संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
षट्चत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - षट्चत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


निदाघः -
एतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्य़मकुर्वतः । यावद्देहं सदावित्तैः शुश्रूषेत् पूजयेद्गुरुम् ॥१॥
तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु । नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥२॥
एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः । निरङ्कुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥३॥
अग्निरित्यादिभिर्मन्त्रैः सर्वदा भस्मधारणम् । त्रियायुषैस्त्र्यंबकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥४॥
त्रिपुण्ट्रधारिणामेव सर्वदा भस्मधारणम् । शिवप्रसादसंपत्तिर्भविष्यति न संशयः ॥५॥
शिवप्रसादादेवद्वै ज्ञानं संप्रपयते ध्रुवम् । शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥६॥
भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति । अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥७॥
त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्मनिर्वृतिः । सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥८॥
ब्रह्मात्माहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् । आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥९॥
गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः । मैत्र्यादिगुणसंपन्नो ब्रह्मैवाहं परो महान् ॥१०॥
समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः । अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥११॥
प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते । प्रारब्धवशतो यद्यत् प्रपयं भुञ्जे सुखं वस ॥१२॥
दूषणं भूषणं चैव सदा सर्वत्र संभवेत् । स्वस्वनिश्चयतो बुद्ध्या मुक्तोऽहमिति मन्यते ॥१३॥
अहमेव परं ब्रह्म अहमेव परा गतिः । एवं निश्चयवान् नित्यं जीवन्मुक्तेति कथ्यते ॥१४॥
एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः । इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥१५॥
सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः । सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥१६॥
अहं चिन्मात्र एवास्मि सच्चिदानन्दविग्रहः । सर्व भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥१७॥
असस्रं भावयन् नित्यं विदेहो मुक्त एव सः । अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥१८॥
अहमेव गुणातीतः अहमेव मनोमयः । अहं मय्यो (?) मनोमेयः प्राणमेयः सदामयः ॥१९॥
सदृङ्मयो ब्रह्ममयोऽमृतमयः सभूतोमृतमेवहि ।
अहं सदानन्दघनोऽव्ययः सदा । स वेदमय्यो (?) प्रणवोऽहमीशः ॥२०॥
अपाणिपादो जवनो गृहीता
अपश्यः पश्याभ्यात्मवत् सर्वमेव ।
यत्तद्भूतं यच्च भव्योऽहमात्मा
सर्वातीतो वर्तमानोऽ‍हमेव ॥२१॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP