संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| द्वितीयोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - द्वितीयोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वितीयोऽध्यायः Translation - भाषांतर ईश्वरः - श्रृणु पद्मजसंभूत मत्तः सूत्रविधिक्रमम् । ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्वतः ॥१॥व्यासा मन्वन्तरेषु प्रतियुगजनिताः शांभवज्ञानसिद्ध्यै भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा - कान्तात् प्रपय वितन्वते स्वकधिया प्रामाण्यवादानहो ॥२॥जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै - र्योगैर्योगाद्युपायैर्यमनियममहासांख्यवेदान्तवाक्यैः ।श्रोतव्यो भगवान् न रूपगुणतो मन्तव्य इत्याह हि वेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥३॥जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शंभुं नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥४॥योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।तस्मात् तर्कवितर्ककर्कशधिया नातिक्रभेत् तां धियं स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥५॥तत्त्वस्यापि समन्वयात् श्रुतिगिरां विश्वेश्वरे चोदना सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया वेदान्तदिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥६॥नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किरूपमीष्टे ।गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकंतच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥७॥हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवे - द्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥८॥श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमासनाथो नाथानां स च किल न कश्चिज्जनिभवः ।स एवानन्दात्मा श्रुतिकथितकोशादिरहितो विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥९॥तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत् (?) मन्त्रैर्वर्णकृतक्रमेण भगवान् सत्याद्यनन्तोच्यते ।नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥१०॥पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेवी महेशोऽव्ययः ।आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो ब्रह्मैव प्रतिभाति भेदकलने चाकल्पनाकल्पतः ॥११॥सुषुप्त्युत्क्रान्त्योर्वा नहि खलु न भेदः परशिवे अतोत्थानं (!)द्वैते न भवति परे वै विलयने ।तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं न गन्धां न स्पर्शं भवति परमेशे विलसितम् ॥१२॥अधीनं चार्थ तद्भवति पुनरेवेक्षणपरं स्वतन्त्रेच्छा शंभोर्न खलु करणं कार्यमपि न ॥१३॥ज्ञेयत्वावचनाच्च शंकर परानन्दे प्रमोदास्पदे प्रज्ञानं नहि कारणं प्रकृतिकं प्रश्न्त्रयस्यार्थवत् ॥१४॥महद्वच्चाणीयो भवति च समो लोकसदृशा तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।न संख्याभेदेन त्रिभुवनविभ वादतिकरं स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥१५॥प्राणादुद्गतपञ्चसंख्यजनिता तद्वस्त्रिवच्च श्रुतं तच्छोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वह चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥१६॥जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥१७॥प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं अभिध्योपादेशाद् भवति उभयाम्नायवचनैः ।भवत्यात्मा कर्ता कृतिवरहितो योनिरपि च प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥१८॥अभिध्योपादेशात् स बहु भवदीक्षादिवशतः समासा(भा)चोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां मृदीव व्यापारो भवति परिणामेषु च शिवः ॥१९॥आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान् नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥२०॥भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो वेदातेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥२१॥भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात् प्राणस्यानुगमात् स एवं भगवान् नान्यः पथा विद्यते ॥२२॥न वक्तुश्चात्मा वै स खलु शिवभूषादिविहितस्तथैवायुर्देहे अरनिवहवत् चक्रगमहो ।अदृश्यो ह्यात्मा वै स हि सुदृशतः (!) शास्त्रनिवहैः शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥२३॥प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥२४॥संभोगप्राप्तिरेव प्रकटजगतः कारणतया सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।अतोऽत्ता वै शर्वश्चरमचरभृतं जगदिदं महामृत्युदंशो भवति शिख(?)रन्नाद इति च ॥२५॥प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे ।प्रबिशति शिव एव भोगभोक्तृनियमनदर्शनतो हि वाक्यजातम् ॥२६॥विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् ।अतोऽन्तरा वाक्यपदैः समर्थितः स्नानादियोगैर्भगवानुमापतिः ॥२७॥सुखाभिधानात् सुखमेव शंभुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽति विद्यया ॥२८॥अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमन्ति ॥२९॥अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥३०॥न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं न शारीरं भेदे भवति अगजानायकवरे ।अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च परादादित्यं चामतिरपि च भेदप्रकलने ॥३१॥भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥३२॥स्मृतं मानं शंभौ भगवति च तत्साधनतयाप्यतो दैवं भूतं न भवति च साक्षात् परशिवे ।अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथा संपत्तिर्वै भुवि भवति किं शंभुकलने ॥३३॥यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात् साक्ष्येव बाह्यान्तरा ।शब्दो ब्रह्मतथैव न प्रभवते प्राणप्रभेदेन च तच्चाप्युत्क्रमणस्थितिश्च विलये भुंक्तेऽप्यसौ शङ्करः ॥३४॥तं भूमा संप्रसादाच्छिवमजरमात्मानमधुना श्रृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।तथा धर्मापत्तिर्भवति परमाकाशजनितं प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥३५॥अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।अतो मर्शान्नायं भवति भवभावात्मकतया शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥३६॥परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो निरुक्तं चाल्पं यत् त्वनुकृति तदीयेऽह्नि महसा ।विभातीदं शश्वत् प्रमतिवरशब्दैः श्रुतिभवैः ॥३७॥यो व्यापकोऽपि भगवान् पुरुषोऽन्तरात्मा । वालाग्रमात्रहृदये किमु सन्निविष्टः ॥३८॥प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं मानेनापि च संभवाभ्रमपरो वर्णं तथैवाह हि ।शब्दं चापि तथैव नित्यमपि तत् साम्यानुपत्तिक्रिया मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो भवेत् ॥३९॥भावं चापि शुगस्य तच्छ्रवणतो जात्यन्तरासंभवात् संस्काराधिकृतोऽपि शङ्करयदं ये वक्तुकामा मनाक् ।ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छारीरात् परं ज्योतिश्चाभिनिविश्य व्योम परमानन्दं परं विन्दति ॥४०॥स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा स एवात्मा दोषैर्विगतमतिकायः परशिवः ।स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥४१॥प्रधानानां तेषां भवति इतरेषामनुपमो - प्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥४२॥असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा अभीमानोद्देशादनुगतिरथाक्षादिरहितः ।स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥४३॥भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादोनैनं शास्ति प्रभुमतिपरं वाचि वारंभणेभ्यः ।भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्सत्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात ॥४४॥युक्तेः शब्दान्तराच्चासदिति नहि कार्यं च करणं प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।परः प्राणोद्देशाद्धितकरणदोषाभिधधिया तथाश्माद्या दिव्या ......... द्योतन्ति देवा दिवि(?) ॥४५॥प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं स्वण्क्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।विकाराणां भेदो न भवति वियोज्यो गुणधियां अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥४६॥स कर्मारंभाद्वा उपलभति यद्देतिच परं सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुक् अवस्थानं नैव प्रभवति तृणेषूद्यतमते - स्तथाभावात् पुंसि प्रकटयति कार्यं च करणम् ॥४७॥अङ्गित्वानुपपत्तितोऽप्यनुमितो(?) शक्तिज्ञहीनं जगत् प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।महद्दीर्घं ह्रस्वं उभयमपि कर्मैव करणे तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥४८॥न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन प्रकाशवैयर्थ्यमतो हि मात्रा ।सूर्योपमा प्रमवतित्वतथाउदन्बा-(?)त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥४९॥तदव्यक्तं न ततो लिङ्गमेतत् तथोभयव्यपदेशाच्च तेजः ।प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्ध्या ॥५०॥विशेषतश्चोपपत्तेस्तथान्यदतः फलं चोपपद्येत यस्मात् ।महेश्वराच्छ्रुतिभिश्चोदितं यत् धर्मं परे चेश्वरं चेति चान्ये ।न कर्मवच्चेश्वरे भेदधीर्नः ॥५१॥भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः ।अथान्यथात्वं वचसोऽसौ वरीयान् संज्ञातश्चेव्द्याप्तिरेव प्रमाणम् ॥५२॥सर्वत्राभेदादनयोस्तथान्यत् प्राधान्यमानन्दमयः शिरस्त्वं ।तथेतरे त्वर्थसामान्ययोगात् प्रयोजनाभावतयाऽप्ययाय ते ॥५३॥शब्दात्तथा ह्यात्मगृहीतिरुत्तरात् तथान्वयादितराख्यानपूर्वम् ।अशब्दत्वादेवभेतत् समानमेवं च संविद्वचनाविशेषात् ॥५४॥तद्दर्शनात् संभृतं चैवमेषोऽनाम्नायाद्वेद्यभेदात् परेति ।गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥५५॥यथाधिकारं स्थितिरेव चान्तरा ( तथात्मनः ) तत्रैव भेदाद्विशिषन्हीतरवत् ।अन्यत्तथा सत्यकृत्या तथैके कामादिरत्रायतनेषु चादरात् ॥५६॥उपस्थिते तद्वचनात् तथाग्नेः संलोप एवाग्निभवः प्रदाने ।अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः क्रिया परं चासमानाच्च दृष्टेः ॥५७॥श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव ।तद्भावभावादुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥५८॥अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥५९॥रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यत् विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥६०॥दोषोभयोरपि तदा स्वगमोऽभ्युपेया । स्मृत्या सतो दृशि उदासीनवद्भजेत् ॥६१॥नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवत् भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः कात्स्न्येंनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥६२॥संबन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपि तच्चैवाकरणं च भोगविधुरं त्वं तत्वसर्वज्ञता ।उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि .........(नि)षेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥६३॥अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।शब्देभ्योऽप्यमतं श्रुतं भवति तद् ज्ञानं परं शांभवं यावल्लोकविभागकल्पनवशात् भूतक्रमात् सर्जति ॥६४॥तस्यासंभवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥६५॥विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥६६॥नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।संज्ञान एवात्र गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥६७॥स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।गुणदालोकेषु व्यतिकरवतो गन्धवहतः परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥६८॥यावच्चात्मा नैव दृश्येत दोषैः पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।मनोऽन्यत्रायदि कार्येषु गौणं विमुखः कर्ता शाश्वतो विहरति उपादानवशतः ॥६९॥अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदत् उपालब्धुं शक्ते र्विपरति समाध्या क्षुभितया ।तनोः संबन्धेन प्रविशति परं ज्योतिकलने ॥७०॥आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् ।आकाशवत् सर्वगतोऽव्ययात्मा आसन्धिभेदात् प्रतिदेशभावात् ॥७१॥तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलनादघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।हस्तादयस्त्वणवः प्राणवायोः चक्षुस्तथा करणत्बान्न दोषः ॥७२॥यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेषवादः ॥७३॥आत्मैकत्वात् प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्वान्न चेष्टा ।भोक्तुर्न चात्मन्यविदीकृता ये ते धृममार्गेण किल प्रयान्ति ॥७४॥चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥७५॥तद्दर्शनं तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।चिरन्तपः शुद्धिरतो विशेषात् ते स्थावरे चाविशेषार्थवादः ॥७६॥सन्ध्यांशसृष्ट्या किल निर्ममे जगत् पुत्रेषु मायामयतोऽव्ययात्मा ।कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातं ।जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दं तिरोधानकृत् ॥७७॥देहायोगात् ह्रसते वर्धते यः तत्रैवान्यत् पश्यते सोऽथ बोधात् ।स शोशुचानस्मृतिशब्दबोधः ॥७८॥नानाशब्दादिभेदात् फलविविधमहाकर्मवैचित्र्ययोगात् ईष्टे तां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।तद्दर्शनात् सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥७९॥वाचा समारंभणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् ।तुल्यं दृशा सर्वतः स्याद्विभागः अव्यापयात्रान्नविशेषतस्तु ते ॥८०॥कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्ततोऽन्यः ।अनुष्ठेयं चान्यत् श्रुतिशिरसि निष्ठाभ्रमवशात् ।विधिस्तुत्या भावं प्रवदति रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥८१॥प्राणात्यते वापि समं तथान्नं अबाधतः स्मृतितः कामकारे ।विहिताश्रमकर्मतः सहैव कार्यात् तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥८२॥तथान्तरा चापि स्मृतेर्विज्ञेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका ।सैवाधिकारादर्शनात् तदुक्तं आचारतः स्वामिन ईज्यवृत्त्या ॥८३॥स्मृते ऋत्विक्सहकार्यं च कुत्स्नम् ।तन्मौनवाचा वचनेन कुर्वन् तदैहिकं तदवस्थाधृतेश्च ॥८४॥आवृत्त्या प्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति ग्राहं याति च शास्त्रतो (?) प्रतीककलनात् सा ब्रह्मदृष्टिः प्रभोः ।आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः त्स्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥८५॥आप्रायणात् तत्र दृष्टं हि यत्र तत्रागमात् पूर्वयोऽश्लेषनाशौ ।तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥८६॥अतोऽन्येषामुभयोर्यत्र योगात् विद्याभोगेन वाङ्मनसी दर्शनाच्च । सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥८७॥समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः ।सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेष ऊष्मा रसैके ॥८८॥अत्र स्मर्यनानुपरताविधिवाक्यसिद्धेर्वैयासकिर्मुनिरेषोव्ययात्मा ।अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने ।योग्नः प्रतिसृतैः(ते)स्तथार्चिरात् वायुमद्धटितो वरुणेन ॥८९॥आतिवाहिकविधेस्तदलिङ्गात् तद्वदत्र उभयोरपि सिद्धिः ।तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥९०॥स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।विशेषदृष्ट्या संपादाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥९१॥आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।उपन्यासादन्यसंकल्पभूत्या रथावायोऽप्युथाह (?) ॥९२॥भावमन्यो उभयं न स्वाभावा भावे संपत्तिरेवं जगत् स्यात् ।प्रत्यक्षेणोपदेशात् (श)स्थितिरपि जगतो व्यक्तिभावादुपासा भेदाभासस्थितिरविकारावर्तिरिति च ॥९३॥तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात् तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः । भोगे सामान्यलिङ्गात् शिवभजनभवे मान्यमनसा अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥९४॥तवोक्तः सूत्राणां विधिरपि च सामान्यमुभयप्रकृष्टश्रुत्यैव प्रभवति महानन्दसदने ॥९५॥स्कन्दः - त्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः ।प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारीण्यथ सूत्रितानि ॥९६॥न तानि बुद्ध्युद्भवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥९७॥इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे शिवेन ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP