शङ्कराख्यः षष्ठोऽम्शः - षष्ठोऽध्यायः
श्रीशिवरहस्यम्
ईश्वरः -
व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवानि मिथ्या ।
भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥१॥
वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या ।
वित्तानि मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥२॥
गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च गणना च मिथ्या ।
गतिश्च मिथ्या गमनं च मिथ्या ( सर्वं च मिथ्या ) गदितं च मिथ्या ॥३॥
वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥४॥
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥५॥
वाचा वदति यत्किञ्चित् सर्व मिथ्या न संशयः ।
सङ्कल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥६॥
बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्कचित् । प्रपञ्चे पञ्चते यद्यत् सर्व मिथ्येति निश्चयः ॥७॥
श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥८॥
इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥९॥
कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि । यद्यत् संभाव्यते लोके सर्वं मिथ्येति निश्चयः ॥१०॥
सर्वभास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥११॥
सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥१२॥
रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥१३॥
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥१४॥
सर्व मिथ्या जगन्मिथ्या भूतं भव्यं भवत् तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥१५॥
चित्तभेदा जगद्भेदः अविद्यायाश्च संभवः । अनककाटिब्रह्माण्डाः सर्व ब्रह्मेति निश्चिनु ॥१६॥
लोकत्रयेषु सद्भावो गुणदोषादिजृंभणम् । सर्वदशिकवार्तोक्तिः सर्व ब्रह्मेति निश्चिनु ॥१७॥
उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् । ओंकारं चाप्यकारं च सर्व ब्रह्मेति निश्चिनु ॥१८॥
यद्यज्जगति दृश्येत यद्यज्जगति बीक्ष्यते । यद्यज्जगति वर्तेत सर्व ब्रह्मेति निश्चिनु ॥१९॥
येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् । येन केनापि नीतं तत् सर्व ब्रह्मेति निश्चिनु ॥२०॥
येन केनापि गदितं येन केनापि मोदितम् । येन केनापि च च प्रोक्तः (?) सर्व ब्रह्मेति निश्चिनु ॥२१॥
येन केनापि यद्दतं येन केनापि यत् कृतम् । यत्र कुत्र जलस्नानं सर्व ब्रह्मेति निश्चिनु ॥२२॥
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् । यद्यत् करोषि सत्येन सर्व मिथ्येति निश्चिनु ॥२३॥
इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु । यत् किञ्चित् प्रतिभातं च सर्व मिथ्येति निश्चिनु ॥२४॥
ऋभुः -
पुनर्वक्ष्ये रहृस्यानां रहस्यं परमाद्भुतम् । शङ्करेण कुमाराय प्रोक्तं कैलासपर्वते ॥२५॥
तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा । एकवर्जितचिन्मात्रं सर्व चिन्मयमेव हि ॥२६॥
इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि । आत्माभासं च चिन्मात्रं सर्व चिन्मयमेव हि ॥२७॥
सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि । त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥२८॥
आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिदन्यत् किञ्चिच्च सर्व चिन्मयमेव हि ॥२९॥
अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं च चिन्मात्रं सर्व चिन्मयमेव हि ॥३०॥
द्रव्यं कालाश्च चिन्मात्रं ज्ञानं चिन्मयमेव च । ज्ञेये च चिन्मात्रं सर्व चिन्मयमेव हि ॥३१॥
संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रं सर्व चिन्मयमेव हि ॥३२॥
आदिरन्तं(?)च चिन्मात्रं अस्ति चेच्चिन्मयं सदा । ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥३३॥
रुद्रोऽपि देवाश्चिन्मात्रं नरतिर्यक्सुरासुरम् । गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मयमेव हि ॥३४॥
दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् । सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मयमेव हि ॥३५॥
लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च । मूर्तीमूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥३६॥
द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव (?) च । दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥३७॥
चिन्मात्रं व्यवहारादि भूतं भव्यं भवत् तथा । चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥३८॥
चिन्मात्रं प्राण एवह चिन्मात्रं सर्वभिन्द्रियम् । चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥३९॥
नित्यानित्य च चिन्मात्रं सर्वं विन्मात्रमेव हि ।
चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥४०॥
चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल । आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥४१॥
यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते । यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥४२॥
यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते । यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥४३॥
चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।
चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥४४॥
सर्व वेदत्रयप्रोक्तं सर्व चिन्मात्रमेव हि । शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।
यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥४५॥
सूतः -
ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः
तल्लिङ्गागारमध्यस्थितसुमहदीशान (?) लिङ्गेषु पूजा ।
अक्लेद्ये चाभिषेको ........ .......... ......... दिग्वाससे वासदानं
नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि (?) ॥४६॥
स्वाभासे दीपदानं ........ ....... सर्वभक्षे महेशे
नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।
कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रभाणम् ॥४७॥
अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया
भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।
तथापीशं भावैर्भजति भजतामात्मपदवीं
ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥४८॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाधसंवादे प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 14, 2017
TOP