संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| अष्टाविंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - अष्टाविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टाविंशोऽध्यायः Translation - भाषांतर ऋभुः - ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः । शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥१॥नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः । आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥२॥अजस्रसुखरूपोऽहं अजस्नानन्दरूपवान् । अहमेवादिनिर्मुक्त अहं कारणवर्जितः ॥३॥अहमेव परं ब्रह्म अहमेवाहमेव हि । इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥४॥सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह । सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥५॥सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः । सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥६॥जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः । ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥७॥चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि । अस्तित्वभावना निष्ठा जगदस्तित्ववाङ् मृषा ॥८॥अस्तित्ववक्ता ( क्तृ ) वार्ता हि जगदस्तीति भावना । स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥९॥महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः (?) । तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥१०॥नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः । दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥११॥अहमेव परं ब्रह्म अहमेव हि निष्कलः । अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥१२॥अहमेव हि दिव्यात्मा अहमेव हि केवलः । वाचामगोचरोऽहं वै अहमेव न चापरः ॥१३॥अहमेव हि सर्वात्मा अहमेव सदा प्रियः । अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥१४॥अहमेवापरिच्छिन्न अहमेव निरन्तरः । अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥१५॥अहमेव सदा साक्षी अहमेवाहमेव हि । नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥१६॥नाहं जडो न चिन्मात्रः क्कचित् किञ्चित् तदस्ति हि । नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥१७॥अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः । अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥१८॥अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः । सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात ॥१९॥परात् परतरं ब्रह्म परात् परतरः पुमान् । परात् परतरोऽहं वै सर्वस्मात् परतः परः ॥२०॥सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः । सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥२१॥सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः । सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥२२॥आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे । आत्मैंवाहमिति ज्ञात्वा आत्मारामो वसाम्यहम् ॥२३॥आत्मैंव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः । आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परभो ह्यहम् ॥२४॥अहमात्माऽहमात्माहमहमात्मा न लौकिकः । सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥२५॥एवं नित्यं भावयित्वा सदा भावय सिद्धये । सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा(?) ॥२६॥निश्चयं च लयं याति स्वयमेव सुखी भव ।शाखादिभिश्च श्रुतयो ह्यनन्ता - स्त्वामेकमेव भगवन् बहुधा वदन्ति ।विष्ण्विन्द्रधातृरविसून्वनलानिलादि भूतात्मानाथ गणनाथललाम शम्भो ॥२७॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP