संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| द्वाविंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - द्वाविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वाविंशोऽध्यायः Translation - भाषांतर ऋभुः - वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्व जगन्मूषा । अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥१॥अह ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् । अहं ब्रह्म न मे वार्ता ब्रह्म न मे द्वयम् ॥२॥अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः । अह ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥३॥अहं ब्रह्म न मे सोऽयमहं वेश्वानरो नहि । अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥४॥सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः । अहमेव शरीरान्तरहमेव स्थिरः सदा ॥५॥एव विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् । अनेकशतसाहस्रेष्वेक एव विवेकवान् ॥६॥तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः । ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥७॥ज्ञानिन (:) चार्चनेनेव जीवन्मुक्तो भवेन्नरः । ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥८॥अहं ब्रह्म न सन्देहः अहमेव गुरुः परः । अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥९॥गुणातीतो जनातीतो परातीतो मनः परः । परतः परतोऽतीतो बुद्ध्यातीतो रसात् परः ॥१०॥भावातीतो मनातीतो वेदातीतो विदः परः । शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥११॥अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः । कचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥१२॥तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयम् ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥१३॥हरिणापि हरेणापि ब्रह्मणापि सुरेरपि । न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥१४॥अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् । विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥१५॥दुष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् । कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥१६॥सर्वं मिथ्या न सन्देहः सर्व ब्रह्मैव केवलम् । एतत्प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥१७॥दुर्लभं यः पठेद्भक्त्या ब्रह्म संपद्यते नरः । वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥१८॥ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् । अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥१९॥सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः । सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥२०॥अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे । न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥२१॥ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः । ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥२२॥ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः । आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥२३॥ब्रह्मैव भेदरहितं भेदभेव महद्भयम् । आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥२४॥आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः । अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहम् ॥२५॥न्रिमलोऽस्मि परं ब्रह्म कार्यकार्यविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥२६॥निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहम् ।अक्षरेऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥२७॥समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः ।सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥२८॥सदाऽखण्डैकरूपोऽस्मि सदा मानविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥२९॥सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः । सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥३०॥एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥३१॥एवं ब्रह्मात्मवान् ज्ञानी ब्रह्माहमिति निश्चयः । स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥३२॥स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मदान् । ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥३३॥नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः । नाहं मासं न मेऽस्थीनि नाहंकारकलेबरः ॥३४॥न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् । [ सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥३५॥नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् ।न वाच्योऽहं न मुक्तोऽहं न बुद्धोहं कदाचन ॥३६॥न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् । ] सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥३७॥न घ्राणोऽहं न गन्धोऽहं न चिह्वोऽयं न मे प्रियः ।नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥३८॥ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन । न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥३९॥नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः । पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥४०॥गुह्यं नाहं नचानन्दो न प्रजापतिदेवता । सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥४१॥नाहं मनो न संकल्पो न चन्द्रो न च साक्षिकः । नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥४२॥नाहंकारमहं रुद्रो नाभिमानो न साक्षिकः । चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥४३॥नाहं विश्वो न जग्रद्वा स्थूलदेहो न मे क्कचित् । न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥४४॥न पारमार्थिको देवो नाहमन्नमयो जडः । न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥४५॥न विज्ञानमयः कोशो नानन्दमयकोशवान् । ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥४६॥एतावदुक्ता सकलं नामरूपद्वयात्मकम् । सर्वं क्षणेन् विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥४७॥एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् । शशश्रृङ्गवदेवेदं नरश्रृङ्गवदेव तत् ॥४८॥आकाशपुष्पसदृशं यथा मरुमरीचिका । गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥४९॥असत्यमेव सततं पञ्चरूपकमिष्यते । शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥५०॥माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् । तेषां रोदनमात्रं यत् केवलं द्रब्यपञ्चकम् ॥५१॥तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् । अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥५२॥अहमेव सुखं चेति अहमेव न चापरः । अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥५३॥अहं निर्मलशुद्धेति अहं जीवविलक्षणः। अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥५४॥अहमेव हि चिन्मात्रमहमेव हि निर्गुणः । सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥५५॥नित्यमङ्ग्लरूपात्मा नित्यमोक्षमयः पुमान् । एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥५६॥ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन । एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ॥५७॥यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥तं वेदादिवचोमिरीडितमहायागैश्च भोगैर्व्रतै - र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥५८॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP