संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| एकादशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - एकादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकादशोऽध्यायः Translation - भाषांतर ऋभुः - ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् । आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥१॥अहं ब्रह्मवददेव महमात्मा न संशयः । चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥२॥चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥३॥देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स ........ ........ ॥४॥आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् । यश्चिदेवं परानन्दं स ........ ........ ॥५॥यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स ........ ........ ॥६॥यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते । परानन्दो मुदानन्दः स ........ ........ ॥७॥चेतन्यमात्रं यस्यान्तश्चिन्मात्रिकस्वरूपवान् । न स्मरत्यन्यकलनं ( लं ) स ........ ........ ॥८॥सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः । सर्वत्र नित्यपूर्णात्मा स ........ ........ ॥९॥परमात्मपरा नित्यं परमात्मति निश्चितः । आनन्दाकृतिरव्यक्तः स ........ ........ ॥१०॥शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः । नित्यानन्दप्रसन्नात्मा स ........ ........ ॥११॥एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः । किञ्चिदस्तित्वहीनो यः स ........ ........ ॥१२॥न मे चित्तं न मे बुद्धिनोहङ्कारो न चेन्द्रियः । केवलं ब्रह्ममात्रत्वात् स ........ ........ ॥१३॥न मे दोषा न मे देहा न मे प्राणो न मे क्कचित् । दृढनिश्चयवान् योऽन्तः स ........ ........ ॥१४॥न मे माया न मे कामा न मे क्रोधाऽपरीऽस्म्यहम् । न मे किञ्चिदिदं वाऽपि स ........ ........ ॥१५॥न मे दोषो न मे लिङ्गं न मे बन्धः क्कचिज्जगत् । यस्तु नित्यं सदानन्दं स ........ ........ ॥१६॥न मे श्रोत्रं न मे नासा न मे चक्षुनें मे मनः । न मे जिह्वेति यस्यान्तः स ........ ........ ॥१७॥न मे देहो न मे लिङ्गं न मे कारणमेव च । न मे तुर्यमिति स्वस्थः स ........ ........ ॥१८॥इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्कचित् । ब्रह्ममात्रेण यतिष्ठेत् स जी स ........ ........ ॥१९॥न मे किञ्चिन्न मे किश्चिन्न मे कश्चित् क्कचित् जगत् । अहमेवेति यस्तिष्ठेत् स ........ ........ ॥२०॥न मे कालो न मे देशो न मे वस्तु न मे स्थितिः । न मे स्नानं न मे प्रासः स ........ ........ ॥२१॥न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् । न कचिद्भेदहीनोऽयं स ........ ........ ॥२२॥न मे बन्धं (?) न मे जन्म न मे ज्ञानं न मे पदम् । न मे वाक्यमिति स्वस्थः स ........ ........ ॥२३॥न मे पुण्यं न मे पपं न मे कायं न मे शुभम् । न मे दृश्यमिति ज्ञानी स ........ ........ ॥२४॥न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः । न मे जीव इति ज्ञात्वा स ........ ........ ॥२५॥न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्कचित् । न मे भावं न मे वस्तु स ........ ........ ॥२६॥न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः । न मे दूरमिति स्वस्थः स ........ ........ ॥२७॥न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः । न मे श्रेष्ठं क्कचिद्वस्तु स ........ ........ ॥२८॥न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः । न मे कर्म क्कचिद्वस्तु स ........ ........ ॥२९॥न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् । न मे कार्यमिति स्वस्थः स ........ ........ ॥३०॥न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् । न मे विद्येति यः स्वस्थः स ........ ........ ॥३१॥न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः । न मे ध्यानमिति स्वस्थः स ........ ........ ॥३२॥न मे शीतं न मे चोष्णं न मे मोहो न मे जपः । न मे सन्ध्येति यः स्वस्थः स ........ ........ ॥३३॥न मे जपो न मे मन्त्रो न मे होमो न मे निशा । न मे सर्वमिति स्वस्थः स ........ ........ ॥३४॥न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा । न मे चात्मेति यः स्वस्थः स ........ ........ ॥३५॥न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः । न मे चित्तमिति स्वस्थः स ........ ........ ॥३६॥न मे वक्त्यव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे मन्तव्यमीषद्वा स ........ ........ ॥३७॥न मे भोक्तव्यमीशद्वा न मे ध्यातव्यमणअपि । न मे स्मर्तव्यमेवायं स ........ ........ ॥३८॥न मे भोगो न मे रोगो न मे योगो न मे लयः । न मे सर्वमिति स्वस्थः स ........ ........ ॥३९॥न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः । अध्यारोपो न मे स्वस्थः स ........ ........ ॥४०॥अध्यारोप्यं न मे किञ्चिदपवादो न मे क्कचित् । न मे किञ्चिदहं यत्तु स ........ ........ ॥४१॥न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु । न मे भूतं न मे कार्यं स जीवन्मुक्त स ........ ........ ॥४२॥न मे कोऽह्म न मे चेदं न मे नान्यं न मे स्वयम् । न मे कश्चिन्न मे स्थस्थः स ........ ........ ॥४३॥न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् । न मे कृपा न मेऽस्तीति स ........ ........ ॥४४॥न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् । न मे स्वस्थः स्वयं यो वा स ........ ........ ॥४५॥न मे तपं न मे लोभो न मे गौण न मे यशः । न मे तत्वमिति स्वस्थः स ........ ........ ॥४६॥न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् । न मे किञ्चिदिति ध्यायन् स ........ ........ ॥४७॥न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः । न मे दैवमिति स्वस्थः स ........ ........ ॥४८॥न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् । न मे न्यूनं क्कचिद्वस्तु स ........ ........ ॥४९॥न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् । न मे सर्वमिति ज्ञानी स ........ ........ ॥५०॥न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् (?) । न मे गुरुर्न मे यस्तु स ........ ........ ॥५१॥न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् । न मे न मेति यस्तिष्ठेत् स ........ ........ ॥५२॥न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा । न मे पुरमिति ज्ञानी स ........ ........ ॥५३॥न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् । न मे दृष्यं क्कचिद्वस्तु स ........ ........ ॥५४॥न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः । न मे पुरमिति ज्ञानी स ........ ........ ॥५५॥न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः । न मे विकल्प इत्याप्तः स ........ ........ ॥५६॥न मे जरा न मे बाल्यं न मे यौवनमण्वपि । न मे मृतिर्न मे ध्वान्तं स ........ ........ ॥५७॥न मे लोकं न मे भोगं न मे सर्वमित स्मृतः । न मे मौनमिति प्रपतं स ........ ........ ॥५८॥अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स ........ ........ ॥५९॥ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः । स्वयमेव स्वयं ज्योतिः स ........ ........ ॥६०॥स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः । स्वात्मन्येव स्वयं भूतः स ........ ........ ॥६१॥स्वात्मानन्दं स्वयं भुक्ष्वे (?) स्वात्मराज्ये स्वयं वसे । स्वात्मराज्ये स्वयं पश्ये स ........ ........ ॥६२॥स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः । स्वस्वरूपः स्वयं पश्ये स ........ ........ ॥६३॥जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥६४॥ये वेदवादविधिकल्पितभेदबुद्ध्या पुण्याभिसन्धितधिया परिकर्शयन्तः ।देहं स्वकीयमतिदुःखपरं पराभिस्तेषां सुखाय न तु जातु तवेश पादात् ॥६५॥कः सन्तरेत भवसागरमेतदुद्यत्तरङ्गसदृशं जनिमृत्युरूपम् ।ईशार्चनाविधिसुबोधितभेदहीनज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥६६॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP