शङ्कराख्यः षष्ठोऽम्शः - एकत्रिंशोऽध्यायः
श्रीशिवरहस्यम्
ऋभुः -
वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् । सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥१॥
प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् । महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥२॥
मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् । ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥३॥
ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः । ज्ञानस्य ब्रह्मणश्चापि ममेव हि पृथङ् न हि ॥४॥
जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः । ऐकमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥५॥
अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् । अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥६॥
ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् । निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥७॥
नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा । अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥८॥
लवणं तोयमात्रेण यथैकत्वमखण्डितम् । अखण्डैकरसं वक्ष्ये विदेहो (?) मुक्तिलक्षणम् ॥९॥
प्रज्ञापदं परित्यज्य ब्रह्मवि पदमेव हि । अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥१०॥
स्मरणं च परित्यज्य भावनं चित्तकर्तृकम् । सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितः ॥११॥
तूष्णीं स्थितिं च सन्त्यज्य ततो मौनविकल्पनम् । यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥१२॥
देहोऽहमित्यहङ्कारं द्वैतवृत्तिरितीरितम् । सर्वं साक्षिरहं ब्रह्म इत्येवं दृढनिश्चयम् ॥१३॥
सर्वढाऽसंशयं ब्रह्म साक्षिवृत्तिरितीरितम् । द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् ॥१४॥
अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् । प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥१५॥
तृतीये पदभागे हि दृढनिश्चयमीरितम् । एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥१६॥
अखण्दैकरसाकारो नित्यं तन्मयतां व्रज । अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥१७॥
मननस्य परं वाक्यं योऽयं चन्दवृक्षवत् । युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥१८॥
अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि । अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥१९॥
पदत्रयं परित्यज्य विचार्य मनसा सह । अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥२०॥
अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः । अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥२१॥
अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् ।
निर्गुणोऽहं निरीहोऽहं निर्यशोऽस्मि (?) सदा स्मृतः ॥२२॥
आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् । एवं निरन्तरं तज्ज्ञो भावयेत् परमात्मनि ॥२३॥
यथा चानुभवं वाक्यं तस्मादनुभवेत् सदा । आरंभाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥२४॥
तृतीयान्तत्वमस्येति वाक्यसामान्यनिर्णयम् । तत्पदं त्वंपदं त्वस्य ( सि? ) पदत्रयमुदाहृतम् ॥२५॥
तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वंपदस्य हि । ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥२६॥
द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकः । अखण्डं सच्चिदानन्दं तत् त्वमेवासि निश्चयः ॥२७॥
त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः । त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥२८॥
इत्येवमुक्तो गुरुणा स एव परमो गुरुः । अहं ब्रह्मेति निश्चित्य सच्छिष्यं परमात्मवान् ॥२९॥
नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः । सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥३०॥
त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु । तथा तत्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥३१॥
सद्गुरोर्वचने यस्तु निश्चयं तत्वनिश्चयम् । करोति सततं मुक्तेर्नात्र कार्या विचारणा ॥३२॥
महावाक्यं गुरोर्वाक्यं तत्वमस्यादिवाक्यकम् । श्रृणोति श्रवणं चित्तं नान्यत् श्रवणमुच्यते ॥३३॥
सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः । इत्येवं च गुरोर्वक्त्रात् श्रुतं ब्रह्मेति तच्छ्रवः ॥३४॥
गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः । त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥३५॥
वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितम् । युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥३६॥
एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते । त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥३७॥
संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते । युक्तिर्नाम वदाम्यत्र देहो नाहं विनाशतः ॥३८॥
स्थूलदेहं सूक्षमदेहं स्थूलसूक्ष्मं च कारणम् । त्रयं चतुर्थे नास्तीति सर्वं चिन्मात्रमेव हि ॥३९॥
एतत्सर्वं जडत्वाच्च दृश्यत्वाद्धटवन्नहि । अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥४०॥
सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः । अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥४१॥
तस्मादहं ब्रह्म एव इदं सर्वमसत्यकम् । एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥४२॥
वक्षे निदिध्यासनं च उभयत्यागलक्षणम् । त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥४३॥
एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् । विजातीयपरित्यागं स्वगतत्वविभावनम् ॥४४॥
सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् । ब्रह्मचिन्मात्रसारत्वं साक्षात्कारं प्रचक्षते ॥४५॥
उपदेशे महावाक्यमस्तित्वमिति निर्णयः । तथैवानुभवं वाक्यामहं ब्रह्मास्मि निर्णयः ॥४६॥
प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् । अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥४७॥
अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् । अयंपदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥४८॥
तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् । अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥४९॥
अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः । तदेव सर्व्मुद्भूतं भविष्यति न संशयः ॥५०॥
अखण्दैकरसो देव अयमेकमुदीरितम् । आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥५१॥
अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः । अस्यार्थोस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥५२॥
द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् । अखण्डैकरसं पश्चात् सोऽहमस्तीति भावय ॥५३॥
इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् । उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥५४॥
किञ्चिज्ज्ञत्वादि जीवस्य सर्वज्ञत्वादि चेश्वरः । जीवोपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥५५॥
सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः । अहं ब्रह्म न सन्देहः सच्चिदानन्दविग्रहः ॥५६॥
अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम । एतत् सर्वं महामिथ्या नास्ति नास्ति न संशयः ॥५७॥
सर्वं नास्ति न सन्देहः सर्वं ब्रह्म न संशयः । एकाकारमखण्डार्थं तदेवाहं न संशयः ॥५८॥
ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ।
सूतः -
भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि
प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।
भजन्ति भसिताङ्गका भरितमोदभारादरा
भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥५९॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 17, 2017
TOP