः ॥२७॥योगात्मा धारयन्नुर्वीं नागात्मानं दिवंधरः ।ब्रह्म भूतं परं चैव सूक्ष्मेणात्मानमीश्वरः ॥२८॥ब्राह्मेण विप्रान् वसति युद्धेनैव च क्षत्रियान् ।प्रदानकर्मणा वैश्याञ्छूद्रान् परिचरेण च ॥२९॥गावः क्षीरप्रदानेन अश्वान् यज्ञेषु प्रोक्षणैः ।पितरश्चोष्मणैवेह हविर्भागेन देवताः ॥३०॥चतुर्भिर्व्यतिरिक्ताङ्गैस्त्रिभिरन्यैश्च धातुभिः ।सप्तभिः पितृभिर्नित्यैस्त्रीँल्लोकान् परिरक्षति ॥३१॥चन्द्रसूर्यात्मकं नित्यं यथात्मनिहतात्मकम् ।प्रकाश चाप्रकाशं च निगूढं स्वेन तेजसा ॥३२॥त्रयस्तु पितरो नित्यं वर्धयन्ति दिवाकरम् ।चतुर्भिः पितृभिश्चैव चन्द्रो वर्धति मण्डले ॥३३॥त्रयः पितृगणा नित्यं पिण्डान् पश्चाददन्ति ते ।चत्वारोऽन्ये पितृगणाः सिद्धाः पञ्च क आददे ॥३४॥त्वमेव पञ्च तान्धर्मांस्त्वमेवापञ्च तान्विभो ।सनातनमयो दिव्यः शाश्वतो ब्रह्मसम्भवः ॥३५॥यस्मात्त्वत्तेज आदत्ते अग्निर्वायुश्च सर्वशः ।अतस्त्वं कर्मणा तेन आदित्यः समपद्यत ॥३६॥यदादत्सि जगत् सर्वं रश्मिभिः प्रदहन्निव ।युगान्तकाले सम्प्राप्ते परां सिद्धिमुपागतः ॥३७॥पक्षसंधावमावास्यां लोकं चरसि मानुषम् ।ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसम्भवैः ॥३८॥सफलं कर्म कर्तॄणां यजतां पुष्टिवर्धनः ।हेतूनामविकाराय मा भूत् कर्मविपर्ययः ॥३९॥वनस्पत्यौषधीश्चैव युगपत् प्रतिपद्यसे ।बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥४०॥भूतानां भुवि भूतेश भाव्यर्थे वसुधातले ।वसु यद् भुवि किंचिच्च सर्वं तत्त्वन्मयं विभो ॥४१॥त्वमेव विविधं धर्मं शाश्वतं वसुधातले ।देवयज्ञं मन्त्रवाक्यमात्मयज्ञं समानुषम् ॥४२॥द्विविधः स्वर्गमार्गश्च सूर्यश्चन्द्रश्च निर्मलः ।चन्द्रमाः पितृयानश्च देवयानश्च भास्करः ॥४३॥त्वमेव वसुधायुक्तो विश्वं चरसि सीमया ।एकीकृत्य गणान्सर्वान् संक्षिप्यामुत्र सम्भवः ॥४८॥एकस्त्वमसि सम्भूतः पुराणपुरुषो विराट् ।अक्षयश्चाप्रमेयश्च कर्मकारकरो वशी ॥४५॥मूर्तस्तेजसि सम्भूतो वायुः पर्येति खेचरः ।सप्तभी रूपसंस्थानैर्नित्यमावृत्य तिष्ठति ॥४६॥साधने चापि निर्वाणे संहारे प्रलये तथा ।धाता धारणकाले च दिशश्चक्षुषि धारिणि ॥४७॥सेव्यमानो मुनिगणैर्नित्यं विगतकिल्बिषैः ।कर्मभिः सत्यमापन्नैः समरागैर्जितेन्द्रियैः ॥४८॥स्तूयमानश्च विबुधैः सिद्धैर्मुनिवरैस्तथा ।सस्मार विपुलं देहं हरिर्हयशिरो महान् ॥४९॥कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः ।शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः ॥५०॥आदित्यरश्मयो बालाश्चक्षुषी शशिभास्करौ ।जङ्घे तु वसवः साध्याः सर्वसंधिषु देवताः ॥५१॥जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती ।मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः ॥५२॥एवं कृत्वा तथा रूपं सुराणामद्भुतं महत् ।असुरं पीडयामास क्रोधाद् रक्तान्तलोचनः ॥५३॥मधोर्मेदोऽम्बुपूर्णा च पृथिवी समदृश्यत ।प्रमदेव घना चैव शुक्लांशुकनिवासिनी ॥५४॥मेदिनीत्येव शब्दश्च लब्धः पृष्ट्या नरोत्तम ।नामासुरसहस्रेण धरण्यां सम्प्रतिष्ठितम् ॥५५॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP