संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
पञ्चचत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - पञ्चचत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


निदाघः -
पुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते । देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥१॥
तदेतस्मिन् हि षष्ठांशे षडास्यकमलोदिते । पारमेश्वरविज्ञानं श्रुतमेतन्महाघभित् ॥२॥
महामायातमस्तोमविनिवारणभास्करम् । अस्याध्यायैककथनादू (?) विज्ञानं महदश्नुते ॥३॥
श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः । एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥४॥
जैवीषव्यो महायोगी स एव श्रवणेऽर्हति । भस्मरुद्राक्षधृङ् नित्यं सदा ह्यत्याश्रमी मुनिः ॥५॥
एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः । एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥६॥
एतद्ग्रन्थप्रवक्ता शिव एव न चापरः । एतद्ग्रन्थप्रवक्ता साक्षाद्देवी न संशयः ॥७॥
एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः । एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥८॥
एतद्ग्रन्थप्रवक्ता नन्दिकेशो न संशयः । एतद्ग्रन्थप्रवक्ता दत्तात्रेयो मुनिः स्वयम् ॥९॥
एतद्ग्रन्थप्रवक्ता दक्षिणामूर्तिरेव हि । एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥१०॥
न शक्ता मुनिशार्दूल त्वदृते‍ऽहं शिवं शपे । एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥११॥
एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयम् । पिता हि जन्मदो दाता गुरुर्जन्मविनाशकः ॥१२॥
एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः । न दुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥१३॥
गुरुरेव शिवः साक्षात् गुरुरेव शिवः स्वयम् । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥१४॥
एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परम् । अश्रद्वाधानः पुरुषो नैतल्लेशमिहार्हति ॥१५॥
श्रद्धैव परमं श्रेयो जीवन्ब्रह्मैक्यकारणम् । अस्ति ब्रह्मेति च श्रुत्वा भावयन् सन्त (?) एव हि ॥१६॥
शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् । भावग्राह्योऽथमात्मायं परं एकः शिवो ध्रुवः ॥१७॥
सर्वमन्यत् परित्यज्य ध्यायीतेशानमव्ययम् । शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनम् ॥१८॥
अन्येषु च पुराणेषु इतिहासेषु न क्कचित् । एतादृशं शिवज्ञानं श्रुतिसारमहोदयम् ॥१९॥
उक्तं साक्षाच्छिवेनेतद् योगसांख्यविवर्जितम् । भावनामात्रसुलभं भक्तिगम्यमनामयम् ॥२०॥
महानन्दप्रदं साक्षात् प्रसादेनैव लभ्यते । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥२१॥
एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि । श्वानयोनिशतं प्रपय चण्डालः कोटिजन्मसु ॥२२॥
एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा । स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥२३॥
एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः । अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥२४॥
एतद्ग्रन्थार्थविद्ब्रह्मा स ब्रह्म भवति स्वयम् । किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदम् ॥२५॥
यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्तांबुधि (?)
वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्दकल्पैः ।
शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रि
परिखं(डनतो) भवेत् स्यात् तण्डुलोऽपि स मृषा भवमोहजालम् ॥२६॥
तद्वत् सर्वमशास्त्रमित्येव हि सत्यं द्वैतात्थं परिहाय वाक्यजालम् ।
एवं त्वं त्वनिशं भजस्व नित्यं शान्तोद्यखिलवाक् समूहभावना (?) ॥२७॥
सत्यत्वाभावभावितोऽनुरूपशीलः संपश्यन् जगदिदमासमञ्जसं सदा हि ॥२८॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP