संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| नवमोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - नवमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव नवमोऽध्यायः Translation - भाषांतर निदाघः - कुत्र वा भवता स्नानं क्रियते नितरां गुरो । स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥१॥ऋभुः - आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः । इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥२॥परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् । इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥३॥केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् । केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥४॥केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥५॥केवलं सर्वरूपोऽहं अहंत्यक्तोऽहमस्म्यहम् । इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥६॥सर्वहीनस्वरूपोऽहं चिदाकाशोहमस्म्यहम् । इदमेव ............. .............. ॥७॥केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् । इदमेव ............. .............. ॥८॥सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । इदमेव ............. .............. ॥९॥केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा । इदमेव ............. .............. ॥१०॥केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् । इदमेव ............. .............. ॥११॥केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह । इदमेव ............. .............. ॥१२॥सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् । इदमेव ............. .............. ॥१३॥सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् । इदमेव ............. .............. ॥१४॥अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् । इदमेव ............. .............. ॥१५॥सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् । इदमेव ............. .............. ॥१६॥अनन्तानन्दरूपोऽहमवाङ्मनसगोचरः । इदमेव ............. .............. ॥१७॥ब्रह्माननदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा । इदमेव ............. .............. ॥१८॥आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् । इदमेव ............. .............. ॥१९॥आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् । इदमेव ............. .............. ॥२०॥आदिमध्यान्तहीनोऽस्मि आकारसदृशोऽस्म्यहम् । इदमेव ............. .............. ॥२१॥नित्यसत्तास्वरूपोऽस्मि आकारसदृशोऽस्म्यहम् । इदमेव ............. .............. ॥२२॥नित्यसंपूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् । इदमेव ............. .............. ॥२३॥नित्यसत्ता स्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा । इदमेव ............. .............. ॥२४॥नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा । इदमेव ............. .............. ॥२५॥रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा । इदमेव ............. .............. ॥२६॥भूतानन्दस्वरूपोऽस्मि भाषान्नदोऽस्म्यहं सदा । इदमेव ............. .............. ॥२७॥सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्धनोऽस्म्यहम् । इदमेव ............. .............. ॥२८॥देहभावविहीनोऽहं चित्तहीनोऽहमेव हि । इदमेव ............. .............. ॥२९॥देहवृत्तिविहीनोऽहं मन्त्रैवाह(?)महं सदा । इदमेव ............. .............. ॥३०॥सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि । इदमेव ............. .............. ॥३१॥सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा । इदमेव ............. .............. ॥३२॥इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि । इदमेव ............. .............. ॥३३॥अहमेवाहमेवास्मि नान्यत् किञ्चिच्च विद्यते । इदमेव ............. .............. ॥३४॥अहमेव महानात्मा अहमेव परायणम् । इदमेव ............. .............. ॥३५॥अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् । इदमेव ............. .............. ॥३६॥अहमेवान्यवद्भामि अहमेव शरीरवत् । इदमेव ............. .............. ॥३७॥अहं च शिष्यवद्भामि अहं वेदैरुपासितः । इदमेव ............. .............. ॥३८॥अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः । इदमेव ............. .............. ॥३९॥मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या (?) । इदमेव ............. .............. ॥४०॥मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् । इदमेव ............. .............. ॥४१॥अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा । इदमेव ............. .............. ॥४२॥निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥४३॥हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् । केबलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥४४॥स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः । स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥४५॥स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे । स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥४६॥स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे । स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥४७॥स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् ।अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥४८॥अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥४९॥अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥५०॥अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥५१॥अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥५२॥अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥५३॥अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥५४॥अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् । अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥५५॥अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥५६॥अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः आत्मज्ञानप्रकाशकम् ॥५७॥ अहं ब्रह्मास्म्यहं मन्त्रः आत्मलोकजयप्रदम् (?) । अहं ब्रह्मास्म्यहं मन्त्रः असत्यादि विनाशयेत् ॥५८॥अहं ब्रह्मास्म्यहं मन्त्रः अन्यत् सर्वं विनाशयेत् । अहं ब्रह्मास्म्यहं मन्त्रः अप्रतर्क्यसुखप्रदम् ॥५९॥अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् । अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥६०॥सप्तकोटिमहामन्त्रा जन्मकोटिशतप्रदाः । सर्वमन्त्रान् समुत्सृज्य जपमेनं समभ्यसेत् ॥६१॥सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति (?) मे । मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥६२॥यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत् सर्वदः ।यो वाचा मनसा(तथे)न्द्रियगणैर्देहोऽपि वेद्यो न चे - दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥६३॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अहंब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP