संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
पञ्चचत्वारिंशोऽध्यायः

भविष्यपर्व - पञ्चचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


दैत्येभिः कृतानां प्रहाराणां रचितानां मायानां च निष्फलता

वैशम्पायन उवाच
स्वराः खरमुखाश्चैव मकराशीविषाननाः ।
ईहामृगमुखाश्चान्ये वराहसदृशाननाः ॥१॥
बालसूर्यमुखाश्चैव धूमकेतुमुखास्तथा ।
चन्द्रार्धचन्द्रवक्त्राश्च प्रदीप्ताग्निमुखास्तथा ॥२॥
हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः ।
पञ्चास्या लेलिहानाश्च काकगृध्रमुखास्तथा ॥३॥
विद्युज्जिह्वास्त्रिशीर्षाश्च तथोल्कासंनिभाननाः ।
महाग्राहनिभाश्चान्ये दानवा बलदर्पिताः ॥४॥
कैलासवपुषस्तस्य शरीरे शरवृष्टयः ।
अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥५॥
एवं भूयोऽपरान् घोरानसृजन्दानवाः शरान् ।
मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः ॥६॥
ते दानवशरा घोरा मृगेन्द्राय समीरिताः ।
विलयं जग्मुराकाशे खद्योता इव पर्वते ॥७॥
ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।
मृगेन्द्रायाक्षिपन्त्याशु प्रज्वलन्तीव सर्वशः ॥८॥
तैरासीद् गगनं चक्रैः सम्पतद्भिः समावृतम् ।
युगान्ते सम्प्रकाशद्भिश्चन्द्रसूर्यग्रहैरिव ॥९॥
तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै ।
मेघोदरदरीं घोरां चन्द्रसूर्यग्रहा इव ॥१०॥
तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना ।
निगीर्णानि प्रदीप्तानि पावकार्चिःसमानि वै ॥११॥
हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् ।
शक्तिं प्रज्वलितां घोरां हुताशनसमप्रभाम् ॥१२॥
तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुत्तमाम् ।
हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥१३॥
रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले ।
सविस्फुलिङ्गा ज्वलिता महोल्केव नभश्च्युता ॥१४॥
नाराचपङक्तिः सिंहस्य सृष्टा रेजे विदूरतः ।
नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥१५॥
गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् ।
तत् सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः ॥१६॥
ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।
नगमात्रैः शिलाखण्डैर्गिरिकूटैर्महाप्रभैः ॥१७॥
तदश्मवर्षं सिंहस्य गात्रे निपतितं महत् ।
दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा ॥१८॥
तदश्मौघैर्दितिसुतास्तदा सिंहमरिंदमम् ।
प्राच्छादयन् यथा मेघा धाराभिरिव पर्वतम् ॥१९॥
न च तं चालयामासुर्दैत्यौघा देवमास्थितम् ।
भीमवेगा बलश्रेष्ठं समुद्रा इव पर्वतम् ॥२०॥
ततोऽश्मवर्षे निहते जलवर्षमनन्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ॥२१॥
नभसः प्रच्युता धारास्तिग्मवेगाः सहस्रशः ।
आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा ॥२२॥
धाराणां संनिपातेन वायोर्विस्फूर्जितेन च ।
वर्धता चैव वर्षेण न प्राज्ञायत किंचन ॥२३॥
धारा दिवि च संसक्ता वसुधायां च सर्वशः ।
न स्पृशन्ति स्म तं तत्र निपतन्त्योऽनिशं भुवि ॥२४॥
बाह्यतो ववृषे वर्षं नोपरिष्टात् तु तोयदः ।
मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥२५॥
हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।
ससृजुर्दानवा मायामग्निं वायुं च सर्वशः ॥२६॥
नभसः प्रच्युतश्चैव तिग्मवेगः समन्ततः ।
ज्वालामाली महारौद्रो दीप्ततेजाः समन्ततः ॥२७॥
स सृष्टः पावकस्तेन दैत्येन्द्रेण महात्मना ।
न शशाक महातेजा दग्धुमप्रतिमौजसम् ॥२८॥
तमिन्द्रस्तोयदैः सार्धं सहस्राक्षोऽमितद्युतिः ।
महता तोयवर्षेण शमयामास पावकम् ॥२९॥
तस्यां प्रतिहतायां तु मायायां युधि दानवाः ।
ससृजुर्घोरसंकाशं तमस्तीव्रं समन्ततः ॥३०॥
तमसा संवृते लोके दैत्येष्वात्तायुधेषु वै ।
स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥३१॥
त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥३२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे पञ्चचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP