संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
त्रयोविंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - त्रयोविंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
निदाघ श्रृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् । इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥१॥
नानाविधजनं लोकं नानाकारणकार्यकम् । ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥२॥
अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्माहमेव हि । कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥३॥
वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः । हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥४॥
सर्वोपनिषदो ब्रह्म साम्यं ब्रह्म समोऽस्म्यहम् । अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥५॥
त्रुटिर्ब्रह्म मनो ब्रह्म व्यष्टिर्ब्रह्म सदामुदः । इदं ब्रह्म परं ब्रह्म तत्वं ब्रह्म सदा जपः ॥६॥
अकारो ब्रह्म एवाहमुकारोऽहं न संशयः । मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥७॥
शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् । यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥८॥
रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः । कुंभकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥९॥
ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि । एवं च निश्चितो मुक्थ सद्य एव न संशयः ॥१०॥
केचिदेव महामूढाः द्वैतमेवं वदन्ति हि । न संभाष्याः सदानर्हा नमस्कारे न योग्यता ॥११॥
मूढा मूढतरास्तुच्छास्तथा मूढतमाः पर । एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥१२॥
सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् । अहनित्यपि नास्त्येव परमित्यपि न क्कचित् ॥१३॥
ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि । कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥१४॥
नित्यातीतमनित्यानाममितं ब्रह्म कवलम् । ब्रह्मैव नान्यद्यत्सर्वं सच्चिदानन्दमात्रकम् ॥१५॥
द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर । सर्वं ब्रह्मैव नान्योऽस्ति सर्व ब्रह्मैव केवलम् ॥१६॥
बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् । आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥१७॥
काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् । ब्रह्ममात्रेण संपश्यन् ब्रह्ममात्रपरो भव ॥१८॥
ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः । ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥१९॥
शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर । सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥२०॥
नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् । प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥२१॥
निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः । परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥२२॥
द्वैत्यस्य मात्रसिद्धोऽहं साम्राज्यपदलक्षणम् । इत्येवं निश्चयं कुर्वन् सदा त्रिषु यथासुखम् ॥२३॥
दृश्यनिश्चयरूपात्मा दृढनिश्चयसन्मयः । [ दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥२४॥
दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः । दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ] ॥२५॥
दृढनिश्चयजीवात्मा संशयं नाशमेष्यति । दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥२६॥
दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् । दृढनिश्चयमेवात्र कारणं मोक्षसंपदः ॥२७॥
एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् । ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥२८॥
आत्मानन्दस्वरूपोऽहं नन्यदस्तीति भावय । ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥२९॥
ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा । निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥३०॥
वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव । आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥३१॥
चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव । सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥३२॥
महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय । चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥३३॥
जीवतूष्णीं परित्यज्य जीवशून्यपरो भव । शून्यत्यागः परित्यज्य यथा तिष्टः तथासि भो ॥३४॥
तिष्ठत्वमपि सन्त्यज्य अवाङ्मनसगोचरः । ततः परं न वक्त्यव्यं ततः पश्येन्न किञ्चन ॥३५॥
नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय । सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणम् ॥३६॥
सदा तिष्ठस्व तत्वज्ञ सदा ज्ञानी सदा परः । सदानन्दः सदातीतः सदादोषविवर्जितः ॥३७॥
सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः । सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥३८॥
सदा ब्रह्म सदा मोदः सदानन्दः सदा परः । सदा स्वयं सदा शून्यः सदा मौनी सदाशिवः ॥३९॥
सदा सर्व सदा मित्रः सदा स्नानं सदा जपः । सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥४०॥
देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज । आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥४१॥
एवं स्थिते त्वं मुत्कोऽसि न तु कार्या विचारणा । ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥४२॥
अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः । प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥४३॥
दृढनिश्चयमेवं त्वं कुरु कल्याणमात्मनः । मनसो भूषणं ब्रह्म मनसो भूषणं पराः ॥४४॥
मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः । ब्रह्मैव सच्चिदानन्दः सच्चिदानन्दविग्रहः ॥४५॥
सच्चिदानन्दमखिलं सच्चिदानन्द एव हि । सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥४६॥
सच्चिदानन्दमद्वैतं सच्चिदानन्दशङ्करः । सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥४७॥
सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः । सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥४८॥
सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः । सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥४९॥
सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः । सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥५०॥
सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः । सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥५१॥
शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा । विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥५२॥
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् । इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥५३॥
सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते । वेदशास्त्रेण युक्तोऽपि ज्ञानभावाद् द्विजोऽद्विजः ॥५४॥
ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तुकाः । सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥५५॥
सोमापीडपदांबुजार्चनफलै र्भुक्त्यै भवान् मानसं
नान्यद्योगपथा श्रुतिश्रवणतः किं कर्ममि र्भूयते ।
युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां
किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥५६॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे रहस्योपदेशप्रकरणं नाम त्रयोविंशो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP