संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| सप्तत्रिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - सप्तत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तत्रिंशोऽध्यायः Translation - भाषांतर ऋभुः - निदाघ श्रृणु वक्ष्यामि रहस्यं परमद्भुतम् । श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥१॥इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥२॥इदमेव हि नास्त्येव अयमित्यपि नास्ति हि । एक एवाप्यणुर्वापि नास्ति नास्ति न संशयः ॥३॥व्यवहारमिदं क्कापि वार्तामात्रमपि क्क वा । बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥४॥सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयम् । दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥५॥आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि । देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥६॥कार्यकारणरूपोऽहमन्तःकरणकार्यकम् । एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥७॥सर्वं सङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् । तत्त्वज्ञानं परं ब्रह्म ओङ्कारार्थं सुखं जपम् ॥८॥द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥९॥आत्मानन्ममहं ब्रह्म प्रज्ञानं ब्रह्म एव हि । इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥१०॥यद्यत् संभाव्यते लोके यद्यत् साधनकल्पनम् । यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्मितम् ॥११॥स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि । बुद्धेर्भेदं मनोभेदं अहंकारं जडं च तत् ॥१२॥सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते । श्रवणं मननं चैव साक्षात्कारविचारणम् ॥१३॥आत्मैवाहं परं चैव नाहं मोहमयं स्वयम् । ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥१४॥ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः । ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥१५॥ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते । ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥१६॥ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किञ्चन । नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥१७॥न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् । न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥१८॥न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा । कदाचिदपि नास्त्येव सत्यं सत्यं न किञ्चिन ॥१९॥नैकमात्रं न चायं वा नान्तरं न बहिर्न हि । ईषन्मात्रं च न द्वैतं न जन्यं न च दृश्यकम् ॥२०॥न भावनं न स्मरणं न विस्मरणमण्वपि । न कालदेशकलनं न सङ्कल्पं न वेदनम् ॥२१॥न विज्ञानं न देहान्यं न वेदोऽहं न संसृतिः । न मे दुःखं न मे मोक्षं न गतिर्न च दुर्गतिः ॥२२॥नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते । न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥२३॥सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा । अखण्डाकाररूपत्वात् सर्व नात्येव सर्वदा ॥२४॥हुंकरस्यावकाशो वा हुंकारजननं च वा । नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥२५॥अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् । आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥२६॥नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि ।सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥२७॥सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः । वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥२८॥ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियम् । यद्यच्छास्त्रेषु निर्णीतं यद्यद्वेदेषु निश्चितम् ॥२९॥परापरमतीतं च अतीतोऽहमवेदनम् । गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥३०॥गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयम् । आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥३१॥आत्मनः शुभमात्मैव अन्याभावान्न संशयः । आत्मनो मोहमात्मैव आत्मनोऽस्ति न किञ्चन ॥३२॥आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः । आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियम् ॥३३॥आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः । आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभम् ॥३४॥आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखम् ।आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥३५॥ब्रह्मैवात्मा न सन्देह आत्मैव ब्रह्मणः स्वयम् । स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥३६॥स्वयमेव चिदाकाशः स्वयमेव निरन्तरम् । स्वयमेव च नानात्मा स्वयमेव च नापरः ॥३७॥स्वयमेव गुणातीतः स्वयमेव महत् सुखम् । स्वयमेव हि शान्तात्मा स्वयमेव हि निष्कलः ॥३८॥स्वयमेव चिदानन्दः स्वयमेव महत्प्रभुः । स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥३९॥स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः । स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥४०॥सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः । दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥४१॥विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् । एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥४२॥एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः । एष एव कृतार्थो हि एष एव सुखं सदा ॥४३॥एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् । अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥४४॥अहं ब्रह्म एतदेव स्वभावं सततं निजम् । अहं ब्रह्म एतदेव सदानित्यं स्वयं सदा ॥४५॥अहं ब्रह्म एतदेव बन्धनाशं न संशयः । अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयम् ॥४६॥एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः । सर्वोपनिषदामर्थः सर्वानन्दमयं जगत् ॥४७॥महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः । साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥४८॥नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः । चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥४९॥ऋषीणां हृदयं ह्येतत् देवानामुपदेशकम् । सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥५०॥यच्च यावच्च भूतानां महोपदेश एव तत् । अहं ब्रह्म महामोक्षं परं चैतदहं स्वयम् ॥५१॥अहं चानुभवं चैतन्महागोप्यमिदं च तत् । अहं ब्रह्म एतदेव सदाज्ञानं स्वयं महत् ॥५२॥महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् । एतदेव महामन्त्रं एतदेव महाजपः ॥५३॥एतदेव महास्नानमहं ब्रह्मेति निश्चयः । एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥५४॥एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः । एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥५५॥एष एव महाकाश अहं ब्रह्मेति निश्चयः । एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलम् ॥५६॥सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥५६॥सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्त्रियः पश्यन्त्यम्बुजमित्रमण्डलगतं शंभुं हिरण्यात्मकम् ।सर्वंत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः वृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥५७॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP