संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| सप्तदशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - सप्तदशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तदशोऽध्यायः Translation - भाषांतर ऋभुः - निदाघ श्रृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् । द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥१॥अहमेव परं ब्रह्म अहमेव परात् परम् । द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मव केवलम् ॥२॥जहमेव हि शान्तात्मा अहमेव हि सर्वगः । अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥३॥अहमेव हि नानात्मा अहमेव हि निर्गुणः । अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥४॥अहमेव हि जगत् सर्वं इदं चैवाहमेव हि । अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥५॥अहमेव हि चैतन्यं अहमेव हि चिन्मयः । अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥६॥अहमेव हि भूतात्मा भौतिकं त्वहमेव हि । अहमेव अत्वमेवाहमहमेवाहमेव हि ॥७॥जीवात्मा त्वहमेवाहमहमेव परेश्वरः । अहमेव विभुन्रित्यमहमेव स्वयं सदा ॥८॥अहमेवाक्षरं साक्षाद् अहमेव हि मे प्रियम् । अहमेव असदा ब्रह्म अहमेव सदाऽव्ययः ॥९॥अहमेवा हमेवाग्रे अहमेवान्तरान्तरः । अहमेव चिदाकाशमहमेवावभासकः ॥१०॥अहमेव सदा स्रष्टा अहमेव हि रक्षकः । अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥११॥अहमेव सदा साक्षी त्वमेव त्वं पुरातनः । त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥१२॥अहमेवमेवाहमहमेव त्वमेव हि । अहमेवाद्वयाकारः अहमेव विदेहकः ॥१३॥अहमेव ममाधारः अहमेव सदात्मकः । अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥१४॥अहमेव समाधानं श्रद्धा चाप्यहमेव हि । अहमेव महाव्योम अहमेव कलात्मकः ॥१५॥अहमेव हि कामान्तः अहमेव सदान्तरः । अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥१६॥अहमेव हि विश्वात्मा अहमेव हि केवलम् । अहमेव परं ब्रह्म अहमेव परात्परः ॥१७॥अहमेव चिदानन्दः अहमेव सुखासुखम् । अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥१८॥अहमेव हि वेदान्तः अहमेव हि चिन्तनः । देहोऽहं शुद्धचैतन्यः (?) अहं संशयवर्जितः ॥१९॥अहमेव परं ज्योतिरहभेव परं पदम् । अहमेवाविनाश्याऽत्मा अहमेव पुरातनः ॥२०॥अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः । अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥२१॥अहमित्यपि हीनोऽहमहं भावनवर्जितः । अहमेव हि भावान्ता अहमेव हि शोभनम् ॥२२॥अहमेव क्षणातीतः अहमेव हि मङ्गलम् । अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥२३॥अहमेवाप्रमेयात्मा अहं संकल्पवर्जितः । अहं बुद्धः परन्धाम अहं बुद्धिविवर्जितः ॥२४॥अहमेव सदा सत्यं अहमेव सदासुखम् । अहमेव सदा लभ्यं अहं सुलभकारणम् ॥२५॥अहं सुलभविज्ञानं दुल्रभो ज्ञानिनां सदा । अहं चिन्मात्र एवात्मा अहमेव हि चिद्धनः ॥२६॥अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः । अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥२७॥अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः । अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥२८॥अहमेवामृतो मोक्षो अहमेव हि निश्चलः । अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥२९॥अहमेव सदा शुद्धः अहमेव हि निर्गुणः । अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥३०॥अहं कामविहीनात्मा अहं मायाविवर्जितः । अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥३१॥अहं सङ्कल्परहितो विकल्परहितः शिवः । अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥३२॥अहमेव सदा ज्योतिरहमेव सदा प्रभुः । अहमेव सदा ब्रह्म अहमेव सदा परः ॥३३॥अहमेव सदा ज्ञानमहमेव सदा मृदुः । अहमेव हि चित्तं च अहं मानविवर्जितः ॥३४॥अहंकारश्च संसारमहङ्कारमसत्सदा । अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥३५॥अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चिन । मत्तोऽन्यत् तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥३६॥पुण्यमित्यपि न क्कापि पापमित्यपि नास्ति हि । इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥३७॥नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः । नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥३८॥इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि । कालों ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥३९॥सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः । चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥४०॥निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः । आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्कचित् ॥४१॥अहमित्यपि वार्ताऽपि स्मरनं भाषनं न च । सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्कचित् ॥४२॥वक्ता नास्ति न संदेहः एषा गीता सुदुर्लभा । सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥४३॥सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः । सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥४४॥एतत्तु दुर्लभं लोके त्रैलोक्यऽपि च दुर्लभम् । अहं ब्रह्म न सन्देह इत्येव भावयेत् दृढम् ॥४५॥ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथासुखम् ॥सूतः - भुवनगगनमध्यध्यानयोगाङ्गसङ्गे यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।सुखमुखभरिताशाः कोशपाशाद्विहीना हृदि मुदितपराशाः शांभवाः शंभुवच्च ॥४६॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वसिद्धान्तसंग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP