संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| विंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - विंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव विंशोऽध्यायः Translation - भाषांतर ऋभुः - श्रृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् । इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥१॥सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् । सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥२॥सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः । सुलभं कारणाभावं (?) सुलभं ब्रह्मणी स्थितम् ॥३॥सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयम् । स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥४॥सृष्ट्वैदं न संसारः ब्रह्मैवेदं मनो न च । ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किञ्चन ॥५॥ब्रह्मैवेदमसत् सर्वं ब्रह्मैवेदं परायणम् । ब्रह्मैवेदं शरीराणां ब्रह्मैवेद तृणं न च ॥६॥ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च । ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥७॥ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा । ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं नहि ॥८॥ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि । ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥९॥ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् । ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्दलम् ॥१०॥ब्रह्मैवाहं तु नास्त्यन्यद् ब्रह्मैव गुरुपूजनम् । ब्रह्मैव नान्यत् किञ्चित्तु ब्रह्मैव सकलं सदा ॥११॥ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् । ब्रह्मणोऽन्यत् पदं नास्ति ब्रह्मणोऽन्यत् क्षणं न मे ॥१२॥ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् । ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥१३॥ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् । ब्रह्मैवाहं सतं (?) नास्ति ब्रह्मैव ब्रह्मरूपकः ॥१४॥ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् । ब्रह्मैव नानाकारत्वात् ब्रह्मैवाहं प्रियं महत् ॥१५॥ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः । ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥१६॥ब्रह्मैव ब्रह्म द्वं च ब्रह्मैव ब्रह्म तज्जयः । ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥१७॥आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन । आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥१८॥आत्मज्योतिरहंभूतमात्मैवास्ति सदा स्वयम् । स्वयं तत्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥१९॥स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् । स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥२०॥स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः । स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलाः ॥२१॥स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः । स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥२२॥स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थिथ । अयं चेदं न नास्त्येव अयं भेदविवर्जितः ॥२३॥ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥२४॥ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत् स्वयम् । ब्रह्मैव सततं नान्यत् ब्रह्मैव गुरुरात्मनः ॥२५॥आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् । स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥२६॥स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते । स्वयं ब्रह्म स्वयं देहं स्वयं पूर्णः परः पुमान् ॥२७॥स्वयं तत्वमसि ब्रह्म स्वयं माति प्रकाशकः । स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥२८॥स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः । स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥२९॥स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः । स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥३०॥स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जिथ । स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थिथ ॥३१॥अखण्डः परिपूर्णोऽहमखण्दरसपूरणः । अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥३२॥इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयम् । अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥३३॥अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥३४॥ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः । ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥३५॥ब्रह्मवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् । ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥३६॥ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि । ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥३७॥ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा । ब्रह्मैव बुद्धिवद् भाति [ ब्रह्मैव फलवत् स्वयम् ॥३८॥ब्रह्मैव मूर्तिबद्भाति तद्ब्रह्मासि न संशयः । ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥३९॥ब्रह्मैव भूतिवद्भाति ] ब्रह्मैव जडवत् स्वयम् । ब्रह्मैवौंकारवत् सर्व ब्रह्मैवोंकाररूपवत् ॥४०॥ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् । सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चिन ॥४१॥ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चिन । सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्धटवत् सदा ॥४२॥ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा । ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥४३॥अहमेव परं ब्रह्म अहमेव परात् परः । अहमेव मनोतीत अहमेव जगत्परः ॥४४॥अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः । आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥४५॥नान्यत् किञ्चिदहं ब्रह्म नान्यत् किञ्चिच्चिदव्ययः । आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥४६॥आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् ।आत्मान्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥४७॥आत्मैवाहमहंशून्यमात्मैवाहं सदा न मे ।आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्कचित् ॥४८॥अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् । अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥४९॥आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् । अहमेव परं ब्रह्म अहमेव परो गुरुः ॥५०॥जीवभावं सदासत्यं शिवसद्भावमीदृशम् । विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥५१॥अहमेव सदा पूर्ण अहमेव निरन्तरम् । नित्यतृपो निराकारो ब्रह्मैवाहं न संशयः ॥५२॥अहमेव परानन्द अहमेव क्षणान्तिकः । अहमेव त्वमेवाहं त्वं चाहं नास्ति नाति हि ॥५३॥वाचामगोचरोऽहं वाङ्मनो नास्ति कल्पितम् । अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥५४॥अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः । इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥५५॥इदं सुखमहं ब्रह्म इदं सुखमहं जडम् । इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥५६॥इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभम् । सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥५७॥शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तम् ।अन्तकान्तकमहो कलयन्तो वेदमौलिवचनैः किल शान्ताः ॥५८॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघ संवादे आत्मविभवप्रकरणं नाम विंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP