संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| अशीतितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - अशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अशीतितमोऽध्यायः Translation - भाषांतर घण्टाकर्णेन भगवतः श्रीकृष्णेन च अन्योन्यं परिचयदानं, घण्टाकर्णेन भगवतः विष्णोः स्तवनं समाधिलाभं च ।वैशम्पायन उवाचततः स भगवान् विष्णुः पिशाचौ मांसभक्षकौ ।ददर्शाथ महाघोरौ दीपिकाधारिणौ हरिः ॥१॥विलोकयांचक्रतुस्तौ पिशाचौ देवकीसुतम् ।स्थितं सुखासने विष्णुं दृष्ट्वा लोकेश्वरेश्वरम् ॥२॥तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह ।ततस्तावूचतुर्विष्णुमन्तरीकृत्य केशवम् ॥३॥कौ भवान् कस्य वा मर्त्य कुतश्चागम्यते त्वया ।किमर्थमिह सम्प्राप्तो वने घोरे मृगाकुले ॥४॥निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते ।श्वापदैः सेव्यमाने च विपिने व्याघ्रसंकुले ॥५॥सुकुमारोऽनवद्याङ्गः साक्षाद् विष्णुरिवापरः ।पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम् ॥६॥अस्मत्प्रीतिकरः साक्षात् प्राप्तो विष्णुरिवापरः ।देवो वा यदि वा यक्षो गन्धर्वः किन्नरोऽपि वा ॥७॥इन्द्रो वा धनदो वापि यमोऽथ वरुणोऽपि वा ।एकाकी विपिने घोरे ध्यानार्पितमना इव ॥८॥ब्रूहि मर्त्य यथातत्त्वं ज्ञातुमिच्छामि मानद ।एवं पृष्टः पिशाचाभ्यामाह विष्णुरुरुक्रमः ॥९॥क्षत्रियोऽस्मीति मामाहुर्मानुष्याः प्रकृतिस्थिताः ।यदुवंशे समुत्पन्नः क्षात्रं वृत्तमनुष्ठितः ॥१०॥लोकानामथ पातास्मि शास्ता दुष्टस्य सर्वदा ।कैलासं गन्तुकामोऽस्मि द्रष्टुं देवमुमापतिम् ॥११॥इत्येवं मम वृत्तान्तः कथ्यतां कौ युवामिति ।युवामिह समायातौ किमर्थं ब्राह्मणाश्रमम् ॥१२॥एषा हि महती पुण्या नानाविप्रनिषेविता ।बदरीयं समाख्याता न क्षुद्रैराश्रिता क्वचित् ॥१३॥तपस्विभिस्तपोयुक्तैर्जुष्टा सिद्धनिषेविता ।श्वगणा नात्र दृश्यन्ते पिशाचा मांसभोजनाः ॥१४॥न हन्तव्या मृगाश्चात्र मृगया नात्र वर्तते ।न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर्न नास्तिकैः ॥१५॥अहमस्य तु देशस्य रक्षिता नात्र संशयः ।व्यतिक्रमो यदि भवेत्तस्य शास्तास्मि यत्नतः ॥१६॥कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः ।नातः परं प्रवेष्टव्यमृषयस्त्वत्र संस्थिताः ॥१७॥विघ्नस्तत्र प्रवर्तेत तपःसु च तपस्विनाम् ।इहैव स्थीयतां तावद् वक्तव्यं च ततः सुखम् ॥१८॥अन्यथाहं निषेद्धा स्यां बलाद्वाक्यैस्तथैव च ।वैशम्पायन उवाचएवं पृष्टौ पिशाचौ तु वक्तुमेवोपचक्रतुः ॥१९॥तयोरेको महाघोरः पिशाचो दीर्घबाहुकः ।उवाच वचनं तत्र यथा हृदि समर्पितम् ॥२०॥पिशाच उवाचश्रूयतामभिधास्यामि समातितमना भव ।नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम् ॥२१॥आदिदेवमजं विष्णुं वरेण्यमनघं शुचिम् ।वक्ष्यामि सकलं यद्वत्तथा शृणु यदीच्छसि ॥२२॥घण्टाकर्णोऽस्मि नाम्नाहं पिशाचो घोरदर्शनः ।मांसादो विकृतो घोरः साक्षान्मृत्युरिवापरः ॥२३॥धनदस्यानुगन्ताहं साक्षाद् रुद्रसखस्य च ।ममायमनुजः साक्षादन्तकस्यान्तको ह्ययम् ॥२४॥मृगयेयं सुमहती विष्णोः पूजार्थमित्युत ।ममेयं वर्तते सेना श्वगणोऽपि ममैव तु ॥२५॥आगतोऽहं महाशैलात् कैलासाद् भूतसेवितात् ।अहं पिशाचवेषेण संविष्टः पापकर्मकृत् ॥२६॥सततं दूषयन् विष्णुं घण्टामाबध्य कर्णयोः ।मम न प्रविशेन्नाम विष्णोरिति विचिन्तयन् ॥२७॥अहं कैलासनिलयमासाद्य वृषभध्वजम् ।आराध्य तं महादेवमस्तुवं सततं शिवम् ॥२८॥ततः प्रसन्नो मामाह वृणीष्वेति वरं हरः ।ततो मुक्तिर्मया तत्र प्रार्थिता देवसंनिधौ ॥२९॥मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः ।मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः ॥३०॥तस्माद् गत्वा च बदरीं तत्राराध्य जनार्दनम् ।मुक्तिं प्राप्नुहि गोविन्दान्नरनारायणाश्रमे ॥३१॥इत्युक्तो देवदेवेन शूलिना ज्ञातवानहम् ।तमेव परमं मत्वा गोविन्दं गरुडध्वजम् ॥३२॥तस्मात् प्रार्थयमानः सन्मुक्तिं देशममुं गतः ।अन्यच्च शृणु मे कार्यं यदि कौतूहलं तव ॥३३॥पुरी द्वारवती नाम पश्चिमस्योदधेस्तटे ।यदुवृष्णिसमाकीर्णां सागरोर्मिसमाकुलाम् ॥३४॥अध्यास्ते स हरिर्विष्णुस्तां पुरीं पुरुषोत्तमः ।द्रष्टुं लोकहितार्थाय वसन्तं द्वारकापुरे ॥३५॥निर्गतः साम्प्रतं मर्त्यं वयमेतैः सहानुगैः ।विष्णुः सर्वेश्वरः साक्षाद्द्रष्टव्योऽस्माभिरद्यवै ॥३६॥लोकानां प्रभवः पाता कर्ता हर्ता जगत्पतिः ।आदिः स हि समस्तस्य प्रभवः कारणं हरिः ॥३७॥कर्ता समस्तस्य हरिः पुरातनः प्रभुः प्रभूणामपि यः सदात्मकः ।तमादिदेवं वरदं वरेण्यं द्रष्टुं हरिं सम्प्रति संयताः स्मः ॥३८॥यस्य प्रसादाज्जगदेवमासीत् सप्राणिगन्धर्वमद्वोरगौघम् ।देवं जगद्योनिमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः ॥३९॥यस्योदराद् विश्वमिदं प्रभूतं लयं च तस्मिन् समुपैति कल्पे ।तस्यैव साक्षाद् वशवर्ति विश्वं द्रक्ष्याम देवं पुरुषोत्तमं हरिम् ॥४०॥स्रष्टा च योऽसौ सकलस्य देवः पाता च हर्ता च हरिः स एव ।द्रक्ष्याम नित्यं भुवनेश्वरं हरिं पुराणमाद्यं प्रभविष्णुमव्ययम् ॥४१॥अजस्य कर्ता भुवनस्य गोप्ता भुवश्च कर्ता हरिरेक एव ।तं योगिनो योगविशुद्धबुद्धिं लभेम तेनैव मतिः समाकुला ॥४२॥निगीर्य विश्वं सकलं जगत्पतिः शेते शिशुत्वं समवाप्य साक्षात् ।वटस्य पत्रे जगतां निवासः पादौ च विक्षिप्य करौ विधुन्वन् ॥४३॥यस्योदरे देवमुनिः पुरातनो ददर्श लोकानखिलान् स मायया ।प्रविश्य विश्वं सकलं यथावद् बहिर्यथाभूतमभूदिदं महत् ॥४४॥निगीर्य विश्वं जगदादिकाले शेते महात्मा जलधेर्जलौघे ।देव्या श्रिया चामरलोलहस्तया निषेव्यमाणः पुरुषोत्तमस्तदा ॥४५॥नाभेश्च यस्याविरभूत् सपत्रं पद्मं महत्काञ्चनसप्रभं प्रभोः ।जन्मास्पदं लोकगुरोर्यदासीद्विस्तारि पद्मं जगदादिसृष्टौ ॥४६॥दधार यो भूतपतिर्महान्महीं दंष्ट्राग्रसंस्थापितरूढमूलाम् ।नादं महामेघ इवादिकाले कुर्वन् वराहो मुनिगीतमूर्तिः ॥४७॥हरिः पुराणः पुरुषोत्तमः प्रभुः कर्ता समस्तस्य समस्तसाक्षी ।यज्ञात्मको यज्ञपतिर्जगत्पतिर्द्रष्टुं तमीशं वयमुद्यताः स्मः ॥४८॥केचिद् बहुत्वेन वदन्ति देवमेकात्मना केचिदिमं पुराणम् ।वेदान्तसंस्थापितसत्त्वयुक्तं द्रष्टुं तमीशं वयमुद्यताः स्मः ॥४९॥अनेकमेके बहुधा वदन्ति श्रुतिस्मृतिन्यायनिविष्टचित्ताः ।आहुर्यमात्मानमजं पुराविदो द्रष्टुं तमीशं वयमुद्यताः स्मः ॥५०॥यं प्राहुरीड्यं वरदं वरेण्यमेकान्ततत्त्वं मुनयः पुरातनाः ।यं सर्वगं देवमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः ॥५१॥यस्मिन् विश्वमिदं प्रोतमादिकाले जगत्पतौ ।तं द्रष्टुमभिसंवृत्ताः किं नु वक्ष्याम साम्प्रतम् ॥५२॥गच्छामो वयमन्यत्र गच्छ त्वं काममन्यतः ।नियमोऽप्यस्ति नो मर्त्य यथेष्टं गच्छ साम्प्रतम् ॥५३॥रात्रिमध्यमनुप्राप्तं नात्र कार्या विचारणा ।इत्युक्त्वा घोररूपोऽसौ पिशाचो विकृताननः ॥५४॥तस्मिन्नेव समे देशे पीत्वा च रुधिरं बहु ।भक्षयित्वा यथाकामं मांसराशिं विचक्षणः ॥५५॥अपः संस्पृश्य तत्रैव पार्श्वे संस्थाप्य साधनम् ।अन्त्रपाशं महाघोरं संस्थाप्य विपुलं महत् ॥५६॥आसनं कुशसंयुक्तं कृत्वा चाभ्युक्ष्य वारिणा ।उत्सार्य श्वगणान् सर्वान् यत्नेन महता तदा ॥५७॥सुखासनं समास्थाय समाधौ यतते श्वपः ।एकचित्तस्तदा भूत्वा नमस्कृत्य च केशवम् ।इमं मन्त्रं पठन् घोरः पिशाचो भक्तवत्सलम् ॥५८॥नमो भगवते तस्मै वासुदेवाय चक्रिणे ।नमस्ते गदिने तुभ्यं वासुदेवाय धीमते ॥५९॥ओं नमो नारायणाय विष्णवे प्रभविष्णवे ।मम भूयान्मनःशुद्धिः कीर्तनात् तव केशव ॥६०॥जन्मेदमीदृशं घोरं मा भून्मम दुरासदम् ।देवदूतो भविष्यामि स्मरणात् तव गोपते ॥६१॥तव चक्रप्रहारेण कायो नश्यतु मामकः ।मम भूयो भवो मा भूदेषा मे प्रार्थना विभो ॥६२॥अर्थिनां कल्पवृक्षोऽसि दाता सर्वस्य सर्वदा ।यत्र यत्र भवेज्जन्म तत्र तत्र भवान् हृदि ॥६३॥वर्ततां मम देवेश प्रार्थनैषा ममापरा ।नमस्तुभ्यं नमस्तुभ्यं भवत्वेवं सदा मम ॥६४॥निर्विघ्ना प्रार्थना देव नमस्तेऽस्तु सदा मम ।यदा मे मरणं भूयात्तदा मा भूत्स्मृतिभ्रमः ॥६५॥दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्विति ।एवं प्रेरय मां देव मा भूत् ते चित्तमीदृशम् ॥६६॥नृशंसोऽयं पिशाचोऽयं दयास्मिन् का भवेदिति ।एवं चिन्तय मां देव भृत्यो मह्यमिति प्रभो ॥६७॥परपीडा न मत्तोऽस्तु नमस्ते भगवन् प्रभो ।इन्द्रियाणीन्द्रियार्थेषु मा भूवन्साम्प्रतं हि मे ॥६८॥अन्तकाले ममाप्येवं प्रसादात् तव केशव ।पृथिवी यातु मे घ्राणं रसनां यातु मे पयः ॥६९॥सूर्यश्च यातु मे चक्षुः स्पर्शं यातु च मारुतः ।श्रोत्रमाकाशमप्येतु मनः प्राणं च गच्छतु ॥७०॥जलं मां रक्षतां नित्यं पृथिवी रक्षतां हरे ।सूर्यो मां रक्षतां विष्णो नमस्ते सूर्यतेजसे ॥७१॥वायुर्मां रक्षतां दुःखादाकाशं च जनार्दन ।न मनः सर्वगं देव रक्षतां विषयान्तरे ॥७२॥मनो विपर्यये घोरे पुरुषान् हन्ति नित्यशः ।पापेषु योजयेत् पुंसः परपीडात्मकेषु च ॥७३मनस्तद् रक्षतां देव भूयो भूयो जनार्दन ।मा भून्मनसि कालुष्यं मनो मे निर्मलं भवेत् ॥७४॥कलुषं तस्य यच्चित्तं नरके पातयत्यमुम् ।बाह्यानि निर्मलान्येवमिन्द्रियाणि भवन्त्युत ॥७५॥न तानि कार्यवन्तीह मनश्चेत्कलुषं भवेत् ।नाङ्गानां मुष्टिनामेध्यं गृहीत्वा यो व्यवस्थितः ॥७६॥बहिः प्रक्षालनं कुर्वन् किं भवेत् तस्य केशव ।व्यर्थो हि केवलं तस्य प्रग्रहो बाह्यगोचरः ॥७७॥तस्मात् सर्वप्रयत्नेन चित्तं रक्ष जनार्दन ।वलवानिन्द्रियग्रामो वारयैनं जनार्दन ॥७८॥परीवादाज्जगन्नाथ वाचं रक्ष दुरुद्वहाम् ।परद्रव्यान्मनो रक्ष परदाराज्जनार्दन ।सर्वत्र मे दया भूयात् प्रसादात् तव केशव ॥७९॥त्वय्येव भक्तिरचला भूयाद् भूतेषु मे दया ।बहुनात्र किमुक्तेन शृणुष्वेदं वचो मम ॥८०॥सुखे दुःखे च रागे च भोजने गमने तथा ।जाग्रत्स्वप्नेषु सर्वत्र त्वय्येव रमतां मनः ॥८१॥मामकं देवदेवेश नमस्तेऽस्तु जनार्दन ।इति ब्रुवन् घोरतमो जात्या हीनो न चित्ततः ॥८२॥पिशाचो भगवद्भक्तः समाधिं समपद्यत ।दृढं बद्ध्वाऽऽत्मनः कायमान्त्रपाशेन मांसपः ॥८३॥निश्चलेनैव मनसा सुखमास्ते स्म संयतः ।ध्यायन्हरिं जगद्योनिं विष्णुं पीताम्बरं शिवम् ॥८४॥मुकुन्दमादिपुरुषमेकाकारमनामयम् ।नित्यं शुद्धं ज्ञानगम्यं कारणं सर्वदेहिनाम् ॥८५॥नासिकाग्रं समालोक्य पठन् ब्रह्म सनातनम् ।निर्वातस्थो यथा दीपः प्रोच्चरन् प्रणतः सदा ॥८६॥प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः ।एकाग्रं सततं कृत्वा चित्तं विष्णौ समर्पितम् ॥८७॥विकल्परहितं चित्तं हृदि मध्ये न्यवेशयत् ।पुण्डरीके शुभदले समावेश्य जगत्पतिम् ॥८८॥आस्ते सुखं महायोगी पिशिताशस्तदा महान् ।त्रिधामानं जपंस्तत्र स्मरन् विष्णुं सनातनम् ॥८९॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायांघण्टाकर्णचित्तसमाधावशीतितमोऽध्यायः ॥८०॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP