संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| अष्टदशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - अष्टदशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टदशोऽध्यायः Translation - भाषांतर ऋभुः - श्रृणु भूयः परं तत्वं सद्यो मोक्षप्रदायकम् । सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥१॥ब्रह्माक्षरमिदं सर्वं पराकारमिदं नहि । इदमित्यपि यद् दोषं वयमित्यपि भाषणम् ॥२॥यत् किञ्चित्स्मरणं नास्ति यत् किञ्चिद् ध्यानमेव हि ।यत्किञ्चिद् ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥३॥यत्किञ्चिद्ब्रह्म वाक्यं वा यत्किञ्चिद्वेदवाक्यकम् । यत्किञ्चिद्गुरुवार्क्यं वा तत्सर्वं ब्रह्म एव हि ॥४॥यत्किञ्चित्कल्मषं सत्यं यत्किञ्चित् प्रियभाषणम् । यत्किञ्चिन्मननं सत्ता तत्सर्वं ........... ॥५॥यत्किञ्चित् श्रवणं नित्यं यत् किञ्चिद्ध्यानामश्नुते । यत्किञ्चिन्नश्चयं श्रद्धा तत्सर्वं .......... ॥६॥यत्किञ्चि द्गुरूपदेशं यत्किञ्चिद्गुरुचिन्तनम् । यत्किञ्चिद्योगभेदं वा तत्सर्वं ............ ॥७॥सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः । तूष्णीमेवासनं ब्रह्म दुः (सु)खमेव हि केवलम् ॥८॥सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् । सर्वत्यागः परानन्दं सर्वत्यागः परं सुखम् ॥९॥सर्वत्यागं मनस्त्यागः सर्वत्यागमहंकृतेः । सर्वत्यागं महायागः सर्वत्यागः सुखं परम् ॥१०॥सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि । चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥११॥चित्तमेव महामाया चित्तमेव शरीरकम् । चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥१२॥चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् । चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥१३॥चित्तमेव सदा सत्यं चित्तमेव नहि क्कचित् । चित्तमेव महाशास्त्रं चित्तमेव मनःप्रदम् ॥१४॥चित्तमेव सदा पापं चित्तमेव सदा मतम् । चित्तमेव हि सर्वाख्यं चित्तमेव सदा जहि ॥१५॥चित्तं नास्तीति चिन्ता स्यात् (?) आत्ममात्रं प्रकाशते ।चित्तमस्तीति चिन्ता चेत् चित्तत्वं स्वयमेव हि ॥१६॥स्वयमेव हि चित्ताख्यं स्वयं ब्रह्म न संशयः । चित्तमेव हि सर्वाख्यं चित्तं सर्वमिति स्मृतम् ॥१७॥ब्रह्मैवाहं स्वयंज्योतिर्ब्रह्मैवाहं न संशयः । सर्वं ब्रह्म न सन्देहः सर्वं चिज्ज्योतिरेव हि ॥१८॥अहं ब्रह्मैव नित्यात्मा पूर्णात् पूर्णतरं सदा । अहं पृथ्व्यादिसहितं अहमेव विलक्षणम् ॥१९॥अहं सूक्ष्मशरीरान्तमहमेव पुरातनम् । अहमेव हि मानात्मा सर्वं ब्रह्मैव केवलम् ॥२०॥चिदाकारो ह्यहं पूर्णश्चिदाकारमिदं जगत् । चिदाकारं चिदाकाशं चिदाकाशमहं सदा ॥२१॥चिदाकाशं त्वमेवासि चिदाकाशमहं सदा । चिदाकाशं चिदेवेदं चिदाकाशान्न किञ्चन ॥२२॥चिदाकाशततं सवं चिदाकाशं प्रकाशकम् । चिदाकारं मनोरूपं चिदाकाशं हि चिद्धनम् ॥२३॥चिदाकाशं परंब्रह्म चिदाकाशं च चिन्मयः । विदाकाशं शिवं साक्षाच्चिदाकाशमहं सदा ॥२४॥सच्चिदानन्दरूपोऽहं सच्चिदानन्दशाश्वतः । सच्चिदानन्द सन्मात्रं सच्चिदानन्दभावनः ॥२५॥सच्चिदान्नदपूर्णोऽहं सच्चिदानन्दकारणम् । सच्चिदानन्दसन्दोहं सच्चिदानन्द हीनकः (१) ॥२६॥सच्चिदानन्दनित्योऽहं सच्चिदानन्दलक्षणम् । सच्चिदानन्दनात्रोऽहं सच्चिदानन्दरूपकः ॥२७॥आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः । आत्मैवास्मि परं सत्यमात्मैव परमं पदमू ॥२८॥आत्मैव जगदाकारं आत्मैव भुवनत्रयम् । आत्मैव जगतां श्रेष्टः आत्मैव हि मनोमयः ॥२९॥आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः । आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥३०॥आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः । आत्मैव परमं लोकं आत्मैव परमात्मनः ॥३१॥आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः । आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥३२॥आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् । आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥३३॥आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः । आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥३४॥आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः । आत्मैव ब्रह्मविज्ञानं आम्तैवाहं त्वमेव हि ॥३५॥आत्मैव परमानन्द आत्मैवाहं जगन्मयः । आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥३६॥आम्तैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः । आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥३७॥आम्तैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः । आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥३८॥आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः । आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥३९॥नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा । आत्मैवाहं जगन्नान्यद् अमृतात्मा पुरातनः ॥४०॥पुरातनोऽहं पुरुषोऽहमीशः परात् परोऽहं परमेश्वरोऽहम् ।भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयम् ॥४१॥आनन्दोऽहमशेषोऽहममृतोऽहं न संशयः । अजोऽहमात्मरूपोऽहमन्यन्नास्ति सदा प्रियः ॥४२॥ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः । सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥४३॥निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा । अनर्थमूलं नास्त्येव मायाकार्यं न किञ्चन ॥४४॥अविद्याविभवो नास्ति अहं ब्रह्म न संशयः । सर्व ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥४५॥तदेवाहं स्वयं चाहं परं चाहं परेश्वरः । विद्याधरोऽहमेवात्र विद्याविद्ये न किञ्चन ॥४६॥चिदहं चिदहं नित्यं तुर्योऽहं तुर्यकः परः । ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽस्म्यहम् ॥४७॥मत्तोऽन्यन्नापरं किञ्चिन्मत्तोऽन्यद्ब्रह्म च क्कचिद् ।मत्तोऽन्यत् परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥४८॥मत्तोऽन्यत् सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे ।मत्तोऽन्यत् भवनं नास्ति मत्तोऽन्यद् ब्रह्म एव न ॥४९॥मत्तोऽन्यत् कारणं नास्ति मत्तोन्यत् किञ्चिदप्यणु ।मत्तोऽन्यत् सत्वरूपं च मत्तोऽन्यत् शुद्धमेव न ॥५०॥मत्तोऽन्यत् पावनं नास्ति मत्तोऽन्यत् तत्पदं न हि ।मत्तोऽन्यत् धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥५१॥मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि ।मत्तोऽन्यद्भाति सर्वस्वं मत्तोऽन्यच्छशश्रृङ्गवत् ॥५२॥ मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकम् ।मत्तोऽन्यत् संशयो नास्ति मत्तोऽन्यत् कार्य कारणम् ॥५३॥ब्रह्ममात्रमिदं सर्वं सोहमस्मीति भावनम् । सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥५४॥बहुनोक्तेन किं योगिन् निश्चयं कुरु सर्वदा । सकृन्निश्चयमात्रेण ब्रह्मैव भवति स्वयम् ॥५५॥वननगभुवनं यच्छङ्करान्नान्यदस्ति जगदिदमसुराद्यं देवदेवः स एव ।तनुमनगमनाद्यैः कोशकाशावकाशे म खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥५६॥चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरात तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी ।चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं तं ब्रह्मामृतभेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥५७॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अष्टादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP