संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकषष्टितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकषष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकषष्टितमोऽध्यायः Translation - भाषांतर वरुणस्य विप्रचित्तेः सार्द्धं युद्धं पराजयं चवैशम्पायन उवाचविप्रचित्तिस्तु वरुणं दैत्यानामादिरव्ययम् ।जघानेषुगणैः क्रुद्धो दीप्तैरिव महोरगैः ॥१॥स दह्यमानो दैत्येन दीप्तैः शरगभस्तिभिः ।नाभ्यजानत कर्तव्यं संग्रामे स जलेश्वरः ॥२॥सर्वलोकेश्वरस्येव परमेष्ठी प्रजापतिः ।न शक्नोत्यग्रतः स्थातुं विप्रचित्तेर्जलाधिपः ॥३॥वज्रो नाम महाव्यूहो निर्भयः सर्वतोमुखः ।तं व्यूह्य प्रत्ययुध्यन्त दानवा देववाहिनीम् ॥४॥वह्निज्वालासमं तत्र रविमण्डलसंनिभम् ।मुखमाभाति दैत्यस्य विप्रचित्तेर्महात्मनः ॥५॥वरुणस्तु महातेजा विप्रचित्तिं महासुरम् ।प्रदहन्निव तेजोभिर्जिगीषुः प्रत्यवैक्षत ॥६॥स्रग्दाममालाभरणः केयूराङ्गदभूषणः ।जग्राह परिघं दैत्यः कैलासशिखरोपमम् ॥७॥पिनद्धं काञ्चनैः पट्टैर्हेममालिनमायसम् ।यमदण्डोपमं घोरं दैत्यानां भयनाशनम् ॥८॥भ्रामयामास संक्रुद्धो महाशक्रध्वजोपमम् ।विननाद विवृत्तास्यो विप्रचित्तिर्महासुरः ॥९॥स कण्ठस्थेन निष्केण भुजस्थैरपि चाङ्गदैः ।कुण्डलाभ्यां विचित्राभ्यां भ्राजते काञ्चनस्रजा ॥१०॥दानवो भूषणैर्भाति परिघेणायसेन च ।यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥११॥प्रस्फुरन् परिघास्त्रेण वातस्कन्धान्महास्वनः ।जज्वाल च सधूमार्चिः साङ्कर्षण इवानलः ॥१२॥विद्याधरगणैः सार्धं गन्धर्वनगरैरपि ।सह चैवामरावत्या सिद्धलोकैस्तथा सह ॥१३॥ग्रहनक्षत्रसहितं सार्कचन्द्रविभूषितम् ।दैत्येन्द्रपरिघोद्धूतं भ्रमतीव नभस्तलम् ॥१४॥दुरासदः सुसंजज्ञे परिघाभरणक्षमः ।सुरेन्धनोऽसुरेन्द्राग्निर्युगान्ताग्निरिवोत्थितः ॥१५॥त्रिदशा वरुणश्चैव न शेकुः स्पन्दितुं भयात् ।तत्रासीन्निर्भयस्त्वेकः कौशिको वासवः प्रभुः ॥१६॥भास्करप्रतिमं घोरं परिघं रौद्रदर्शनम् ।पातयामास सेनायां जलेशस्य स दानवः ॥१७॥पतता तेन संग्रामे जलेशस्य महात्मनः ।भूतानां शतसाहस्रं परिघेण समाहतम् ।तेषां गात्राणि चासाद्य व्यशीर्यन्त सहस्रशः॥१८॥विशीर्यमाणं विबभावुल्काशतमिवाम्बरे ।भूयश्चैनं तदाऽऽभ्राम्य वरुणाय न्यपातयत् ॥१९॥पात्यमाने तदा तस्मिञ्छरीरे वारुणे तदा ।स भिन्नः परिघो घोरो देवगात्रे व्यशीर्यत ॥२०॥शीर्यमाणस्य चूर्णानि खद्योता इव चाम्बरे ।स तु तेन प्रहारेण न चचाल जलाधिपः ॥२१॥परिघेण हतः संख्ये यथा वज्रहतोऽचलः ।स्वसैन्येष्वपि भग्नेषु भिन्नदेहेषु चाहवे ॥२२॥मुहूर्तमगमत् क्षोभमपाम्पतिरमर्षणः ।सोऽमर्षं च समापन्नो वरुणोऽमितविक्रमः ॥२३॥सर्वसंहारमकरोत् स्वपक्षस्यारिमर्दनः ।स सागरैश्चतुर्भिश्च वृतो दीप्तैश्च पन्नगैः ॥२४॥शङ्खमुक्तामणिचितो बिभ्रत्तोयमयं वपुः ।पाण्डुरोद्भूतवसनो नानारत्नविभूषितः ॥२५॥वरुणः पाशधृक्छ्रीमान् कूर्ममीनसमाकुलः ।वरुणस्तु तदा क्रुद्धस्तान्निरीक्ष्य स्वसैनिकान् ॥२६॥उवाच दृष्ट्वा युध्यध्वं दानवानां जिघांसया ।अहमेनं हनिष्यामि भयं मुक्त्वा तु युध्यत ॥२७॥ततस्ते पन्नगाः सर्वे महार्णवजलाश्रयाः ।जघ्नुर्दैत्यान् रणमुखे नदन्तो जयगृद्धिनः ॥२८॥ते तु नालीकनाराचैर्गदाभिर्मुसलैस्तथा ।अभ्यघ्नन् दानवान् हृष्टा मुदिता वरुणानुगाः ॥२९॥विप्रचित्तिस्तु संक्रुद्धो महाबलपराक्रमः ।पन्नगानां शरीराणि व्यधमद् युद्धदुर्मदः ॥३०॥गरुडेनापि चास्त्रेण पन्नगान् दानवोत्तमः ।समरे घातयामास गरुडैः पन्नगाशनैः ॥३१॥स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः ।पन्नगान् समरे वीरः प्रममाथ सुदुर्जयान् ॥३२॥समरे भिन्नगात्रास्ते पन्नगाः शरपीडिताः ।पेतुर्मथितसर्वाङ्गा गजा इव महागजैः ॥३३॥तपन्तं तमिवादित्यं दीप्तैर्बाणगभस्तिभिः ।अभ्यधावत संक्रुद्धः समरे वरुणः प्रभुः ॥३४॥ततस्तु दानवास्तत्र भिन्नदेहाः सहस्रशः ।व्यथिता विद्रवन्ति स्म दिशो दश विचेतसः ॥३५॥इन्द्रस्यार्थे पराक्रम्य वरुणस्त्यक्तजीवितः ।विनर्दमानो युयुधे समरे पाशभृद्वरः ॥३६॥वरुणः पन्नगाश्चैव मुष्टिभिः समरोत्कटाः ।अभ्यवर्तन्त समरे विप्रचित्तिं महासुरम् ॥३७॥ततोऽस्त्रैश्च शिलाभिश्च प्राहरत् स बलोत्कटः ।व्यपोहत महातेजा विप्रचित्तिर्महासुरः ॥३८॥ततः पावकसंकाशैः स मुक्तैः शीघ्रगामिभिः ।वरुणस्य महावेगान् बिभेद समरे हयान् ॥३९॥कर्मणा तेन महता विप्रचित्तेर्महात्मनः ।अग्नेराज्याहुतस्येव तेजः समभिवर्धत ॥४०॥स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ।वारुणीं तां महासेनां निर्ममन्थ महाबलः ॥४१॥क्षीणास्त्रां सायकाक्रान्तां शरजालेन मोहिताम् ।शूलशक्त्यृष्टिभिन्नां च चकार रुधिरोक्षिताम् ॥४२॥स शेरैर्वह्निसंकाशैः सुमुक्तैर्नतपर्वभिः ।वरुणस्य महावेगान् बिभेद समरे हयान् ॥४३॥अभिद्रुतोऽथ दैत्येन ससैन्यः सलिलाधिपः ।महेन्द्रं शरणं प्राप्तो विप्रचित्तेर्भयार्दितः ॥४४॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने वरुणविप्रचित्तियुद्धे एकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP