संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| एकविंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - एकविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकविंशोऽध्यायः Translation - भाषांतर ऋभुः - महारहस्यं वक्ष्यामि वेदान्तेषु च गोपितम् । यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥१॥सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततम् । तदेव ब्रह्म संपश्यत् ब्रह्मैव भवति स्वयम् ॥२॥अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः । सत्यं ब्रह्म सदा ब्रह्माप्यहं ब्रह्मैव केवलम् ॥३॥गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मपरोऽस्म्यहम् । नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहम् ॥४॥वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः । आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहम् ॥५॥सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परम् । अहं ब्रह्मा त्वं नास्ति अहंकारपरं नहि ॥६॥अहं ब्रह्म इदं नास्ति अयमात्मा महान् सदा । वेदान्तवेद्यो ब्रह्मात्मा अपरं शशशृङ्गवत् ॥७॥भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः । चिन्मयोऽहं जडं तुच्छ्रं चिन्मात्रं देहनाशनम् ॥८॥चित्तं किञ्चित् क्कचिच्चापि चित्तं ह(दू)रोऽहमात्मकः । सत्यं ज्ञानमनन्तं यन्नानृतं जडदुःखकम् ॥९॥आत्मा सत्यमनान्तात्मा देहमेव न संशयः । वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥१०॥एकसंख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहम् । सर्वमेवमसत्यं च उत्पन्नत्वात् परात् सदा ॥११॥सर्वावयवहीनोऽपि नित्यत्वात् परमो ह्यहम् । सर्वं दृश्यं न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ॥१२॥आग्रहं च न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् । इदमित्यपि निर्देशो न क्कचित् चिन्मयत्वाद्वदाम्यहम् ॥१३॥निर्गुणब्रह्म एवाह सुगुरोरुपदेशतः । विज्ञानं सगुणो(णं) ब्रह्म अहं विज्ञानविग्रहः ॥१४॥निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् ।देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥१५॥रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः । कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥१६॥आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् । इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥१७॥पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः । परमानन्दतत्वात्मा परिच्छिन्नं न हि क्कचित् ॥१८॥एकात्मा निर्मलाकार अहमेवेति भावय । अहंभावनया युक्त अहंभावेन संयुतः ॥१९॥शान्तं भावय सर्वात्मा शाम्यतत्वं मनोमलः । देहोऽहमिति सन्त्यज्य ब्रह्माहमिति निश्चिनु ॥२०॥ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किञ्चन । इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥२१॥अहं सोहमहं सोहमहं ब्रह्मेति भावय । चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥२२॥नेदं नेदं सदा नेदं न त्वं नाहं च भावय । सर्वं ब्रह्म न सन्देहः सर्वं वेदं न किञ्चन ॥२३॥सर्वं शब्दार्थभवनं सर्वलोकभयं न च । सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥२४॥[ सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा नहि । सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥२५॥ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि । ] प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥२६॥ततस्तदपि सन्त्यज्य निजरूपे स्थिरो भव । स्थिररूपं परित्यज्य आत्ममात्रं भवत्यासौ ॥२७॥त्यागत्वमपि सन्त्यज्य भेदमात्रं सदा त्यज । स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥२८॥इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् । इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥२९॥सर्वभावं न सन्देहः सर्वं नास्ति न संशयः । सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥३०॥त्वं ब्रह्माहं न सन्देहो ब्रह्मैवेदं न संशयः । सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥३१॥ब्रह्मान्यद्भाति चेन्मिथ्या सर्वं मिथ्या परावरा । न देहं पंचभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥३२॥न च बुद्धीन्द्रियाभावो न मुक्तिर्ब्रह्ममात्रकम् । निमिषं च न शङ्कापि न सङ्कल्पं तसस्ति चेत् ॥३३॥अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् । न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥३४॥प्राणो....दीयते शास्ति घ्राणो यदिह गन्धकम् । चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥३५॥त्यगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः । जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥३६॥हस्तौ यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसंभवः । रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिव ॥३७॥सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् । पूज्यं चेत् पूजनं चास्ति भास्यं चेद्भासकः शिवः ॥३८॥सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि । अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥३९॥नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् । अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥४०॥अत्यन्तं जन्ममात्रं च अत्यन्तं रणसंभवम् । अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥४१॥अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् । अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥४२॥अत्यन्तं सर्वदा शुभमत्यन्तं सर्वदा मलम् । अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥४३॥अत्यन्तं सर्वदा ब्रह्म अत्यन्तं सर्वदा जगत् । एतावदुक्तमभयमहं में न किञ्चन ॥४४॥सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् । नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥४५॥कारणं कार्यरूपं वा सर्वं नास्ति न संशयः । कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥४६॥सर्वं ब्रह्म न सन्देहः सर्वशब्दो न वास्तवम् । भूतं भविष्यं वार्तं तु कर्यं वा नास्ति सर्वदा ॥४७॥सदसद्भेद्यभेदं वा न गुणा गुणभागिनः । निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥४८॥भाष्यं वा भाषणं वाऽपि नास्ति नास्ति च किञ्चन । प्रबलं दुर्बलं वापि अहं च त्वं च वा क्कचित् ॥४९॥ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्कचित् । तीर्थं वा स्नानरूपं वा देवो वा देवपूजनम् ॥५०॥जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन । सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥५१॥मातरः पितरो वापि देहो वा नास्ति किञ्चन । दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥५२॥मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन ।ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥५३॥सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते । यः श्रृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥५४॥स्कन्दः - माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजेयस्यानल्पतपोभिरुग्रकरुणादृक् तस्य मुक्तिः स्थिरा ॥५५॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP