संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
चतुर्थोऽध्यायःयः

शङ्कराख्यः षष्ठोऽम्शः - चतुर्थोऽध्यायःयः

श्रीशिवरहस्यम्


स्कन्दः -
हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् । केदारेशं पूजयन्तं शांभवं मुनिसत्तमम् ।
भस्मरुद्राक्षसंपन्नं निःस्पृहं मुनयोऽब्रुवन् ॥१॥
मुनयः -
पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते । आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥२॥
ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये । येन संसारवाराशेः समुत्तीर्णा भवामहे ॥३॥
सूतः -
ऋभुर्मुनीनां वचसा तुष्टः शिष्टान् समीक्ष्य तान् । अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥४॥
ऋभुः -
नागोप्यं भवतामस्ति शांभवेषु महात्मसु । त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥५॥
शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । श्रृणुध्वं ब्रह्मविच्छेष्ठाः शिवज्ञानमहोदयम् ॥६॥
येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः । नवस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥७॥
ऋभुः -
विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः ।
न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥८॥
सूतः सायकसंभवः समुदिताः सूताननेभ्यो हयाः
नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।
मौवीमूर्घ्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
योद्धुं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥९॥
निदाघमथ संबोध्य ततो ऋभुरुवाच ह । अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥१०॥
शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा । अनास्तेति प्रसङ्गात्मा अनात्मेति मनोऽपि वा ॥११॥
अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ।
सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१२॥
चित्ताभावे चिन्तनीयो देहाभावे जरा च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१३॥
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१४॥
ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१५॥
मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् (?) । केवलं ...........     ............ निश्चिनु ॥१६॥
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । केवलं ...........     ............ निश्चिनु ॥१७॥
अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम । केवलं ...........     ............ निश्चिनु ॥१८॥
गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्वतः । केवलं ...........     ............ निश्चिनु ॥१९॥
एकाभावान्न द्वितीयं न द्वितीयान्न चैकता । सत्यत्वमस्ति चेत् किञ्चिदसत्यत्वं च संभवेत् ॥२०॥
असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति । शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥२१॥
भयं यद्यमयं विद्धि अभयाद्भयमापतेत् । केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ॥२२॥
बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मूतिर्न च ॥२३॥
त्वमित्यपि भवेच्चहं त्वं नो चेदहमेव न । इदं यदि तदेवापि तदभावे इदं न च ॥२४॥
अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न ।
कार्यं चेत् कारणं किञ्चित् कार्याभावे न कारणम् ॥२५॥
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥२६॥
अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥२७॥
किञ्चिदस्तीति चेच्चिते सर्वं भवति शीघ्रतः । यत्किंचित् किमपि क्कापि नास्ति चेन्न प्रसज्यति ॥२८॥
तस्प्रादेतत् क्कचिन्नास्ति त्वं नाहं वा इमे इदम् । केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ॥२९॥
नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्कचित् । केवलं ...............  ............... निश्चिनु ॥३०॥
परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि । ब्रह्मामात्रं जगदिदं ब्रह्मामात्रत्वमाप्य हि ॥३१॥
विन्मात्रं केवलं चाहं नास्त्यनात्भेति निश्चिनु ।
इत्यात्मनिर्णयं (!) प्रोक्तः (!) भवते सर्वसङ्ग्रहम् (!) ॥३२॥
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥३३॥
ऋभुः -
निदाघ को भवान् को नु वद मे वदतां वर । यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसंकटात् ॥३४॥
अहमेव परं ब्रह्म अहमेव परं सुखम् । अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥३५॥
अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् । सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥३६॥
अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः । सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥३७॥
नित्युअशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।
नित्यानन्दस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥३८॥
नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥३९॥
अनिर्देश्ययस्वरूपोऽस्मि आदिहीनोऽ‍स्म्यनन्तकः । अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥४०॥
स्वस्वसंकल्पहीनोऽहं सर्वाविद्याविवर्जितः । सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥४१॥
सर्वनामादिहीनोहं सर्वरूपविवर्जितः । सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मासि केवलम् ॥४२॥
सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः । सर्वकालावधिश्चास्मि अहं ब्रह्मासि केवलम् ॥४३॥
सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् । सर्वकल्पावधिश्चास्मि अहं ब्रह्मासि केवलम् ॥४४॥
अहमेव सुखं नान्यदहमेव चिदव्ययः । अहमेवास्मि सर्वत्र अहं ब्रह्मासि केवलम् ॥४५॥
केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्धनः । केवलाखण्डमारोऽस्मि अहं ब्रह्मासि केवलम् ॥४६॥
केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् । केवलात्यन्तसारोऽस्मि अहं ब्रह्मासि केवलम् ॥४७॥
सत्स्वरूपोऽस्मि केवल्यस्वरूपोऽस्म्यहमेव हि । अर्थानर्थविहीनोस्मि अहं ब्रह्मासि केवलम् ॥४८॥
अप्रमेयस्वरूपोऽस्मि अप्रतक्योस्वरूपवान् । अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मासि केवलम् ॥४९॥
अरसस्युतरूपोऽस्मि अनुतापविवर्जितः । अनुम्यूतप्रकाशोऽस्मि अहं ब्रह्मासि केवलम् ॥५०॥
सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः । सर्वसन्देहहीनोऽस्मि [ अहं ब्रह्मासि केवलम् ॥५१॥
अहंभावविहीनोऽस्मि विहीनीऽस्मीति मे न च । सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मासि केवलम् ॥५२॥
ब्रह्म ब्रह्मादिहीनोऽस्मि ] केशवत्वादि न क्कचित् । शङ्करादिविहीनोऽस्मि अहं ब्रह्मासि केवलम् ॥५३॥
तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् । किञ्चिन्नास्ति परो नास्ति किंचिदस्मि परोऽस्मि च ॥५४॥
न शरीरप्रकाशोऽस्मि जगद्भासकरो न च । चिद्धनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥५५॥
मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात् परः ॥५६॥
न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥५७॥
यो वा को वा श्रृणोतीदं ब्रह्मैव भवति स्वयम् ॥५८॥
न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।
उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञसर्वज्ञता बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥५९॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP