संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| द्वादशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - द्वादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वादशोऽध्यायः Translation - भाषांतर ऋभुः - देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् । त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥१॥ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी । स्वस्वरूपो महामौनी विदेहा ....... ....... ॥२॥सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः । एकात्मवर्जितः साक्षी विदेहा ....... ....... ॥३॥लक्ष्म्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः । तूष्णीमात्मा स्वभावात्मा विदेहा ....... ....... ॥४॥शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः । अजात्मा चामृतात्मा हि विदेहा ....... ....... ॥५॥आनन्दात्मा प्रिय़ःस्वात्मा मोक्षात्मा कोऽपि निर्णयः । इत्येवमिति निध्यायी विदेहा ....... ....... ॥६॥ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते । चिन्मात्रेणैव यस्तिष्ठेद्विदेहा ....... ....... ॥७॥निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः । आनन्दभूरिदेहस्तु विदेहा ....... ....... ॥८॥सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नान्योस्मि विदेहा ....... ....... ॥९॥किञ्चित् क्कचित् कदाचिच्च आत्मानं न स्मरत्यसौ । स्वस्वभावेन यतिष्ठेद्विदेहा ....... ....... ॥१०॥अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते । स्थास्यामीत्यपियो युक्तो विदेहा ....... ....... ॥११॥तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन । अहमर्थपरित्यक्तो विदेहा ....... ....... ॥१२॥परमात्मा गुणातीतः सर्वात्मापि न संमतः । सर्वभावान्महात्मा यो विदेहा ....... ....... ॥१३॥कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् । किञ्चिद्भेदं न यस्यास्ति विदेहा ....... ....... ॥१४॥अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते । अत्यन्तसुखमात्रोऽहं विदेहा ....... ....... ॥१५॥निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः । शून्यात्मा सूक्ष्मरूपो यो विदेहा ....... ....... ॥१६॥विश्वःत्मा विश्वहीनात्मा कालात्मा कालहेतुकः । देवात्मा देवहीनो यो विदेहा ....... ....... ॥१७॥मःत्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः । केवलात्मा परात्मा विदेहा ....... ....... ॥१८॥सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वेषामिति यस्तूक्तो विदेहा ....... ....... ॥१९॥सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः । स्थास्यामीति न यस्यात्नो विदेहा ....... ....... ॥२०॥सर्व नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा । प्रबुद्धो नास्ति यस्यान्तो विदेहा ....... ....... ॥२१॥केवलं परमात्मा यः केवलं ज्ञानविग्रहः । सत्तामात्रस्वरूपो यो विदेहा ....... ....... ॥२२॥जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति । ब्रह्मैवेति न यस्यान्तो विदेहा ....... ....... ॥२३॥ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् । इत्येवं निश्चयो भावः विदेहा ....... ....... ॥२४॥इदं चैतन्यभेवेति अहं चैतन्यमेव हि । इति निश्चयशून्यो यो(?) विदेहा ....... ....... ॥२५॥चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः । सुखमात्रान्तरङ्गो यो विदेहा ....... ....... ॥२६॥अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः । तुर्यातीतः परानन्दो विदेहा ....... ....... ॥२७॥नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः । परब्रह्मस्वरूपात्मा विदेहा ....... ....... ॥२८॥तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः । अशुभाशुभशान्तात्मा विदेहा ....... ....... ॥२९॥बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः । प्रपञ्चात्मा परो ह्यात्मा विदेहा ....... ....... ॥३०॥सर्वत्र परिपूर्णात्मा सर्वदा च परात् परः । अन्तरात्मा ह्यनन्तात्मा विदेहा ....... ....... ॥३१॥अबोधबोधहीनात्मा अजडो जडवर्जितः । अतत्वातत्वसर्वात्मा विदेहा ....... ....... ॥३२॥अममाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः । अभूतो भूत एवात्मा विदेहा ....... ....... ॥३३॥चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदंबरः । चिन्मात्ररूप एवात्मा विदेहा ....... ....... ॥३४॥सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः । सच्चिदानन्दपूर्णात्मा विदेहा ....... ....... ॥३५॥सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः । सदाखण्डैकरूपात्मा विदेहा ....... ....... ॥३६॥प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः । नित्यज्ञानपरानन्दो विदेहा ....... ....... ॥३७॥यस्य देहः क्कचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न । सदात्मा ह्यात्मनि स्वस्थो विदेहा ....... ....... ॥३८॥यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः । योगात्मा योगयुक्तात्मा विदेहा ....... ....... ॥३९॥चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि । गुणागुणविकारान्तो विदेहा ....... ....... ॥४०॥कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः पर । निश्चयं च परित्यक्तो विदेहा ....... ....... ॥४१॥भूमानन्दापरानन्दो भोगानन्दविवर्जितः । साक्षी च साक्षिहीनश्च विदेहा ....... ....... ॥४२॥सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन । आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥४३॥यस्थ प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न । स्वस्वरूपः स्वयंज्योतिर्विदेहा ....... ....... ॥४४॥वाचामगोचरानन्दः सर्वेन्दियविवर्जितः । अतीतातीतभावो यो विदेहा ....... ....... ॥४५॥चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः । सर्ववृत्तिविहीनो यो विदेहा ....... ....... ॥४६॥तस्मिन् काले विदेहो यो देहस्मरणवर्जितः । न स्थूलो न कृशो वापि विदेहा ....... ....... ॥४७॥ईषन्मात्रस्थितो यो वै सदा सर्वविवर्जितः । ब्रह्ममात्रेण यस्तिष्ठेत् विदेहा ....... ....... ॥४८॥परं ब्रह्म परानन्दः परमात्मा परात् परः । परैरदृष्टाबाह्यान्तो विदेहा ....... ....... ॥४९॥शुद्धवेदान्तसारोऽयं शुद्धसत्वात्मनि स्थितः । तद्भेदमपि यस्त्यक्तो विदेहा ....... ....... ॥५०॥ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् । ब्रह्म मृतरसे मग्नो विदेहा ....... ....... ॥५१॥ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् । स्वह्मामृतरसे तृप्तो विदेहा ....... ....... ॥५२॥ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः । ब्रह्मानदपरं ज्योतिर्विदेह ....... ....... ॥५३॥ब्रह्मानन्दपरानन्दो ब्रह्मामृत्शिवार्चनम् । ब्रह्मानन्दः सदानन्दो विदेहा ....... ....... ॥५४॥व्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् । ब्रह्मानन्दरसप्रीतो विदेहा ....... ....... ॥५५॥ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः । ब्रह्मानन्दजनैर्युक्तो विदेहा ....... ....... ॥५६॥ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः । ब्रह्मामृतजपो यस्य विदेहा ....... ....... ॥५७॥ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्कचित् । ब्रह्मामृतमयी विद्या विदेहा ....... ....... ॥५८॥ब्रह्मनन्दमदोन्मत्तो ब्रह्मामृतरसंभरः । ब्रह्मात्मनि सदा स्वस्थो विदेहा ....... ....... ॥५९॥देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥६०॥स्कन्दः - अनाथ नाथ ते पदं भजाम्युमासनाथ सः न्निशीथनाथमौलिसंम्फुटाललाटसङ्गज -स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥६१॥विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात् मनःसरोरुहं क्षणं तथेक्षणेन मे सदा ।प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥६२॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP