संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
त्रिचत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - त्रिचत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


निदाघः -
न पश्यामि शरीरं वा लिङ्गं करणमेव वा । न पश्यामि मनो वापि न पश्यामि जडं ततः ॥१॥
न पश्यामि चिदाकाशं न पश्यामि जगत् क्कचित् ।
न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥२॥
आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः ।
न पश्यामि सदा भेदं न जडं न जगत् क्कचित् ॥३॥
न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् । न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥४॥
न च कालं न च भयं न च शोकं शुभाशुभम् । न पश्यामि न सन्दीनं (?) न बन्धं न च संभवम् ॥५॥
न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः । न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥६॥
न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् । न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥७॥
न जगच्छ्रवणं चैव निदिध्यासं न चापरः । आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥८॥
आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यम् । नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥९॥
पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् । शुद्धोऽ‍हं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥१०॥
चिन्मात्रोऽहं स्वयं सोऽहं तत्वरूपोऽहमीश्वरः । परापरो‍ऽहं तुर्योऽहं प्रसन्नोऽहं सरोऽस्म्यहम् ॥११॥
ब्रह्माऽहं सर्वलक्ष्यो‍ऽहं सदा पूर्णोऽ‍हमक्षरः । ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥१२॥
नमस्कारोमि ते नाहं सर्वं च गुरुदक्षिणा । मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥१३॥
ममात्मा च माया दत्तः स्वयमात्मनि पूरितः । त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥१४॥
ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि । एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥१५॥
गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः । त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥१६॥
एकं कारणमेकं च एकमेव द्वयं नहि । त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥१७॥
त्वमेव सद्गुरुनासि अहं नास्मि सशिष्यकः । ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽ‍स्मि तन्मयः ॥१८॥
भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन । ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥१९॥
ततैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् । तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥२०॥
नमस्कृतोहं युष्माकं भवानज्ञीति वक्ष्यति । ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥२१॥
ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते । कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥२२॥
सदा चैतन्यमात्रत्वात् नाहं न त्वं नहि द्वयम् । न बन्धं न परो नान्ये निष्ठा न सत्सदा ॥२३॥
न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् । न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥२४॥
नास्ति नास्ति न सन्देहः केवलात् परमात्मनि । न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥२५॥
न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् । न कालो न जगन्नान्यो नवा कारणमद्वयम् ॥२६॥
नोन्नतोऽ‍त्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः । सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मवि केवलम् ॥२७॥
अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि । सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वर ॥२८॥
त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः । आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥२९॥
गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः । शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥३०॥
गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि । चिन्मात्रात्मनि कल्प्यो‍ऽहं चिन्मात्रात्मा न चापरः ॥३१॥
चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते । सर्वस्थितोऽ‍हं सततं नान्यं पश्यामि सद्गुरोः ॥३२॥
नान्यत् पश्यामि चित्तेन् नान्यत् पश्यामि किञ्चन ।
सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥३३॥
एवं ब्रह्म प्रपश्यामि ननयदस्तीति सर्वदा । अहो भेदं प्रकुपितं अहो माया न विद्यते ॥३४॥
अहो सद्गुरुमाहात्ममहो ब्रह्मसुखं महत् । अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥३५॥
अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् । अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥३६॥
अहमेव हि नान्यत्र अहमानन्द एव हि । ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥३७॥
सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् । एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥३८॥
एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥३९॥
अगाध(बोध)वेदवाक्यतो न चाधिभेषजं भवेदुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।
प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥४०॥
द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।
सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥४१॥
वरः कङ्कः काको भवदुभयजातेषु नियतं महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।
यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥४२॥
कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां
धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीम् ।
कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखाधिकं
तद्वत् सांबपदांबुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥४३॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे निदाधानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP