संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
एकचत्वारिंशो‍ऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - एकचत्वारिंशो‍ऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
अहं ब्रह्म न सन्देहः अहं ब्रह्म नसंशयः । अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥१॥
चिन्मात्रोऽहं सन्दएह इति निश्चित्य तं त्यज । सत्यं सत्यं पुनःसत्यमात्मनोऽ‍न्यन्न किञ्चन ॥२॥
शिवपादद्वयं स्पृष्ट्वा वदामीद्म न किञ्चन । गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥३॥
जिह्वया परशुं तत्पं धारयामि न संशयः । वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥४॥
निश्चयात्मन् निश्चयस्त्वं निश्चयेन सुखीभव । चिन्मयस्त्वं चिन्मयत्वं चिन्मयानन्दं एव हि ॥५॥
ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः । सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥६॥
देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा । ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥७॥
एतत् ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् । देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥८॥
विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् । साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥९॥
क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् । कदाचिद्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥१०॥
नाददादि ऋषीणां च उपदिष्टं महद्बहु । अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥११॥
न समं पादमेकं च तीर्थकोटिफलं लभेत् । न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥१२॥
एकानुभवमात्रस्य न सर्वं सर्वदानकम् । श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥१३॥
तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते । सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥१४॥
सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वदेवांश्च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥१५॥
सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वभावं च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥१६॥
सर्वहोमं च संत्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वदानं च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥१७॥
सर्वपूजां च संत्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वगुह्यं च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥१८॥
सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वास्तित्वं च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥१९॥
सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वाभ्यासं च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥२०॥
सेशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् । गुरुं वापि परित्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥२१॥
सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वैश्वर्य च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥२२॥
सर्वसकल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वपुण्यं च सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥२३॥
एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् । अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥२४॥
अत्रैव परमो मोक्ष अत्रैव परमं सुखम् । अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥२५॥
अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः । एतद्ग्रन्थं पठंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥२६॥
सर्वशास्त्रं च सन्त्यज्य एतन्मात्रं सदाभ्यसेत् । दिने दिने चैकवारं पठेच्चेन्मुक्तं एव सः ॥२७॥
जन्ममध्ये सकृद्वापि श्रुतं चेत् सोऽ‍पि मुच्यते । सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य संग्रहम् ॥२८॥
सारात् सारतरं सारं सारात् सारतरं महत् । एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥२९॥
न प्रसिद्धिं गते लोके न स्वर्गेऽपि च दुर्लंभम् । (?) ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभम् ॥३०॥
एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः । क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥३१॥
ज्ञात्वा क्षीरसमुद्रस्य तीरे प्रपतं गृहीतवान् । गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥३२॥
तत आरभ्य तल्लोकं त्यक्त्वाहमिममागतः । अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महाद्भुतम् ॥३३॥
तद्ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः । आत्मर्निंष्ठैकलभ्योऽसौ सद्गुरुर्नैष लभ्यते ॥३४॥
ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातिरागता । भवते दर्शितं ह्येतद्गमिष्यामि यथागतम् ॥३५॥
एतावदुक्तमात्रेण निदाद्य ऋषिसत्तमः । पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥३६॥
उवाच वाक्यं सानन्दं साष्टाङ्गं प्रणिपत्य च ।
निदाघः -
अहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः । भवतां दर्शनेनैव मञ्जन्म सफलं कृतम् ॥३७॥
एकवाक्यस्य मनने मुक्तोऽ‍हं नात्र संशयः । नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥३८॥
तस्यापि नावकाशोऽस्ति अहमेव न वास्तवम् । त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥३९॥
ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किञ्चन । एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥४०॥
सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि । तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलम् ॥४१॥
एवं किञ्चत् क्कचिन्नास्ति सर्वं शान्तं निरामयम् । एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥४२॥
भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् । साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥४३॥
अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव । भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥४४॥
ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहो । नमस्ते सुगुरो ब्रह्मन् नमस्ते गुरुनन्दन ॥४५॥
एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयम् ।
किं चण्डभानुकरमण्डलदण्डितानि
काष्ठामुखेषु गलितानि नमस्ततीति ।
यादृक्च तादृगथ शङ्करलिङ्गसङ्ग -
भङ्गीनि पापकलशैलकुलानि सद्यः ॥४६॥
श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP