संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
एकोनत्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - एकोनत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
अत्यन्तं तन्मयं वक्ष्ये दुर्लभं योगिनामपि । वेदशास्त्रेषु देवेषु (?) रहस्यमतिदुर्लभम् ॥१॥
यः परंब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः । सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥२॥
आत्मरूपमिदं सर्वंमाद्यन्तरहितोऽजयः । कार्याकार्यमिदं नास्ति तन्मयो .....  ..... ॥३॥
यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् । शान्ताशान्तद्वयं नास्ति तन्मयो .....  ..... ॥४॥
यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते । तदेव हि मतिर्नास्ति तन्मयो .....  ..... ॥५॥
यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् । यत्र सर्वं जगन्नास्ति तन्मयो .....  ..... ॥६॥
यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् । यत्र भ्रान्तेर्न वार्ता वा तन्मयो .....  ..... ॥७॥
यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् । सर्वसङ्कल्पनिर्मुक्तं तन्मयो .....  ..... ॥८॥
यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते । यत्र द्वन्द्वभयं नास्ति तन्मयो .....  ..... ॥९॥
यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः । यत्र प्रपञ्चं नोत्पन्नं तन्मयो .....  ..... ॥१०॥
यत्र माया प्रकाशो न माया कार्यं न किञ्चन । यत्र दृश्यमदृश्यं वा तन्मयो .....  ..... ॥११॥
विद्वान् विद्याऽपि नास्त्येव यत्र पक्षविपक्षकौ । न यत्र दोषादोषौ वा तन्मयो .....  ..... ॥१२॥
यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते । यत्र शङ्करमेदो न तन्मयो .....  ..... ॥१३॥
न यत्र सदसद्भेदो न यत्र कलनापदम् । न यत्र जीवकलना तन्मयो .....  ..... ॥१४॥
न यत्र शङ्करध्यानं न यत्र परमं पदम् । न यत्र कलनाकारं तन्मयो .....  ..... ॥१५॥
न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् । यत्र प्रपञ्चमाभासं तन्मयो .....  ..... ॥१६॥
न यत्र देहकलनं न यत्र हि कुतूहलम् । न यत्र चित्तकलनं तन्मयो .....  ..... ॥१७॥
न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः । न यत्र कामकलनं तन्मयो .....  ..... ॥१८॥
न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्ववि(नि)ग्रहः । न यत्र शाश्वतं ज्ञानं तन्मयो .....  ..... ॥१९॥
न यत्र कालकलनं यत्र दुःखत्वभावनम् । न यत्र देहकलनं तन्मयो .....  ..... ॥२०॥
न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् । यत्राहमहमात्मत्वं तन्मयो .....  ..... ॥२१॥
न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् । यत्र सङ्कल्पितं कार्यं तन्मयो .....  ..... ॥२२॥
न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् । न यत्र जीवभेदो वा तन्मयो .....  ..... ॥२३॥
यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् । यत्रानन्दगुणं नित्यं तन्मयो .....  ..... ॥२४॥
न यत्र वस्तुप्रभवं न यत्रापजयो जयः । न यत्र वाक्यकथनं तन्मयो .....  ..... ॥२५॥
न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् । न यत्र च महानन्दं तन्मयो .....  ..... ॥२६॥
न यत्र हि सजातीयं विजातीयं न यत्र हि । न यत्र स्वगतं भेदं तन्मयो .....  ..... ॥२७॥
न यत्र नरको घोरो न यत्र स्वर्गसंपदः । न यत्र ब्रह्मलोको वा तन्मयो .....  ..... ॥२८॥
न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः । ब्रह्माण्डमण्डलं यत्र तन्मयो .....  ..... ॥२९॥
न यत्र भूषणं यत्र दूषणं वा न विद्यते । न यत्र समता दोषं (?) तन्मयो .....  ..... ॥३०॥
न यत्र मनसा भावो न यत्र सविकल्पनम् । न यत्रानुभवं दुःखं तन्मयो .....  ..... ॥३१॥
यत्र पापभयं नास्ति पञ्चपापादपि क्कचित् । न यत्र सङ्गदोषं वा तन्मयो .....  ..... ॥३२॥
यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्कचित् । यत्र विश्वविकल्पाख्यं तन्मयो .....  ..... ॥३३॥
न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः । न यत्र करणाकारं तन्मयो .....  ..... ॥३४॥
न यत्र हि मनो राज्यं यत्रैव परमं सुखम् । यत्र वैं शाश्वतं स्थानं तन्मयो .....  ..... ॥३५॥
यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् । यद्गत्वा न निवर्तन्ते तन्मयो .....  ..... ॥३६॥
यद् ज्ञात्वा मुच्यते सर्वं यद् ज्ञात्वाऽन्यन्न विद्यते । यद् ज्ञात्वा नान्यविज्ञानं तन्मयो .....  ..... ॥३७॥
यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः । यत्रैव जीवसङ्घ्यातः तन्मयो .....  ..... ॥३८॥
यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् । यत्रैव निश्चलं शान्तं तन्मयो .....  ..... ॥३९॥
यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् । यत्रैव निश्चाकारं तन्मयो .....  ..... ॥४०॥
न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् । यत्रैव निश्चयं शान्तं तन्मयो .....  ..... ॥४१॥
यत्रैव मोदते नित्यं यत्रैव सुखमेधते । यत्र दुःखभयं नास्ति तन्मयो .....  ..... ॥४२॥
यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः । यत्रैव परमं साक्षात् तन्मयो .....  ..... ॥४३॥
यत्रैव स्वयमेवात्र स्वयमेव तदेव हि । स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो .....  ..... ॥४४॥
यत्रैव परमानन्दं स्वयमेव सुखं परम् । यत्रैवाभेदकलनं तन्मयो .....  ..... ॥४५॥
न यत्र चाणुमात्रं वा न यत्र मनसो मलम् । न यत्र च ददाम्येव तन्मयो .....  ..... ॥४६॥
यत्र चित्तं मृतं देहं मनो मरणमात्मनः । यत्र स्मृतिर्लयं याति तन्मयो .....  ..... ॥४७॥
यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः । यत्रैव परमानन्दं तन्मयो .....  ..... ॥४८॥
यत्र देवास्त्रयो लीनं (?) यत्र देहादयो मृताः । न यत्र व्यवहारोऽस्ति तन्मयो .....  ..... ॥४९॥
यत्र मग्नो निरायासो यत्र मग्नो न पश्याति । यत्र मग्नो न जन्मादिस्तन्मयो .....  ..... ॥५०॥
यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते । यत्रैव मोहमरणं तन्मयो .....  ..... ॥५१॥
यत्रैव कालमरणं यत्र योगो लयं गतः । यत्र सत्सङ्गतिर्नष्टा तन्मयो .....  ..... ॥५२॥
यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् । यत्रैव परमानन्दं तन्मयो .....  ..... ॥५३॥
यत्र विश्वं क्कचिन्नास्ति यत्र नास्ति ततो जगत् । यत्रान्तः करणं नास्ति तन्मयो .....  ..... ॥५४॥
यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् । यत्रैव परमानन्दं तन्मयो .....  ..... ॥५५॥
यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् । यत्रानन्दमयं भाति तन्मयो .....  ...... ॥५६॥
यत्र साक्षात् परं ब्रह्म यत्र साक्षात् स्वयं परम् । यत्र शान्तं परं लक्ष्यं तन्मयो .....  ..... ॥५७॥
यत्र साक्षादखण्डार्थं यत्र साक्षात् परायणम् । यत्र नाशादिकं नास्ति तन्मयो .....  ..... ॥५८॥
यत्र साक्षात् स्वयं मत्रं यत्र साक्षात्स्वयं जयम् । यत्र साक्षान्महानात्मा तन्मयो .....  ..... ॥५९॥
यत्र साक्षात् परं तत्वं यत्र साक्षात् स्वयं महत् । यत्र साक्षात्तु विज्ञानं तन्मयो .....  ..... ॥६०॥
यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् । यत्र साक्षात् सदा शुद्धं तन्मयो .....  ..... ॥६१॥
यत्र साक्षान्महानात्मा यत्र साक्षात् सुखात् सुखम् । यत्रैव ज्ञानविज्ञानं तन्मयो .....  ..... ॥६२॥
यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् । यत्रैव परमानन्दं तन्मयो .....  ..... ॥६३॥
एवं तन्मयभावोक्तं एवं नित्यशनित्यशः । ब्रह्माहं सच्चिदानन्दं अखण्डोऽहं सदा सुखम् ॥६४॥
विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहम् । चिदहं चित्तहीनोऽहं नाहं सोहं भवाम्यहम् ॥६५॥
तदहं चिदहं सो‍ऽहं निर्मलोऽहमहं परम् । परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥६६॥
इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतम् । एवं सर्वं परित्यज्य विस्मृत्वा शुद्धकाष्ठावत् ॥६७॥
प्रेतवद्देहं संत्यज्य काष्ठावल्लोष्ठवत् सदा । स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥६८॥
एतत् प्रकरणं यस्तु श्रृणोति सकृदस्ति वा । महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥६९॥
अङ्गावबद्धाभिरुपासनाभि -
र्वदन्ति वेदाः किल त्वामसङ्गम् ।
समस्तहृत्कोशविशेषसङ्गं
भूमानमात्मानमखण्डरूपम् ॥७०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP