संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| नवतितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - नवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण नवतितमोऽध्यायः Translation - भाषांतर भगवता शंकरेण द्वारा श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य कैलासात् बदरिकाश्रमे प्रत्यागमनम्वैशम्पायन उवाचततः स भगवान्रुद्रः सर्वान्विस्मापयन्निव ।स्तुत्या प्रचक्रमे स्तोतुं विष्णुं विश्वेश्वरं हरिम् ।अर्थ्याभिस्तु तदा वाग्भिर्मुनीनां शृण्वतां तथा ॥१॥महेश्वर उवाचनमो भगवते तुभ्यं वासुदेवाय धीमते ।यस्य भासा जगत् सर्वं भासते नित्यमच्युत ॥२॥नमो भगवते देव नित्यं सूर्यात्मने नमः ।यः शीतयति शीतांशुर्लोकान् सर्वानिमान् विभुः ॥३॥नमस्ते विष्णवे देव नित्यं सोमात्मने नमः ।यः प्रजाः प्रीणयत्येको विश्वात्मा भूतभावनः ॥४॥नमः सर्वात्मने देव नमो वागात्मने हरे ।यो दधार करेणासौ कुशचीरादि यत् सदा ॥५॥दधार वेदान् सर्वांश्च तुभ्यं ब्रह्मात्मने नमः ।सर्वान् संहरते यस्तु संहारे विश्वदृक् सदा ॥६॥क्रोधात्मासि विरूपोऽसि तुभ्यं रुद्रात्मने नमः ।सृष्टौ स्रष्टा समस्तानां प्राणिनां प्राणदायिने ॥७॥अजाय विष्णवे तुभ्यं स्रष्ट्रे विश्वसृजे नमः ।आदौ प्रकृतिमूलाय भूतानां प्रभवाय च ॥८॥नमस्ते देवदेवेश प्रधानाय नमो नमः ।पृथिव्यां गन्धरूपेण संस्थितः प्राणिनां हरे ॥९॥दृढाय दृढरूपाय तुभ्यं गन्धात्मने नमः ।अपां रसाय सर्वत्र प्राणिनां सुखहेतवे ॥१०॥नमस्ते विश्वरूपाय रसाय च नमो नमः ।तेजसा भास्करो यस्तु घृणिर्जन्तुहितः सदा ॥११॥तस्मै देव जगन्नाथ नमो भास्कररूपिणे ।वायोः स्पर्शगुणो यत्र शीतोष्णसुखदुःखदः ॥१२॥नमस्ते वायुरूपाय नमः स्पर्शात्मने हरे ।आकाशेऽवस्थितः शब्दः सर्वश्रोत्रनिवेशनः ॥१३॥यो दधार जगत् सर्वं मायामानुषदेहवान् ॥१४॥नमस्तुभ्यं जगन्नाथ मायिनेऽमायदायिने ।नम आद्याय बीजाय निर्गुणाय गुणात्मने ॥१५॥अचिन्त्याय सुचिन्त्याय तस्मै चिन्त्यात्मने नमः ।हराय हरिरूपाय ब्रह्मणे ब्रह्मदायिने ॥१६॥नमो ब्रह्मविदे तुभ्यं ब्रह्मब्रह्मात्मने नमः ।नमः सहस्रशिरसे सहस्रकिरणाय च ॥१७॥नमः सहस्रवक्त्राय सहस्रनयनाय च ।विश्वाय विश्वरूपाय विश्वकर्त्रे नमो नमः ॥१८॥विश्ववक्त्रे नमो नित्यं भूतावास नमो नमः ।इन्द्रियायेन्द्ररूपाय विषयाय सदा हरे ॥१९॥नमोऽश्वशिरसे तुभ्यं वेदाभरणरूपिणे ।अग्नयेऽग्निपते तुभ्यं ज्योतिषां पतये नमः ॥२०॥सूर्याय सूर्यपुत्राय तेजसां पतये नमः ।नमः सोमाय सौम्याय नमः शीतात्मने हरे ॥२१॥नमो वषट्कृते तुभ्यं स्वाहास्वधास्वरूपिणे ।नमो यज्ञाय इज्याय हविषे हव्यसंस्कृते ।नमः स्रुवाय पात्राय यज्ञाङ्गाय पराय च ॥२२॥नमः प्रणवदेहाय क्षरायाप्यक्षराय च ।वेदाय वेदरूपाय शस्त्रिणे शस्त्ररूपिणे ॥२३॥गदिने खड्गिने तुभ्यं शङ्खिने चक्रिणे नमः ।शूलिने चर्मिणे नित्य वरदाय नमो नमः ॥२४॥बुद्धिप्रियाय बुद्धाय प्रबुद्धाय सुखाय च ।हरये विष्णवे तुभ्यं नमः सर्वात्मने गुरो ॥२५॥नमस्ते सर्वलोकेश सर्वकर्त्रे नमो नमः ।नभः स्वभावशुद्धाय नमस्ते यज्ञसूकर ॥२६॥नमो विष्णो नमो विष्णो नमो विष्णो नमो हरे ।नमस्ते वासुदेवाय वासुदेवाय धीमते ॥२७॥नमः कृष्णाय कृष्णाय सर्वावास नमो नमः ।नमो भूयो नमस्तेऽस्तु पाहि लोकान् जनार्दन ॥२८॥इति स्तुत्वा जगन्नाथमुवाच मुनिसत्तमान् ।इदं स्तोत्रमधीयाना नित्यं व्रजत केशवम् ॥२९॥शरण्यं सर्वभूतानां तत्र श्रेयो विधास्यति ।ये चेमं धारयिष्यन्ति स्तवं पापविमोचनम् ॥३०॥तेषां प्रीतः प्रसन्नात्मा पठतां शृण्वतां हरिः ।श्रेयो दास्यति धर्मात्मा नात्र कार्या विचारणा ॥३१॥अवश्यं मनसा ध्यात केशवं भक्तवत्सलम् ।श्रेयः प्राप्तुं यदीच्छन्ति भवन्तः शंसितव्रताः ॥३२॥इत्युक्त्वा भगवान् रुद्रस्तत्रैवान्तरधीयत ।सगणः शंकरः साक्षादुमया भूतभावनः ॥३३॥नेमुस्तं मुनयः सर्वे परां निर्वृतिमाययुः ।तमेव परमं तत्त्वं मत्वा नारायणं हरिम् ।विस्मयं परमं गत्वा मेनिरे स्वकृतार्थताम् ॥३४॥लोकपालास्तदा विष्णुं नमस्कृत्य हरिं मुदा ।जग्मुः स्वान्यथ वेश्मानि गणैः सर्वैर्नृपोत्तम ॥३५॥आरुह्य भगवान् विष्णुर्गरुडं पक्षिपुङ्गवम् ।शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणी तनुत्रवान् ॥३६॥यथागतं जगन्नाथो ययौ बदरिकामनु ।सायाह्ने पुण्डरीकाक्षो नित्यं मुनिनिषेविताम् ॥३७॥तत्र गत्वा यथायोगं विनम्य हरिरीश्वरः ।अर्चितो मुनिभिः सर्वैर्निषसाद सुखासने ॥३८॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां कृष्णप्रत्यागमने नवतितमोऽध्यायः ॥९०॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP